जनमेजय उवाच ।
१२.४५.१
प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः ।
यदन्यदकरोद्विप्र तन्मे वक्तुमिहार्हसि ॥
यदन्यदकरोद्विप्र तन्मे वक्तुमिहार्हसि ॥
M N Dutt
Janamejaya said You should, O learned Brahmana, tell me what was next done by Yudhishthira the mighty-armed son of Dharma after he had regained his kingdom.
१२.४५.२
भगवान्वा हृषीकेशस्त्रैलोक्यस्य परो गुरुः ।
ऋषे यदकरोद्वीरस्तच्च व्याख्यातुमर्हसि ॥
ऋषे यदकरोद्वीरस्तच्च व्याख्यातुमर्हसि ॥
M N Dutt
You should tell me also, O Rishi, what the heroic Hrishikesha, the supreme lord of the three worlds, did after this.
वैशंपायन उवाच ।
१२.४५.३
शृणु राजेन्द्र तत्त्वेन कीर्त्यमानं मयानघ ।
वासुदेवं पुरस्कृत्य यदकुर्वत पाण्डवाः ॥
वासुदेवं पुरस्कृत्य यदकुर्वत पाण्डवाः ॥
M N Dutt
Hear me, O king, as I narrate fully, O sinless one, what the Pandavas, headed by Vasudeva did after this.
१२.४५.४
प्राप्य राज्यं महातेजा धर्मराजो युधिष्ठिरः ।
चातुर्वर्ण्यं यथायोगं स्वे स्वे धर्मे न्यवेशयत् ॥
चातुर्वर्ण्यं यथायोगं स्वे स्वे धर्मे न्यवेशयत् ॥
M N Dutt
Having regained his kingdom, O monarch, Kunti's son Yudhishthira made each of the four orders of men perform their respective duties.
१२.४५.५
ब्राह्मणानां सहस्रं च स्नातकानां महात्मनाम् ।
सहस्रनिष्कमेकैकं वाचयामास पाण्डवः ॥
सहस्रनिष्कमेकैकं वाचयामास पाण्डवः ॥
M N Dutt
The (eldest) son of Pandu gave a thousand great Brahmanas of the Snataka order a thousand gold coins each.
१२.४५.६
तथानुजीविनो भृत्यान्संश्रितानतिथीनपि ।
कामैः संतर्पयामास कृपणांस्तर्ककानपि ॥
कामैः संतर्पयामास कृपणांस्तर्ककानपि ॥
M N Dutt
He then pleased the servants who were dependent on him and the guests who came to him, including persons who were undeserving, by satisfying their wishes.
१२.४५.७
पुरोहिताय धौम्याय प्रादादयुतशः स गाः ।
धनं सुवर्णं रजतं वासांसि विविधानि च ॥
धनं सुवर्णं रजतं वासांसि विविधानि च ॥
M N Dutt
He gave to his priest Dhaumya kine in thousands, and immense wealth and gold and silver and dresses of various kinds.
१२.४५.८
कृपाय च महाराज गुरुवृत्तिमवर्तत ।
विदुराय च धर्मात्मा पूजां चक्रे यतव्रतः ॥
विदुराय च धर्मात्मा पूजां चक्रे यतव्रतः ॥
M N Dutt
O monarch, the king treated Kripa like a preceptor. Ever observing vows the king continued to honour Vidura highly.
१२.४५.९
भक्षान्नपानैर्विविधैर्वासोभिः शयनासनैः ।
सर्वान्संतोषयामास संश्रितान्ददतां वरः ॥
सर्वान्संतोषयामास संश्रितान्ददतां वरः ॥
M N Dutt
That foremost of charitable men satisfied all persons with presents of food and drink and dresses of various kinds and beds and seats.
