वैशंपायन उवाच ।
१.६०.१
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः ।
एकादश सुताः स्थाणोः ख्याताः परममानसाः ॥
एकादश सुताः स्थाणोः ख्याताः परममानसाः ॥
M N Dutt
Vaishampayana said : It is known that the mind-born sons of Brahma were six great Rishis. There was another (mind-borm son of Brahma,) named Sthanu. He had eleven sons gifted with great energy,
१.६०.२
मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः ।
अजैकपादहिर्बुध्न्यः पिनाकी च परंतपः ॥
अजैकपादहिर्बुध्न्यः पिनाकी च परंतपः ॥
M N Dutt
Namely, Mrigavyadha, Sarpa, famous Niriti, Ajaikapada, Ahirbudhnya, the chastiser of his foes Pinaki.
१.६०.३
दहनोऽथेश्वरश्चैव कपाली च महाद्युतिः ।
स्थाणुर्भवश्च भगवान्रुद्रा एकादश स्मृताः ॥
स्थाणुर्भवश्च भगवान्रुद्रा एकादश स्मृताः ॥
M N Dutt
Dahana, Ishvara and greatly effulgent Kapali, Sthanu and the illustrious Bhaga. These eleven are called eleven Rudras.
१.६०.४
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ।
षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः ॥
षडेते ब्रह्मणः पुत्रा वीर्यवन्तो महर्षयः ॥
M N Dutt
(It has been already said that) Marichi, Angiras, Atari, Pulastya, Pulaha and Kratu, these powerful Rishis were six mind-born sons of Brahma.
१.६०.५
त्रयस्त्वङ्गिरसः पुत्रा लोके सर्वत्र विश्रुताः ।
बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः ॥
बृहस्पतिरुतथ्यश्च संवर्तश्च धृतव्रताः ॥
M N Dutt
It is well-known in the world that the sons of Angiras were three, namely Brihaspati, Utathya and Samvarta, all of great asceticism.
१.६०.६
अत्रेस्तु बहवः पुत्राः श्रूयन्ते मनुजाधिप ।
सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः ॥
सर्वे वेदविदः सिद्धाः शान्तात्मानो महर्षयः ॥
M N Dutt
O king, it is said that the sons of Atri were countless, they were all great Rishis and they were all learned in the Vedas, they were crowned with ascetic successes and their souls were in perfect peace.
१.६०.७
राक्षसास्तु पुलस्त्यस्य वानराः किंनरास्तथा ।
पुलहस्य मृगाः सिंहा व्याघ्राः किंपुरुषास्तथा ॥
पुलहस्य मृगाः सिंहा व्याघ्राः किंपुरुषास्तथा ॥
M N Dutt
O best of kings, the offspring of greatly wise Pulastya were the Rakshas, Monkeys, Kinnaras and Yakshas.
१.६०.८
क्रतोः क्रतुसमाः पुत्राः पतंगसहचारिणः ।
विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः ॥
विश्रुतास्त्रिषु लोकेषु सत्यव्रतपरायणाः ॥
M N Dutt
The sons of Kratu (Valakhilyas), who were as sacred as sacrifice, were the companions of Surya. They were known to the three worlds and they were all devoted to truth and vows,
१.६०.९
दक्षस्त्वजायताङ्गुष्ठाद्दक्षिणाद्भगवानृषिः ।
ब्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः ॥
ब्रह्मणः पृथिवीपाल पुत्रः पुत्रवतां वरः ॥
M N Dutt
O protector of the world, the illustrious Rishi Daksha, having his soul in complete peace and possessing great asceticism, sprang from the right thumb of Brahma.
१.६०.१०
वामादजायताङ्गुष्ठाद्भार्या तस्य महात्मनः ।
तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः ॥
तस्यां पञ्चाशतं कन्याः स एवाजनयन्मुनिः ॥
M N Dutt
The wife of the illustrious Daksha sprang from the left toe of Brahma. He then begot fifty daughters on her.
१.६०.११
ताः सर्वास्त्वनवद्याङ्ग्यः कन्याः कमललोचनाः ।
पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः ॥
पुत्रिकाः स्थापयामास नष्टपुत्रः प्रजापतिः ॥
M N Dutt
They were all lotus-eyed and of faultless features and limbs. As he (Daksha) had no sons of his own, he made these daughters his Putrikas.
१.६०.१२
ददौ स दश धर्माय सप्तविंशतिमिन्दवे ।
दिव्येन विधिना राजन्कश्यपाय त्रयोदश ॥
दिव्येन विधिना राजन्कश्यपाय त्रयोदश ॥
M N Dutt
He (Daksha) bestowed in due form, ten of his daughters on Dharma twenty-seven on Chandra and thirteen on Kashyapa.
