ऋश्यशृङ्ग उवाच ।
३.११२.१
इहागतो जटिलो ब्रह्मचारी
न वै ह्रस्वो नातिदीर्घो मनस्वी ।
सुवर्णवर्णः कमलायताक्षः
सुतः सुराणामिव शोभमानः ॥
न वै ह्रस्वो नातिदीर्घो मनस्वी ।
सुवर्णवर्णः कमलायताक्षः
सुतः सुराणामिव शोभमानः ॥
M N Dutt
Rishyashringa said : Here came a Brahmachari with masses of hair on his head. That intelligent one was neither short nor tall. His complexion was like gold; his expansive eyes were like the lotus. He was as blazing and beautiful as a celestials.
३.११२.२
समृद्धरूपः सवितेव दीप्तः
सुशुक्लकृष्णाक्षतरश्चकोरैः ।
नीलाः प्रसन्नाश्च जटाः सुगन्धा
हिरण्यरज्जुग्रथिताः सुदीर्घाः ॥
सुशुक्लकृष्णाक्षतरश्चकोरैः ।
नीलाः प्रसन्नाश्च जटाः सुगन्धा
हिरण्यरज्जुग्रथिताः सुदीर्घाः ॥
M N Dutt
His exceeding beauty was blazing like the sun, his eyes were very graceful and black. His matted locks were blue, fragrant, long and tied up with strings of gold.
३.११२.३
आधाररूपा पुनरस्य कण्ठे
विभ्राजते विद्युदिवान्तरिक्षे ।
द्वौ चास्य पिण्डावधरेण कण्ठ
मजातरोमौ सुमनोहरौ च ॥
विभ्राजते विद्युदिवान्तरिक्षे ।
द्वौ चास्य पिण्डावधरेण कण्ठ
मजातरोमौ सुमनोहरौ च ॥
M N Dutt
A beautiful ornament was shining round his neck; it looked like the lightning in the sky. Under the throat (on his breast) he had two fleshy hairless and exceedingly beautiful balls.
३.११२.४
विलग्नमध्यश्च स नाभिदेशे
कटिश्च तस्यातिकृतप्रमाणा ।
तथास्य चीरान्तरिता प्रभाति
हिरण्मयी मेखला मे यथेयम् ॥
कटिश्च तस्यातिकृतप्रमाणा ।
तथास्य चीरान्तरिता प्रभाति
हिरण्मयी मेखला मे यथेयम् ॥
M N Dutt
His waist was slender, his navel heat and region about the ribs smooth. There shone a golden string from under his cloth like this waist string of mine.
३.११२.५
अन्यच्च तस्याद्भुतदर्शनीयं
विकूजितं पादयोः संप्रभाति ।
पाण्योश्च तद्वत्स्वनवन्निबद्धौ
कलापकावक्षमाला यथेयम् ॥
विकूजितं पादयोः संप्रभाति ।
पाण्योश्च तद्वत्स्वनवन्निबद्धौ
कलापकावक्षमाला यथेयम् ॥
M N Dutt
There was on his feet something of a wonderful shape which gave forth a jingling sound. There were also ornaments tied upon his wrists that made a similar sound; they looked like this rosary here.
३.११२.६
विचेष्टमानस्य च तस्य तानि
कूजन्ति हंसा सरसीव मत्ताः ।
चीराणि तस्याद्भुतदर्शनानि
नेमानि तद्वन्मम रूपवन्ति ॥
कूजन्ति हंसा सरसीव मत्ताः ।
चीराणि तस्याद्भुतदर्शनानि
नेमानि तद्वन्मम रूपवन्ति ॥
M N Dutt
When he moved about, those ornaments made the sound as that of delightful swans on the waters of a tank. His clothes were of extraordinary make; my clothes are not so beautiful as his.
३.११२.७
वक्त्रं च तस्याद्भुतदर्शनीयं
प्रव्याहृतं ह्लादयतीव चेतः ।
पुंस्कोकिलस्येव च तस्य वाणी
तां शृण्वतो मे व्यथितोऽन्तरात्मा ॥
प्रव्याहृतं ह्लादयतीव चेतः ।
पुंस्कोकिलस्येव च तस्य वाणी
तां शृण्वतो मे व्यथितोऽन्तरात्मा ॥
M N Dutt
His face was of extraordinary beauty, his voice gladdened the heart. His words were like the voice of male Kokilas, hearing which I felt it to my innermost heart.
३.११२.८
यथा वनं माधवमासि मध्ये
समीरितं श्वसनेनाभिवाति ।
तथा स वात्युत्तमपुण्यगन्धी
निषेव्यमाणः पवनेन तात ॥
समीरितं श्वसनेनाभिवाति ।
तथा स वात्युत्तमपुण्यगन्धी
निषेव्यमाणः पवनेन तात ॥
M N Dutt
As the forest in the midst of the vernal season assumed a beauty when fanned by the breeze, O sire, so that excellent and fragrant one assumes a beauty when fanned by the breeze.
३.११२.९
सुसंयताश्चापि जटा विभक्ता
द्वैधीकृता भान्ति समा ललाटे ।
कर्णौ च चित्रैरिव चक्रवालैः
समावृतौ तस्य सुरूपवद्भिः ॥
द्वैधीकृता भान्ति समा ललाटे ।
कर्णौ च चित्रैरिव चक्रवालैः
समावृतौ तस्य सुरूपवद्भिः ॥
M N Dutt
Her massy hair is neatly tied unto they stuck to the head and forehead evenly divided in two. His two eyes seemed to be covered by wonderful and exceedingly beautiful Chakravaka (birds).