१२.४५.१०
लब्धप्रशमनं कृत्वा स राजा राजसत्तम ।
युयुत्सोर्धार्तराष्ट्रस्य पूजां चक्रे महायशाः ॥
युयुत्सोर्धार्तराष्ट्रस्य पूजां चक्रे महायशाः ॥
M N Dutt
Having restored peace to his kingdom the highly illustrious king, O best of monarchs, paid due honours to Yuyutsu and Dhritarashtra.
१२.४५.११
धृतराष्ट्राय तद्राज्यं गान्धार्यै विदुराय च ।
निवेद्य स्वस्थवद्राजन्नास्ते राजा युधिष्ठिरः ॥
निवेद्य स्वस्थवद्राजन्नास्ते राजा युधिष्ठिरः ॥
M N Dutt
Placing his kingdom at the disposal of Dhritarashtra, of Gandhari, and of Vidura, king Yudhishthira spent his days happily.
१२.४५.१२
तथा सर्वं स नगरं प्रसाद्य जनमेजय ।
वासुदेवं महात्मानमभ्यगच्छत्कृताञ्जलिः ॥
वासुदेवं महात्मानमभ्यगच्छत्कृताञ्जलिः ॥
M N Dutt
Having pleased everybody, including the citizens, in this way, Yudhishthira, O foremost of Bharata's race, approached with joined hands the presence of the great Vasudeva.
१२.४५.१३
ततो महति पर्यङ्के मणिकाञ्चनभूषिते ।
ददर्श कृष्णमासीनं नीलं मेराविवाम्बुदम् ॥
ददर्श कृष्णमासीनं नीलं मेराविवाम्बुदम् ॥
M N Dutt
He saw Krishna, of the hue of a blue cloud, seated on a large sofa bedecked with gold and gems.
१२.४५.१४
जाज्वल्यमानं वपुषा दिव्याभरणभूषितम् ।
पीतकौशेयसंवीतं हेम्नीवोपहितं मणिम् ॥
पीतकौशेयसंवीतं हेम्नीवोपहितं मणिम् ॥
M N Dutt
Clad in yellow silk robes and adorned with celestial ornaments, his person shone effulgent like a jewel set on gold.
१२.४५.१५
कौस्तुभेन उरःस्थेन मणिनाभिविराजितम् ।
उद्यतेवोदयं शैलं सूर्येणाप्तकिरीटिनम् ।
नौपम्यं विद्यते यस्य त्रिषु लोकेषु किंचन ॥
उद्यतेवोदयं शैलं सूर्येणाप्तकिरीटिनम् ।
नौपम्यं विद्यते यस्य त्रिषु लोकेषु किंचन ॥
M N Dutt
His bosom adorned with the Kaustubha gem, he shone like the mountain with the rising Sun.
१२.४५.१८
तव ह्याश्रित्य तां देवीं बुद्धिं बुद्धिमतां वर ।
वयं राज्यमनुप्राप्ताः पृथिवी च वशे स्थिता ॥
वयं राज्यमनुप्राप्ताः पृथिवी च वशे स्थिता ॥
१२.४५.१९
भवत्प्रसादाद्भगवंस्त्रिलोकगतिविक्रम ।
जयः प्राप्तो यशश्चाग्र्यं न च धर्माच्च्युता वयम् ॥
जयः प्राप्तो यशश्चाग्र्यं न च धर्माच्च्युता वयम् ॥
M N Dutt
We have regained our kingdom and the whole Earth has come under our sway, O divine lord, through your favour, O refuge of the three worlds and, O you of three steps. Through your favour we have gained victory and obtained great fame and have not transgressed the duties of our order.'
१२.४५.२०
तं तथा भाषमाणं तु धर्मराजं युधिष्ठिरम् ।
नोवाच भगवान्किंचिद्ध्यानमेवान्वपद्यत ॥
नोवाच भगवान्किंचिद्ध्यानमेवान्वपद्यत ॥
M N Dutt
The divine Krishna did not speak a single word to that chastiser of enemies, king Yudhishthira, for he was then rapt in meditation.
॥ इति १२.४५ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.