१.६०.१३
नामतो धर्मपत्न्यस्ताः कीर्त्यमाना निबोध मे ।
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा ॥
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया तथा ॥
M N Dutt
Hear, O king, the names of the wives of Dharma as I mention them. (They were) Kirti, Lakshmi, Dhriti, Medha, Pushti, Shraddha, Kriya.
१.६०.१४
बुद्धिर्लज्जा मतिश्चैव पत्न्यो धर्मस्य ता दश ।
द्वाराण्येतानि धर्मस्य विहितानि स्वयंभुवा ॥
द्वाराण्येतानि धर्मस्य विहितानि स्वयंभुवा ॥
M N Dutt
Buddhi, Lajja and Mati. These were the ten wives of Dharma, as appointed by the selfcreated (Brahma).
१.६०.१५
सप्तविंशति सोमस्य पत्न्यो लोके परिश्रुताः ।
कालस्य नयने युक्ताः सोमपत्न्यः शुभव्रताः ।
सर्वा नक्षत्रयोगिन्यो लोकयात्राविधौ स्थिताः ॥
कालस्य नयने युक्ताः सोमपत्न्यः शुभव्रताः ।
सर्वा नक्षत्रयोगिन्यो लोकयात्राविधौ स्थिताः ॥
M N Dutt
It is known throughout the world that the wives of Chandra were twenty-seven. They were all of rigid and holy vows, they were employed to indicate time.
१.६०.१६
पितामहो मुनिर्देवस्तस्य पुत्रः प्रजापतिः ।
तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम् ॥
तस्याष्टौ वसवः पुत्रास्तेषां वक्ष्यामि विस्तरम् ॥
M N Dutt
The sons of Prajapati were eight and they were called the Vasus. I shall name them in detail. (They were) Dhara, Dhruva, Soma, Aha, Anila, Anala,
१.६०.१९
रतायाश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः ।
प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ ॥
प्रत्यूषश्च प्रभासश्च प्रभातायाः सुतौ स्मृतौ ॥
M N Dutt
Pratyusha and Prabhasa were the sons of Prabhata. Dhara had two sons, namely, Dravina and Hutahavyavaha. was
१.६०.२२
अह्नः सुतः स्मृतो ज्योतिः श्रमः शान्तस्तथा मुनिः ।
अग्नेः पुत्रः कुमारस्तु श्रीमाञ्शरवणालयः ॥
अग्नेः पुत्रः कुमारस्तु श्रीमाञ्शरवणालयः ॥
१.६०.२३
तस्य शाखो विशाखश्च नैगमेशश्च पृष्ठजः ।
कृत्तिकाभ्युपपत्तेश्च कार्त्तिकेय इति स्मृतः ॥
कृत्तिकाभ्युपपत्तेश्च कार्त्तिकेय इति स्मृतः ॥
M N Dutt
Agni's son was the handsome Kumara who was born in the forest and as he was reared up by Kirtika and others, he was called Kartikeya. After him were (born his three brothers, namely) Shakha, Vishakha and Naigameya, Anila's wife was Shiva and her sons were Manojava.
१.६०.२६
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी ।
योगसिद्धा जगत्सर्वमसक्तं विचरत्युत ।
प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह ॥
योगसिद्धा जगत्सर्वमसक्तं विचरत्युत ।
प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह ॥
M N Dutt
And an austere ascetic, roamed over the world, having no attraction for the world, She (the sister of Brihaspati) became the wife of the ! eighth Vasu, Prabhasa.
१.६०.२७
विश्वकर्मा महाभागो जज्ञे शिल्पप्रजापतिः ।
कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः ॥
कर्ता शिल्पसहस्राणां त्रिदशानां च वर्धकिः ॥
M N Dutt
She gave birth to the illustrious Vishvakarma, the founder of all arts, the creator of thousand arts, the artist of the celestials, the maker of all kinds of ornaments, the best of all artists and the maker of the celestials cars of the gods.
१.६०.२८
भूषणानां च सर्वेषां कर्ता शिल्पवतां वरः ।
यो दिव्यानि विमानानि देवतानां चकार ह ॥
यो दिव्यानि विमानानि देवतानां चकार ह ॥
M N Dutt
She gave birth to the illustrious Vishvakarma, the founder of all arts, the creator of thousand arts, the artist of the celestials, the maker of all kinds of ornaments, the best of all artists and the maker of the celestials cars of the gods.
१.६०.२९
मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः ।
पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम् ॥
पूजयन्ति च यं नित्यं विश्वकर्माणमव्ययम् ॥
M N Dutt
Mankind was enabled to live in consequence of the arts of this illustrious man and for this reason he was worshipped by all men. This Vishvakarma is everlasting and immutable,
१.६०.३०
स्तनं तु दक्षिणं भित्त्वा ब्रह्मणो नरविग्रहः ।
निःसृतो भगवान्धर्मः सर्वलोकसुखावहः ॥
निःसृतो भगवान्धर्मः सर्वलोकसुखावहः ॥
M N Dutt
The illustrious Dharma, the dispenser of all happiness, came out of the right breast of Brahma, assuming the form of a man.
