अष्टावक्र उवाच ।
३.१३४.१
अत्रोग्रसेनसमितेषु राज
न्समागतेष्वप्रतिमेषु राजसु ।
न वै विवित्सान्तरमस्ति वादिनां
महाजले हंसनिनादिनामिव ॥
न्समागतेष्वप्रतिमेषु राजसु ।
न वै विवित्सान्तरमस्ति वादिनां
महाजले हंसनिनादिनामिव ॥
M N Dutt
Ashtavakra said : O king, O commander of large army, cannot find Bandi, this chief of controversialists in that assembly of these kings of matchless power who have met together. I search for him as one searches for a swan on a vast expanse of water.
३.१३४.२
न मेऽद्य वक्ष्यस्यतिवादिमानि
न्ग्लहं प्रपन्नः सरितामिवागमः ।
हुताशनस्येव समिद्धतेजसः
स्थिरो भवस्वेह ममाद्य बन्दिन् ॥
न्ग्लहं प्रपन्नः सरितामिवागमः ।
हुताशनस्येव समिद्धतेजसः
स्थिरो भवस्वेह ममाद्य बन्दिन् ॥
M N Dutt
O Bandi, you consider that you are the foremost of all controversialists. When you will engage with me to argue, you will then not be able to flow like the current of a river. I am like a flaming fire. Be silent before me.
बन्द्युवाच ।
३.१३४.३
व्याघ्रं शयानं प्रति मा प्रबोधय; आशीविषं सृक्किणी लेलिहानम् । पदाहतस्येव शिरोऽभिहत्य; नादष्टो वै मोक्ष्यसे तन्निबोध ॥
M N Dutt
Do not awaken a sleeping tiger. Know that you will not escape biting when you will trample on the head of a poisonous snake, which is licking the corner of its mouth with its tongue and which has been hurt by your foot.
३.१३४.४
यो वै दर्पात्संहननोपपन्नः
सुदुर्बलः पर्वतमाविहन्ति ।
तस्यैव पाणिः सनखो विशीर्यते
न चैव शैलस्य हि दृश्यते व्रणः ॥
सुदुर्बलः पर्वतमाविहन्ति ।
तस्यैव पाणिः सनखो विशीर्यते
न चैव शैलस्य हि दृश्यते व्रणः ॥
M N Dutt
That weak man, who in the pride of his strength strikes a blow at a mountain, only hurts his hands and nails. He can not wound the mountains.
३.१३४.५
सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः ।
निकृष्टभूता राजानो वत्सा अनदुहो यथा ॥
निकृष्टभूता राजानो वत्सा अनदुहो यथा ॥
M N Dutt
As all other mountains are inferior to the Mainakas, as calves are inferior to the ox, so are all the others kings of the earth inferior to the king of Mithila.
लोमश उवाच ।
३.१३४.६
अष्टावक्रः समितौ गर्जमानो
जातक्रोधो बन्दिनमाह राजन् ।
उक्ते वाक्ये चोत्तरं मे ब्रवीहि
वाक्यस्य चाप्युत्तरं ते ब्रवीमि ॥
जातक्रोधो बन्दिनमाह राजन् ।
उक्ते वाक्ये चोत्तरं मे ब्रवीहि
वाक्यस्य चाप्युत्तरं ते ब्रवीमि ॥
M N Dutt
Lomasha said: O king, having said this and becoming greatly angry with Bandi, Ashtavakra began to roar in the assembly. He said, “Answer my questions, I shall answer yours.”
बन्द्युवाच ।
३.१३४.७
एक एवाग्निर्बहुधा समिध्यते
एकः सूर्यः सर्वमिदं प्रभासते ।
एको वीरो देवराजो निहन्ता
यमः पितॄणामीश्वरश्चैक एव ॥
एकः सूर्यः सर्वमिदं प्रभासते ।
एको वीरो देवराजो निहन्ता
यमः पितॄणामीश्वरश्चैक एव ॥
M N Dutt
Bandi said: Fire is only one which blazes in various forms, One is the sun that illuminates the universe, One is the hero, Indra, the lord of the celestials who destroys all enemies, One is Yama, the sole lord of the Pitris.
अष्टावक्र उवाच ।
३.१३४.८
द्वाविन्द्राग्नी चरतो वै सखायौ
द्वौ देवर्षी नारदः पर्वतश्च ।
द्वावश्विनौ द्वे च रथस्य चक्रे
भार्यापती द्वौ विहितौ विधात्रा ॥
द्वौ देवर्षी नारदः पर्वतश्च ।
द्वावश्विनौ द्वे च रथस्य चक्रे
भार्यापती द्वौ विहितौ विधात्रा ॥
M N Dutt
Ashtavakra said : The two friends, Agni and Indra, move together; the celestials sages are Two Narada and Parvata, the Ashvins are Two, the wheels of a car are two. It is Two, husband and wife, that live together as ordained by the deity.