३.११२.१०
तथा फलं वृत्तमथो विचित्रं
समाहनत्पाणिना दक्षिणेन ।
तद्भूमिमासाद्य पुनः पुनश्च
समुत्पतत्यद्भुतरूपमुच्चैः ॥
समाहनत्पाणिना दक्षिणेन ।
तद्भूमिमासाद्य पुनः पुनश्च
समुत्पतत्यद्भुतरूपमुच्चैः ॥
M N Dutt
He carried in his right hand a wonderful globular fruit which reached the ground and again and again rose up to the sky in a wonderful way.
३.११२.११
तच्चापि हत्वा परिवर्ततेऽसौ
वातेरितो वृक्ष इवावघूर्णः ।
तं प्रेक्ष्य मे पुत्रमिवामराणां
प्रीतिः परा तात रतिश्च जाता ॥
वातेरितो वृक्ष इवावघूर्णः ।
तं प्रेक्ष्य मे पुत्रमिवामराणां
प्रीतिः परा तात रतिश्च जाता ॥
M N Dutt
He beat it and turned himself round; he whirled like a tree moved by the breeze. O sire, when I looked at him, he seemed to me a son of the immortals. My joy was extreme and I felt great pleasure.
३.११२.१२
स मे समाश्लिष्य पुनः शरीरं
जटासु गृह्याभ्यवनाम्य वक्त्रम् ।
वक्त्रेण वक्त्रं प्रणिधाय शब्दं
चकार तन्मेऽजनयत्प्रहर्षम् ॥
जटासु गृह्याभ्यवनाम्य वक्त्रम् ।
वक्त्रेण वक्त्रं प्रणिधाय शब्दं
चकार तन्मेऽजनयत्प्रहर्षम् ॥
M N Dutt
He clasped my body; he took hold of my matted hair and he bent down my mouth; mingling his mouth with mine, he uttered a sound which gave me great pleasure.
३.११२.१३
न चापि पाद्यं बहु मन्यतेऽसौ
फलानि चेमानि मयाहृतानि ।
एवंव्रतोऽस्मीति च मामवोच
त्फलानि चान्यानि नवान्यदान्मे ॥
फलानि चेमानि मयाहृतानि ।
एवंव्रतोऽस्मीति च मामवोच
त्फलानि चान्यानि नवान्यदान्मे ॥
M N Dutt
He did not care for water to wash his feet or for fruits offered by me to him. He told me such was the religious observance practised by him. He gave me other fruits.
३.११२.१४
मयोपयुक्तानि फलानि तानि
नेमानि तुल्यानि रसेन तेषाम् ।
न चापि तेषां त्वगियं यथैषां
साराणि नैषामिव सन्ति तेषाम् ॥
नेमानि तुल्यानि रसेन तेषाम् ।
न चापि तेषां त्वगियं यथैषां
साराणि नैषामिव सन्ति तेषाम् ॥
M N Dutt
Those fruits were tasted by me. These (fruits here) are not equal to them in taste. Those (given by him) had neither rind nor stone as these (fruits here) have.
३.११२.१५
तोयानि चैवातिरसानि मह्यं
प्रादात्स वै पातुमुदाररूपः ।
पीत्वैव यान्यभ्यधिकः प्रहर्षो
ममाभवद्भूश्चलितेव चासीत् ॥
प्रादात्स वै पातुमुदाररूपः ।
पीत्वैव यान्यभ्यधिकः प्रहर्षो
ममाभवद्भूश्चलितेव चासीत् ॥
M N Dutt
That noble featured one gave me to drink wear of exceedingly fine flavour. Having drunk it, I experienced great pleasure and I felt as if the ground under my feet was moving away.
३.११२.१६
इमानि चित्राणि च गन्धवन्ति
माल्यानि तस्योद्ग्रथितानि पट्टैः ।
यानि प्रकीर्येह गतः स्वमेव
स आश्रमं तपसा द्योतमानः ॥
माल्यानि तस्योद्ग्रथितानि पट्टैः ।
यानि प्रकीर्येह गतः स्वमेव
स आश्रमं तपसा द्योतमानः ॥
M N Dutt
These are the beautiful and fragrant garlands entwined with silken threads. They belonged to him. Blazing in ascetic merits he scattered these garlands here and he then went back to his own hermitage.
३.११२.१७
गतेन तेनास्मि कृतो विचेता
गात्रं च मे संपरितप्यतीव ।
इच्छामि तस्यान्तिकमाशु गन्तुं
तं चेह नित्यं परिवर्तमानम् ॥
गात्रं च मे संपरितप्यतीव ।
इच्छामि तस्यान्तिकमाशु गन्तुं
तं चेह नित्यं परिवर्तमानम् ॥
M N Dutt
At his departure my heart has become sad and my body seems to be burning. I desire to go to him as soon as I can. I desire that he should always walk about here.
३.११२.१८
गच्छामि तस्यान्तिकमेव तात
का नाम सा व्रतचर्या च तस्य ।
इच्छाम्यहं चरितुं तेन सार्धं
यथा तपः स चरत्युग्रकर्मा ॥
का नाम सा व्रतचर्या च तस्य ।
इच्छाम्यहं चरितुं तेन सार्धं
यथा तपः स चरत्युग्रकर्मा ॥
M N Dutt
O sire, I shall this very moment go to him. What is the name of the Brahmacharya that is practised by him? I desire to lead the same life with him, the same religious life led by that man of noble virtue.
॥ इति ३.११२ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.