भीम उवाच ।
३.१५२.१
पाण्डवो भीमसेनोऽहं धर्मपुत्रादनन्तरः ।
विशालां बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः ॥
विशालां बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः ॥
M N Dutt
Bhima said: I am Bhimasena, the son of Pandu. I am next in birth to Dharmaraja (Yudhishthira). O Rakshasas, I had come with my brother to the great Badari.
३.१५२.२
अपश्यत्तत्र पाञ्चाली सौगन्धिकमनुत्तमम् ।
अनिलोढमितो नूनं सा बहूनि परीप्सति ॥
अनिलोढमितो नूनं सा बहूनि परीप्सति ॥
M N Dutt
There did the Panchala princess see an excellent Sugandhika (lotus), which was certainly carried there by wind from this place. She desired to possess more of that kind lotus.
३.१५२.३
तस्या मामनवद्याङ्ग्या धर्मपत्न्याः प्रिये स्थितम् ।
पुष्पाहारमिह प्राप्तं निबोधत निशाचराः ॥
पुष्पाहारमिह प्राप्तं निबोधत निशाचराः ॥
M N Dutt
O rangers in night, know, that being ever engaged in fulfilling the desire of my wedded wife of faultless feature, I have come here to get the flowers.
राक्षसा ऊचुः ।
३.१५२.४
आक्रीडोऽयं कुबेरस्य दयितः पुरुषर्षभ ।
नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मिणा ॥
नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मिणा ॥
M N Dutt
The Rakshasas said : O foremost of men, this place is the favourite play-ground of Kubera. Men subject to the laws of earth cannot sport here.
३.१५२.५
देवर्षयस्तथा यक्षा देवाश्चात्र वृकोदर ।
आमन्त्र्य यक्षप्रवरं पिबन्ति विहरन्ति च ।
गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव ॥
आमन्त्र्य यक्षप्रवरं पिबन्ति विहरन्ति च ।
गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव ॥
M N Dutt
O Vrikodara, the celestials Rishis, the Yakshas and the celestials, after taking permission of the Yaksha chief, drink the water of this lake and sport here. O Pandava, the Gandharvas and the Apsaras (also) sport here.
३.१५२.६
अन्यायेनेह यः कश्चिदवमन्य धनेश्वरम् ।
विहर्तुमिच्छेद्दुर्वृत्तः स विनश्येदसंशयम् ॥
विहर्तुमिच्छेद्दुर्वृत्तः स विनश्येदसंशयम् ॥
M N Dutt
That wicked person, who without heeding the lord of wealth (Kubera), unlawfully tries to sport here, certainly meets with destruction.
३.१५२.७
तमनादृत्य पद्मानि जिहीर्षसि बलादितः ।
धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम् ॥
धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम् ॥
M N Dutt
Without heeding him (Kubera), you intend to take away the lotuses from this place by main force, why then do you say that you are the brother of Dharmaraja?
भीम उवाच ।
३.१५२.८
राक्षसास्तं न पश्यामि धनेश्वरमिहान्तिके ।
दृष्ट्वापि च महाराजं नाहं याचितुमुत्सहे ॥
दृष्ट्वापि च महाराजं नाहं याचितुमुत्सहे ॥
M N Dutt
Bhimasena said: Rakshasas, I do not see the lord of wealth here. Even if I see that great king, I shall not pray (for the flowers) to him,
३.१५२.९
न हि याचन्ति राजान एष धर्मः सनातनः ।
न चाहं हातुमिच्छामि क्षात्रधर्मं कथंचन ॥
न चाहं हातुमिच्छामि क्षात्रधर्मं कथंचन ॥
M N Dutt
The Kshatriyas never beg; this is the eternal Dharma. I never wish to forsake the duties of a Kshatriya.
३.१५२.१०
इयं च नलिनी रम्या जाता पर्वतनिर्झरे ।
नेयं भवनमासाद्य कुबेरस्य महात्मनः ॥
नेयं भवनमासाद्य कुबेरस्य महात्मनः ॥
M N Dutt
The lotus-lake has sprung up on the mountain breast. It has not been made in the abode of the illustrious Kubera.
३.१५२.११
तुल्या हि सर्वभूतानामियं वैश्रवणस्य च ।
एवंगतेषु द्रव्येषु कः कं याचितुमर्हति ॥
एवंगतेषु द्रव्येषु कः कं याचितुमर्हति ॥
M N Dutt
(Therefore) it belongs to every body equally with Vaisravana (Kubera). In such things, who should beg to others?
