विभाण्डक उवाच ।
३.११३.१
रक्षांसि चैतानि चरन्ति पुत्र
रूपेण तेनाद्भुतदर्शनेन ।
अतुल्यरूपाण्यतिघोरवन्ति
विघ्नं सदा तपसश्चिन्तयन्ति ॥
रूपेण तेनाद्भुतदर्शनेन ।
अतुल्यरूपाण्यतिघोरवन्ति
विघ्नं सदा तपसश्चिन्तयन्ति ॥
M N Dutt
Vibhandaka said: O son, they are Rakshashas. They walk about here in wonderfully beautiful forms. Their prowess is matchless and their beauty is extraordinary. They always think think upon obstructing asceticism.
३.११३.२
सुरूपरूपाणि च तानि तात
प्रलोभयन्ते विविधैरुपायैः ।
सुखाच्च लोकाच्च निपातयन्ति
तान्युग्रकर्माणि मुनीन्वनेषु ॥
प्रलोभयन्ते विविधैरुपायैः ।
सुखाच्च लोकाच्च निपातयन्ति
तान्युग्रकर्माणि मुनीन्वनेषु ॥
M N Dutt
O child, assuming beautiful forms they allure (men) by various means. These fearful beings hurl the Rishis in the forest from the blissful regions.
३.११३.३
न तानि सेवेत मुनिर्यतात्मा
सतां लोकान्प्रार्थयानः कथंचित् ।
कृत्वा विघ्नं तापसानां रमन्ते
पापाचारास्तपसस्तान्यपाप ॥
सतां लोकान्प्रार्थयानः कथंचित् ।
कृत्वा विघ्नं तापसानां रमन्ते
पापाचारास्तपसस्तान्यपाप ॥
M N Dutt
The self-controlled Rishis who desire to obtain the region of the righteous never serve them. Those sinful beings take pleasure in obstructing the practices of the ascetics and (therefore) the ascetics do not see them.
३.११३.४
असज्जनेनाचरितानि पुत्र
पापान्यपेयानि मधूनि तानि ।
माल्यानि चैतानि न वै मुनीनां
स्मृतानि चित्रोज्ज्वलगन्धवन्ति ॥
पापान्यपेयानि मधूनि तानि ।
माल्यानि चैतानि न वै मुनीनां
स्मृतानि चित्रोज्ज्वलगन्धवन्ति ॥
M N Dutt
O son, those are intoxicating liquors, they are drunk by unrighteous men and they are unworthy to be drunk (by good men). These fragrant, bright and many coloured garlands are not for the ascetics.
लोमश उवाच ।
३.११३.५
रक्षांसि तानीति निवार्य पुत्रं
विभाण्डकस्तां मृगयां बभूव ।
नासादयामास यदा त्र्यहेण
तदा स पर्याववृतेऽऽश्रमाय ॥
विभाण्डकस्तां मृगयां बभूव ।
नासादयामास यदा त्र्यहेण
तदा स पर्याववृतेऽऽश्रमाय ॥
M N Dutt
Lomasha said: Having forbidden his son by saying “They are Rakshashas," Vibhandaka went in search of her. When after three days' search he did not find her, he then returned to his hermitage.
३.११३.६
यदा पुनः काश्यपो वै जगाम
फलान्याहर्तुं विधिना श्रामणेन ।
तदा पुनर्लोभयितुं जगाम
सा वेशयोषा मुनिमृश्यशृङ्गम् ॥
फलान्याहर्तुं विधिना श्रामणेन ।
तदा पुनर्लोभयितुं जगाम
सा वेशयोषा मुनिमृश्यशृङ्गम् ॥
M N Dutt
When again the son of Kashyapa went out to gather fruits, in the meanwhile, that courtesan again came to tempt the Rishi Rishyashringa.
३.११३.७
दृष्ट्वैव तामृश्यशृङ्गः प्रहृष्टः
संभ्रान्तरूपोऽभ्यपतत्तदानीम् ।
प्रोवाच चैनां भवतोऽऽश्रमाय
गच्छाव यावन्न पिता ममैति ॥
संभ्रान्तरूपोऽभ्यपतत्तदानीम् ।
प्रोवाच चैनां भवतोऽऽश्रमाय
गच्छाव यावन्न पिता ममैति ॥
M N Dutt
As soon as Rishyashringa saw her, he became exceedingly glad and rushing towards her said “Let us go to your hermitage before my father returns.”
३.११३.८
ततो राजन्काश्यपस्यैकपुत्रं
प्रवेश्य योगेन विमुच्य नावम् ।
प्रलोभयन्त्यो विविधैरुपायै
राजग्मुरङ्गाधिपतेः समीपम् ॥
प्रवेश्य योगेन विमुच्य नावम् ।
प्रलोभयन्त्यो विविधैरुपायै
राजग्मुरङ्गाधिपतेः समीपम् ॥
M N Dutt
O king, thereupon making the only son of Kashyapa enter the boat by clever means, she unmoored it. She delighted him by various means and brought him before the king of Anga.