बन्द्युवाच ।
३.१३४.९
त्रिः सूयते कर्मणा वै प्रजेयं
त्रयो युक्ता वाजपेयं वहन्ति ।
अध्वर्यवस्त्रिषवणानि तन्वते
त्रयो लोकास्त्रीणि ज्योतींषि चाहुः ॥
त्रयो युक्ता वाजपेयं वहन्ति ।
अध्वर्यवस्त्रिषवणानि तन्वते
त्रयो लोकास्त्रीणि ज्योतींषि चाहुः ॥
M N Dutt
Bandi said: Three kinds of being are born as the results of their acts, Three are the Vedas that perform the Vajapeya sacrifice; at three different times the Adhvaryus commence sacrifice, three also are the divine lights.
अष्टावक्र उवाच ।
३.१३४.१०
चतुष्टयं ब्राह्मणानां निकेतं
चत्वारो युक्ता यज्ञमिमं वहन्ति ।
दिशश्चतस्रश्चतुरश्च वर्णा
श्चतुष्पदा गौरपि शश्वदुक्ता ॥
चत्वारो युक्ता यज्ञमिमं वहन्ति ।
दिशश्चतस्रश्चतुरश्च वर्णा
श्चतुष्पदा गौरपि शश्वदुक्ता ॥
M N Dutt
Ashtavakra said: Four are the Ashrams of the Brahmanas; four orders perform sacrifices; four are the cardinal points; four is the number of letters and four also are the legs of a cow.
बन्द्युवाच ।
३.१३४.११
पञ्चाग्नयः पञ्चपदा च पङ्क्ति
र्यज्ञाः पञ्चैवाप्यथ पञ्चेन्द्रियाणि ।
दृष्टा वेदे पञ्चचूडाश्च पञ्च
लोके ख्यातं पञ्चनदं च पुण्यम् ॥
र्यज्ञाः पञ्चैवाप्यथ पञ्चेन्द्रियाणि ।
दृष्टा वेदे पञ्चचूडाश्च पञ्च
लोके ख्यातं पञ्चनदं च पुण्यम् ॥
M N Dutt
Bandi said: Five is the number of fires; five are the feet of Punkti (a meter); five are the sacrifices; it is said in the Vedas that five locks are on the heads of the Apsaras and five are the sacred rivers in the world.
अष्टावक्र उवाच ।
३.१३४.१२
षडाधाने दक्षिणामाहुरेके
षडेवेमे ऋतवः कालचक्रम् ।
षडिन्द्रियाण्युत षट्कृत्तिकाश्च
षट्साद्यस्काः सर्ववेदेषु दृष्टाः ॥
षडेवेमे ऋतवः कालचक्रम् ।
षडिन्द्रियाण्युत षट्कृत्तिकाश्च
षट्साद्यस्काः सर्ववेदेषु दृष्टाः ॥
M N Dutt
Ashtavakra said: Six cows are paid as Dakshina on establishing the sacred fire; six are the seasons belonging to the wheel of time, six stars constitute the constellation Kirtika and the Vedas say six the number of Sadyaska sacrifice.
बन्द्युवाच ।
३.१३४.१३
सप्त ग्राम्याः पशवः सप्त वन्याः; सप्त छन्दांसि क्रतुमेकं वहन्ति । सप्तर्षयः सप्त चाप्यर्हणानि; सप्ततन्त्री प्रथिता चैव वीणा ॥
M N Dutt
Bandi said : Seven is the number of domestic animals, seven also is the number of wild animals; seven meters are used in completing a sacrifice; seven are the Rishis, seven are the forms of paying homage and seven, are the strings of the Binda.
अष्टावक्र उवाच ।
३.१३४.१४
अष्टौ शाणाः शतमानं वहन्ति
तथाष्टपादः शरभः सिंहघाती
अष्टौ वसूञ्शुश्रुम देवतासु
यूपश्चाष्टास्रिर्विहितः सर्वयज्ञ्-
अः
तथाष्टपादः शरभः सिंहघाती
अष्टौ वसूञ्शुश्रुम देवतासु
यूपश्चाष्टास्रिर्विहितः सर्वयज्ञ्-
अः
M N Dutt
Ashtavakra said: Eight are the bags that hold hundred-fold, eight is the number of the Sarava, which preys upon lions, eight are the Vasus among the celestials and eight are the angles of a Yupa (stake) in a sacrifice.