वैशंपायन उवाच ।
३.१५२.१२
इत्युक्त्वा राक्षसान्सर्वान्भीमसेनो व्यगाहत ।
ततः स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान् ।
मा मैवमिति सक्रोधैर्भर्त्सयद्भिः समन्ततः ॥
ततः स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान् ।
मा मैवमिति सक्रोधैर्भर्त्सयद्भिः समन्ततः ॥
M N Dutt
Thereupon that powerful hero was forbidden by the Rakshasas, saying “Don't do it” and from all sides they began to abuse him in anger.
३.१५२.१३
कदर्थीकृत्य तु स तान्राक्षसान्भीमविक्रमः ।
व्यगाहत महातेजास्ते तं सर्वे न्यवारयन् ॥
व्यगाहत महातेजास्ते तं सर्वे न्यवारयन् ॥
M N Dutt
Not heeding them at all, that greatly powerful one plunged (into the lake). But they (the Rakshasas) prepared themselves to oppose him.
३.१५२.१४
गृह्णीत बध्नीत निकृन्ततेमं
पचाम खादाम च भीमसेनम् ।
क्रुद्धा ब्रुवन्तोऽनुययुर्द्रुतं ते
शस्त्राणि चोद्यम्य विवृत्तनेत्राः ॥
पचाम खादाम च भीमसेनम् ।
क्रुद्धा ब्रुवन्तोऽनुययुर्द्रुतं ते
शस्त्राणि चोद्यम्य विवृत्तनेत्राः ॥
M N Dutt
With rolling eyes, they upraised their arms and rushed in anger at Bhimasena, crying "Seize him" "Bind him," "Cut him down" "Look to Bhima and eat him up."
३.१५२.१५
ततः स गुर्वीं यमदण्डकल्पां
महागदां काञ्चनपट्टनद्धाम् ।
प्रगृह्य तानभ्यपतत्तरस्वी
ततोऽब्रवीत्तिष्ठत तिष्ठतेति ॥
महागदां काञ्चनपट्टनद्धाम् ।
प्रगृह्य तानभ्यपतत्तरस्वी
ततोऽब्रवीत्तिष्ठत तिष्ठतेति ॥
M N Dutt
Thereupon that greatly powerful hero, taking up his huge and mighty mace inlaid with gold which resembled the mace of Yama himself, turned towards those (Rakshasas) and exclaimed, "Stay," "Stay".
३.१५२.१६
ते तं तदा तोमरपट्टिशाद्यै
र्व्याविध्य शस्त्रैः सहसाभिपेतुः ।
जिघांसवः क्रोधवशाः सुभीमा
भीमं समन्तात्परिवव्रुरुग्राः ॥
र्व्याविध्य शस्त्रैः सहसाभिपेतुः ।
जिघांसवः क्रोधवशाः सुभीमा
भीमं समन्तात्परिवव्रुरुग्राः ॥
M N Dutt
Thereupon they rushed upon him with great force upraising their lances, axes and other weapons. Desiring to kill Bhima, those dreadful and fearful Krodhavasas surrounded hiin on all sides.
३.१५२.१७
वातेन कुन्त्यां बलवान्स जातः
शूरस्तरस्वी द्विषतां निहन्ता ।
सत्ये च धर्मे च रतः सदैव
पराक्रमे शत्रुभिरप्रधृष्यः ॥
शूरस्तरस्वी द्विषतां निहन्ता ।
सत्ये च धर्मे च रतः सदैव
पराक्रमे शत्रुभिरप्रधृष्यः ॥
M N Dutt
But that mighty hero was begotten by Vayu in the womb of Kunti. He was heroic and courageous; that slayer of foes was ever devoted to virtue and truth. He was incapable of being vanquished by any enemy through prowess.
३.१५२.१८
तेषां स मार्गान्विविधान्महात्मा
निहत्य शस्त्राणि च शात्रवाणाम् ।
यथाप्रवीरान्निजघान वीरः
परःशतान्पुष्करिणीसमीपे ॥
निहत्य शस्त्राणि च शात्रवाणाम् ।
यथाप्रवीरान्निजघान वीरः
परःशतान्पुष्करिणीसमीपे ॥
M N Dutt
Therefore on the banks of that lake he defeated the foes and broke their arms. He kiiled more than one hundred, beginning from the foremost.