३.११३.९
संस्थाप्य तामाश्रमदर्शने तु
संतारितां नावमतीव शुभ्राम् ।
तीरादुपादाय तथैव चक्रे
राजाश्रमं नाम वनं विचित्रम् ॥
संतारितां नावमतीव शुभ्राम् ।
तीरादुपादाय तथैव चक्रे
राजाश्रमं नाम वनं विचित्रम् ॥
M N Dutt
Taking the exceedingly white vessel from the water and placing it within the sight of the hermitage, she then made a beautiful forest, named “Floating Hermitage.”
३.११३.१०
अन्तःपुरे तं तु निवेश्य राजा
विभाण्डकस्यात्मजमेकपुत्रम् ।
ददर्श देवं सहसा प्रवृष्ट
मापूर्यमाणं च जगज्जलेन ॥
विभाण्डकस्यात्मजमेकपुत्रम् ।
ददर्श देवं सहसा प्रवृष्ट
मापूर्यमाणं च जगज्जलेन ॥
M N Dutt
But the king kept the only son of Vibhandaka in the female apartments. Then he saw that rain was suddenly poured by heaven and the world was flooded with water.
३.११३.११
स लोमपादः परिपूर्णकामः
सुतां ददावृश्यशृङ्गाय शान्ताम् ।
क्रोधप्रतीकारकरं च चक्रे
गोभिश्च मार्गेष्वभिकर्षणं च ॥
सुतां ददावृश्यशृङ्गाय शान्ताम् ।
क्रोधप्रतीकारकरं च चक्रे
गोभिश्च मार्गेष्वभिकर्षणं च ॥
M N Dutt
Having his desire fulfilled, Lomapada bestowed his daughter Santa on Rishvshrnga. And to appease the wrath of his father, caused kine to be placed on the roads and the fields to be tilled.
३.११३.१४
अथोपायात्स मुनिश्चण्डकोपः
स्वमाश्रमं मूलफलानि गृह्य ।
अन्वेषमाणश्च न तत्र पुत्रं
ददर्श चुक्रोध ततो भृशं सः ॥
स्वमाश्रमं मूलफलानि गृह्य ।
अन्वेषमाणश्च न तत्र पुत्रं
ददर्श चुक्रोध ततो भृशं सः ॥
M N Dutt
In the meanwhile that greatly wrathful Rishi (Vibhandaka) returned to his hermitage after gathering fruits and roots. He did not find his son after a search and he became exceedingly angry.
३.११३.१५
ततः स कोपेन विदीर्यमाण
आशङ्कमानो नृपतेर्विधानम् ।
जगाम चम्पां प्रदिधक्षमाण
स्तमङ्गराजं विषयं च तस्य ॥
आशङ्कमानो नृपतेर्विधानम् ।
जगाम चम्पां प्रदिधक्षमाण
स्तमङ्गराजं विषयं च तस्य ॥
M N Dutt
Thereupon he became inflamed with anger and thought it to be the doing of the king (of Anga). Having made up his mind to burn the king, his city and his whole country, he therefore went towards (the city of) Champa.
३.११३.१६
स वै श्रान्तः क्षुधितः काश्यपस्ता
न्घोषान्समासादितवान्समृद्धान् ।
गोपैश्च तैर्विधिवत्पूज्यमानो
राजेव तां रात्रिमुवास तत्र ॥
न्घोषान्समासादितवान्समृद्धान् ।
गोपैश्च तैर्विधिवत्पूज्यमानो
राजेव तां रात्रिमुवास तत्र ॥
M N Dutt
Fatigued and hungry the son of Kashyapa arrived at the settlements of cowherds, rich with cattle. He was greatly honoured and adored by the cow-herds and he passed the night there like a king.
३.११३.१७
संप्राप्य सत्कारमतीव तेभ्यः
प्रोवाच कस्य प्रथिताः स्थ सौम्याः ।
ऊचुस्ततस्तेऽभ्युपगम्य सर्वे
धनं तवेदं विहितं सुतस्य ॥
प्रोवाच कस्य प्रथिताः स्थ सौम्याः ।
ऊचुस्ततस्तेऽभ्युपगम्य सर्वे
धनं तवेदं विहितं सुतस्य ॥
M N Dutt
Having received very great hospitality from them, he asked them, “O cow-herds, to whom do you belong?” Thereupon they all came up to him and said, "All this wealth belongs to your son."
३.११३.१८
देशे तु देशे तु स पूज्यमान
स्तांश्चैव शृण्वन्मधुरान्प्रलापान् ।
प्रशान्तभूयिष्ठरजाः प्रहृष्टः
समाससादाङ्गपतिं पुरस्थम् ॥
स्तांश्चैव शृण्वन्मधुरान्प्रलापान् ।
प्रशान्तभूयिष्ठरजाः प्रहृष्टः
समाससादाङ्गपतिं पुरस्थम् ॥
M N Dutt
He was thus honoured at different places and he heard similar pleasing words. Thus is anger was much appeased. He entered the city and came to the king of Anga.