बन्द्युवाच ।
३.१३४.१५
नवैवोक्ताः सामिधेन्यः पितॄणां
तथा प्राहुर्नवयोगं विसर्गम् ।
नवाक्षरा बृहती संप्रदिष्टा
नवयोगो गणनामेति शश्वत् ॥
तथा प्राहुर्नवयोगं विसर्गम् ।
नवाक्षरा बृहती संप्रदिष्टा
नवयोगो गणनामेति शश्वत् ॥
M N Dutt
Bandi said: Nine is the number of the Mantras used in kindling the fire in a sacrifice to the Pitris: nine are the fixed functions in the progresses of creation, nine letters compose the foot of Vrihati (a meter) and nine also are numbers (in calculation).
अष्टावक्र उवाच ।
३.१३४.१६
दशा दशोक्ताः पुरुषस्य लोके
सहस्रमाहुर्दश पूर्णं शतानि ।
दशैव मासान्बिभ्रति गर्भवत्यो
दशेरका दश दाशा दशार्णाः ॥
सहस्रमाहुर्दश पूर्णं शतानि ।
दशैव मासान्बिभ्रति गर्भवत्यो
दशेरका दश दाशा दशार्णाः ॥
M N Dutt
Ashtavakra said : Ten is the number of the cardinal points; ten times hundred make a thousand; ten is the number of months of a woman's conception, ten are the teachers of true knowledge and ten are the haters of knowledge and ten again who are capable of obtaining it.
बन्द्युवाच ।
३.१३४.१७
एकादशैकादशिनः पशूना
मेकादशैवात्र भवन्ति यूपाः ।
एकादश प्राणभृतां विकारा
एकादशोक्ता दिवि देवेषु रुद्राः ॥
मेकादशैवात्र भवन्ति यूपाः ।
एकादश प्राणभृतां विकारा
एकादशोक्ता दिवि देवेषु रुद्राः ॥
M N Dutt
Eleven are the enjoyable objects, eleven is the number of Yupas (sacrificial stake), eleven are the natural states of all living creatures, eleven are the Rudras among the celestials in heaven.
अष्टावक्र उवाच ।
३.१३४.१८
संवत्सरं द्वादश मासमाहु
र्जगत्याः पादो द्वादशैवाक्षराणि ।
द्वादशाहः प्राकृतो यज्ञ उक्तो
द्वादशादित्यान्कथयन्तीह विप्राः ॥
र्जगत्याः पादो द्वादशैवाक्षराणि ।
द्वादशाहः प्राकृतो यज्ञ उक्तो
द्वादशादित्यान्कथयन्तीह विप्राः ॥
M N Dutt
Twelve are the months in a year; twelve letters compose a foot of Yayati (a meter) twelve are the sacrifices and the learned say twelve is the number of the Adityas.
बन्द्युवाच ।
३.१३४.१९
त्रयोदशी तिथिरुक्ता महोग्रा; त्रयोदशद्वीपवती मही च ॥
M N Dutt
Bandi said : Thirteen lunar days are most auspicious and thirteen islands exist on earth.
लोमश उवाच ।
३.१३४.२०
एतावदुक्त्वा विरराम बन्दी
श्लोकस्यार्धं व्याजहाराष्टवक्रः ।
त्रयोदशाहानि ससार केशी
त्रयोदशादीन्यतिच्छन्दांसि चाहुः ॥
श्लोकस्यार्धं व्याजहाराष्टवक्रः ।
त्रयोदशाहानि ससार केशी
त्रयोदशादीन्यतिच्छन्दांसि चाहुः ॥
M N Dutt
Lomasha said : Having said this Bandi stopped. Thereupon Ashtavakra supplied the other half of the Sloka.
३.१३४.२२
तस्मिंस्तथा संकुले वर्तमाने
स्फीते यज्ञे जनकस्याथ राज्ञः ।
अष्टावक्रं पूजयन्तोऽभ्युपेयु
र्विप्राः सर्वे प्राञ्जलयः प्रतीताः ॥
स्फीते यज्ञे जनकस्याथ राज्ञः ।
अष्टावक्रं पूजयन्तोऽभ्युपेयु
र्विप्राः सर्वे प्राञ्जलयः प्रतीताः ॥
M N Dutt
Lomasha said: Having seen Ashtavakra speaking and Suta's son sitting silent and pensive and with head down-cast, all men raised up great uproar in the assembly. When the tumult thus rose in the king Janaka's great sacrifice, the Brahmanas i became very much pleased and with joined hands they came to Ashtavakra and paid him homage.