३.१५२.१९
ते तस्य वीर्यं च बलं च दृष्ट्वा
विद्याबलं बाहुबलं तथैव ।
अशक्नुवन्तः सहिताः समन्ता
द्धतप्रवीराः सहसा निवृत्ताः ॥
विद्याबलं बाहुबलं तथैव ।
अशक्नुवन्तः सहिताः समन्ता
द्धतप्रवीराः सहसा निवृत्ताः ॥
M N Dutt
Seeing his prowess, strength and also the might of his arms, those foremost of heroes, being unable to withstand (his attack), began suddenly to fly in all directions.
३.१५२.२०
विदीर्यमाणास्तत एव तूर्ण
माकाशमास्थाय विमूढसंज्ञाः ।
कैलासशृङ्गाण्यभिदुद्रुवुस्ते
भीमार्दिताः क्रोधवशाः प्रभग्नाः ॥
माकाशमास्थाय विमूढसंज्ञाः ।
कैलासशृङ्गाण्यभिदुद्रुवुस्ते
भीमार्दिताः क्रोधवशाः प्रभग्नाः ॥
M N Dutt
Beaten and pierced by Bhimasena, those Krodhavasas left the field of battle and confusedly and hurriedly fled towards Kailasha mountain through the sky.
३.१५२.२१
स शक्रवद्दानवदैत्यसंघा
न्विक्रम्य जित्वा च रणेऽरिसंघान् ।
विगाह्य तां पुष्करिणीं जितारिः
कामाय जग्राह ततोऽम्बुजानि ॥
न्विक्रम्य जित्वा च रणेऽरिसंघान् ।
विगाह्य तां पुष्करिणीं जितारिः
कामाय जग्राह ततोऽम्बुजानि ॥
M N Dutt
Having thus vanquished those Rakshasas by his prowess, as Indra did the armies of the Daityas and the Danavas, he again plunged into the lake and began to gather the lotuses with the object of accomplishing his purpose.
३.१५२.२२
ततः स पीत्वामृतकल्पमम्भो
भूयो बभूवोत्तमवीर्यतेजाः ।
उत्पाट्य जग्राह ततोऽम्बुजानि
सौगन्धिकान्युत्तमगन्धवन्ति ॥
भूयो बभूवोत्तमवीर्यतेजाः ।
उत्पाट्य जग्राह ततोऽम्बुजानि
सौगन्धिकान्युत्तमगन्धवन्ति ॥
M N Dutt
When he drank the water (of the lake) which was like ambrosia, his energy and strength were again fully restored; he then plucked and gathered the golden lotuses of excellent fragrance.
३.१५२.२३
ततस्तु ते क्रोधवशाः समेत्य
धनेश्वरं भीमबलप्रणुन्नाः ।
भीमस्य वीर्यं च बलं च संख्ये
यथावदाचख्युरतीव दीनाः ॥
धनेश्वरं भीमबलप्रणुन्नाः ।
भीमस्य वीर्यं च बलं च संख्ये
यथावदाचख्युरतीव दीनाः ॥
M N Dutt
(In the mean while) the Krodhavasas, being driven by the prowess of Bhima and greatly terrified, went to the lord of wealth (Kubera) and informed him of Bhima's prowess and strength.
३.१५२.२४
तेषां वचस्तत्तु निशम्य देवः
प्रहस्य रक्षांशि ततोऽभ्युवाच ।
गृह्णातु भीमो जलजानि कामं
कृष्णानिमित्तं विदितं ममैतत् ॥
प्रहस्य रक्षांशि ततोऽभ्युवाच ।
गृह्णातु भीमो जलजानि कामं
कृष्णानिमित्तं विदितं ममैतत् ॥
M N Dutt
Having heard their words, the deity (Kubera) smiled and then said, 'Let Bhima take for Krishna (Draupadi) as many lotuses as he likes. This is already known to me."
३.१५२.२५
ततोऽभ्यनुज्ञाय धनेश्वरं ते
जग्मुः कुरूणां प्रवरं विरोषाः ।
भीमं च तस्यां ददृशुर्नलिन्यां
यथोपजोषं विहरन्तमेकम् ॥
जग्मुः कुरूणां प्रवरं विरोषाः ।
भीमं च तस्यां ददृशुर्नलिन्यां
यथोपजोषं विहरन्तमेकम् ॥
M N Dutt
Thereupon taking the permission of the lord of wealth (Kubera) and giving up their anger, those (Rakshasas) went (back) to that foremost of the Kurus (Bhima); and they saw Bhima alone sporting in delight in that lotus-lake.
॥ इति ३.१५२ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.