३.११३.१९
संपूजितस्तेन नरर्षभेण
ददर्श पुत्रं दिवि देवं यथेन्द्रम् ।
शान्तां स्नुषां चैव ददर्श तत्र
सौदामिनीमुच्चरन्तीं यथैव ॥
ददर्श पुत्रं दिवि देवं यथेन्द्रम् ।
शान्तां स्नुषां चैव ददर्श तत्र
सौदामिनीमुच्चरन्तीं यथैव ॥
M N Dutt
Having been worshipped by that foremost of men (the king), he saw his son who looked like Indra in heaven. He saw there also his daughter-in-law Santa who looked like a flashing lightning
३.११३.२०
ग्रामांश्च घोषांश्च सुतं च दृष्ट्वा
शान्तां च शान्तोऽस्य परः स कोपः ।
चकार तस्मै परमं प्रसादं
विभाण्डको भूमिपतेर्नरेन्द्र ॥
शान्तां च शान्तोऽस्य परः स कोपः ।
चकार तस्मै परमं प्रसादं
विभाण्डको भूमिपतेर्नरेन्द्र ॥
M N Dutt
Having seen the villages and the cow-pens belonging to his son and also having seen Santa, his great anger was appeased. O ruler of men, thereupon Vibhandaka expressed his great satisfaction with that ruler of earth.
३.११३.२१
स तत्र निक्षिप्य सुतं महर्षि
रुवाच सूर्याग्निसमप्रभावम् ।
जाते पुत्रे वनमेवाव्रजेथा
राज्ञः प्रियाण्यस्य सर्वाणि कृत्वा ॥
रुवाच सूर्याग्निसमप्रभावम् ।
जाते पुत्रे वनमेवाव्रजेथा
राज्ञः प्रियाण्यस्य सर्वाणि कृत्वा ॥
M N Dutt
Keeping his son there, that great Rishi, as effulgent as the sun or the fire, said "Having done all that would please the king and having begotten a son, you must come to the forest."
३.११३.२२
स तद्वचः कृतवानृश्यशृङ्गो
ययौ च यत्रास्य पिता बभूव ।
शान्ता चैनं पर्यचरद्यथाव
त्खे रोहिणी सोममिवानुकूला ॥
ययौ च यत्रास्य पिता बभूव ।
शान्ता चैनं पर्यचरद्यथाव
त्खे रोहिणी सोममिवानुकूला ॥
M N Dutt
Rishyashringa did what his father said and went back to the place where his father was. O ruler of men, Shanta obediently waited upon him as Rohini waits upon Soma.
३.११३.२३
अरुन्धती वा सुभगा वसिष्ठं
लोपामुद्रा वापि यथा ह्यगस्त्यम् ।
नलस्य वा दमयन्ती यथाभू
द्यथा शची वज्रधरस्य चैव ॥
लोपामुद्रा वापि यथा ह्यगस्त्यम् ।
नलस्य वा दमयन्ती यथाभू
द्यथा शची वज्रधरस्य चैव ॥
M N Dutt
O, king as the blessed Arundhati waits upon Vasishtha or as Lopamudra waited upon Agastya. She to Rishyashringa as Damayanti was to Nala or as Sachi was to the wielder of the Vajra (Indra).
३.११३.२४
नाडायनी चेन्द्रसेना यथैव
वश्या नित्यं मुद्गलस्याजमीढ ।
तथा शान्ता ऋश्यशृङ्गं वनस्थं
प्रीत्या युक्ता पर्यचरन्नरेन्द्र ॥
वश्या नित्यं मुद्गलस्याजमीढ ।
तथा शान्ता ऋश्यशृङ्गं वनस्थं
प्रीत्या युक्ता पर्यचरन्नरेन्द्र ॥
M N Dutt
Or as Indrasena, the daughter of Narayana, was to Mudgala. O descendant of Ajamida, O ruler of men, thus did Shanta affectionately wait upon Rishyashringa in the forest.
३.११३.२५
तस्याश्रमः पुण्य एषो विभाति
महाह्रदं शोभयन्पुण्यकीर्तेः ।
अत्र स्नातः कृतकृत्यो विशुद्ध
स्तीर्थान्यन्यान्यनुसंयाहि राजन् ॥
महाह्रदं शोभयन्पुण्यकीर्तेः ।
अत्र स्नातः कृतकृत्यो विशुद्ध
स्तीर्थान्यन्यान्यनुसंयाहि राजन् ॥
M N Dutt
This is the sacred hermitage that belonged to him. The great lake shows in beauty here, it has a holy fame. Bathing here get all your was desires fulfilled. O king, having purified yourself here, go to some other sacred Tirthas.
॥ इति ३.११३ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.