अष्टावक्र उवाच ।
३.१३४.२३
अनेन वै ब्राह्मणाः शुश्रुवांसो
वादे जित्वा सलिले मज्जिताः किल ।
तानेव धर्मानयमद्य बन्दी
प्राप्नोतु गृह्याप्सु निमज्जयैनम् ॥
वादे जित्वा सलिले मज्जिताः किल ।
तानेव धर्मानयमद्य बन्दी
प्राप्नोतु गृह्याप्सु निमज्जयैनम् ॥
M N Dutt
Defeating the Brahmanas in controversy Bandi threw them into the waters. Let Bandi meet with the same fate to day. Seize him and drown him in the water.
बन्द्युवाच ।
३.१३४.२४
अहं पुत्रो वरुणस्योत राज्ञ;स्तत्रास सत्रं द्वादशवार्षिकं वै । सत्रेण ते जनक तुल्यकालं; तदर्थं ते प्रहिता मे द्विजाग्र्याः ॥
M N Dutt
O Janaka, I am the son of king Varuna. Simultaneously with your sacrifice, there (underneath the sea) has been commenced (by Varuna) a sacrifice extending over twelve years. Therefore I have sent there those chief Brahmanas.
३.१३४.२५
एते सर्वे वरुणस्योत यज्ञं
द्रष्टुं गता इह आयान्ति भूयः ।
अष्टावक्रं पूजये पूजनीयं
यस्य हेतोर्जनितारं समेष्ये ॥
द्रष्टुं गता इह आयान्ति भूयः ।
अष्टावक्रं पूजये पूजनीयं
यस्य हेतोर्जनितारं समेष्ये ॥
M N Dutt
They had all gone to see Varuna's sacrifice. Behold they are (all) coming. I pay homage to the revered Ashtavakra by whose favour I shall today join him who has begotten me.
अष्टावक्र उवाच ।
३.१३४.२६
विप्राः समुद्राम्भसि मज्जितास्ते
वाचा जिता मेधया आविदानाः ।
तां मेधया वाचमथोज्जहार
यथा वाचमवचिन्वन्ति सन्तः ॥
वाचा जिता मेधया आविदानाः ।
तां मेधया वाचमथोज्जहार
यथा वाचमवचिन्वन्ति सन्तः ॥
M N Dutt
Ashtavakra said: Defeating the Brahmanas either by words or subtlety, he has thrown them into the waters of the sea. By dint of my intellect I have to day have rescued them.
३.१३४.२७
अग्निर्दहञ्जातवेदाः सतां गृहा
न्विसर्जयंस्तेजसा न स्म धाक्षीत् ।
बालेषु पुत्रेषु कृपणं वदत्सु
तथा वाचमवचिन्वन्ति सन्तः ॥
न्विसर्जयंस्तेजसा न स्म धाक्षीत् ।
बालेषु पुत्रेषु कृपणं वदत्सु
तथा वाचमवचिन्वन्ति सन्तः ॥
M N Dutt
As Agni (fire) who knows the character of both the good and the bad, leaves unscorched those that are honest, so do good men judge the assertions of even boys, though they lack in the power of speech.
३.१३४.२८
श्लेष्मातकी क्षीणवर्चाः शृणोषि
उताहो त्वां स्तुतयो मादयन्ति ।
हस्तीव त्वं जनक वितुद्यमानो
न मामिकां वाचमिमां शृणोषि ॥
उताहो त्वां स्तुतयो मादयन्ति ।
हस्तीव त्वं जनक वितुद्यमानो
न मामिकां वाचमिमां शृणोषि ॥
M N Dutt
O Janaka, you are hearing my words as if you have been stupified by eating the fruit of Sleshmataki tree. You have been robbed of your sense by flattery. Therefore though you are pierced by my words as an elephant by the goad, you do not heed them.
जनक उवाच ।
३.१३४.२९
शृणोमि वाचं तव दिव्यरूपा
ममानुषीं दिव्यरूपोऽसि साक्षात् ।
अजैषीर्यद्बन्दिनं त्वं विवादे
निसृष्ट एष तव कामोऽद्य बन्दी ॥
ममानुषीं दिव्यरूपोऽसि साक्षात् ।
अजैषीर्यद्बन्दिनं त्वं विवादे
निसृष्ट एष तव कामोऽद्य बन्दी ॥
M N Dutt
Janaka said: I listen to your words which are excellent and superhuman. Your appearance also appears to me as superhuman. As you "have to day defeated Bandi, I place even him at your disposal.
॥ इति ३.१३४ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.