१.६०.३१
त्रयस्तस्य वराः पुत्राः सर्वभूतमनोहराः ।
शमः कामश्च हर्षश्च तेजसा लोकधारिणः ॥
शमः कामश्च हर्षश्च तेजसा लोकधारिणः ॥
M N Dutt
He (Dharma) had three excellent sons, charming to all creatures. (They were) Shama, Kama and Harsha, who supported the worlds by their energy.
१.६०.३२
कामस्य तु रतिर्भार्या शमस्य प्राप्तिरङ्गना ।
नन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः ॥
नन्दी तु भार्या हर्षस्य यत्र लोकाः प्रतिष्ठिताः ॥
M N Dutt
The wife of Kama was Rati, that of Shama was Prapti and that of Harsha was Nanda; upon these the worlds were made to depend.
१.६०.३३
मरीचेः कश्यपः पुत्रः कश्यपस्य सुरासुराः ।
जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः ॥
जज्ञिरे नृपशार्दूल लोकानां प्रभवस्तु सः ॥
M N Dutt
Kashyapa was the son of Marichi and Kashyapa's offspring were the Suras (celestial) and Asuras. O best of kings, therefore, he is the progenitor of all the worlds.
१.६०.३४
त्वाष्ट्री तु सवितुर्भार्या वडवारूपधारिणी ।
असूयत महाभागा सान्तरिक्षेऽश्विनावुभौ ॥
असूयत महाभागा सान्तरिक्षेऽश्विनावुभौ ॥
M N Dutt
Tvashtri, who had the form of a mare, became the wife of Savita. She gave birth in the sky to a twin Ashvinis.
१.६०.३५
द्वादशैवादितेः पुत्राः शक्रमुख्या नराधिप ।
तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः ॥
तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिताः ॥
M N Dutt
O king, the sons of Aditi were twelve with Indra at their head. The youngest of them was Vishnu, upon whom the worlds depend.
१.६०.३६
त्रयस्त्रिंशत इत्येते देवास्तेषामहं तव ।
अन्वयं संप्रवक्ष्यामि पक्षैश्च कुलतो गणान् ॥
अन्वयं संप्रवक्ष्यामि पक्षैश्च कुलतो गणान् ॥
M N Dutt
These were the thirty-three celestials. I shall now mention to you their progeny according their Pakshas, Kulas and Ganas.
१.६०.३७
रुद्राणामपरः पक्षः साध्यानां मरुतां तथा ।
वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च ॥
वसूनां भार्गवं विद्याद्विश्वेदेवांस्तथैव च ॥
M N Dutt
The Rudras, the Sadhyas, the Marutas, the Vasus, the Bhargavas and the Visvedevas were each a Paksha.
१.६०.३८
वैनतेयस्तु गरुडो बलवानरुणस्तथा ।
बृहस्पतिश्च भगवानादित्येष्वेव गण्यते ॥
बृहस्पतिश्च भगवानादित्येष्वेव गण्यते ॥
M N Dutt
Vinata's son, Garuda and the Aruna also and illustrious Brihaspati were counted amongst the Adityas.
१.६०.३९
अश्विभ्यां गुह्यकान्विद्धि सर्वौषध्यस्तथा पशून् ।
एष देवगणो राजन्कीर्तितस्तेऽनुपूर्वशः ।
यं कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते ॥
एष देवगणो राजन्कीर्तितस्तेऽनुपूर्वशः ।
यं कीर्तयित्वा मनुजः सर्वपापैः प्रमुच्यते ॥
M N Dutt
The Ashvinis, all annual plants and all beasts were counted among the Guhyakas. O king, these are the Ganas of the celestials, narrated to you.
१.६०.४३
तस्मिन्नियुक्ते विभुना योगक्षेमाय भार्गवे ।
अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम् ॥
अन्यमुत्पादयामास पुत्रं भृगुरनिन्दितम् ॥
M N Dutt
Thus appointed by Brahma to look after the welfare (of Daityas), Bhrigu's son (Shukra) begot another son.
१.६०.४४
च्यवनं दीप्ततपसं धर्मात्मानं मनीषिणम् ।
यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत ॥
यः स रोषाच्च्युतो गर्भान्मातुर्मोक्षाय भारत ॥
M N Dutt
Named Chyavana, who was greatly famous, very virtuous minded and as effulgent as the sun. O descendant of the Bharata race, he came out of his mother's womb in anger and thus released his mother.
१.६०.४५
आरुषी तु मनोः कन्या तस्य पत्नी मनीषिणः ।
और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः ।
महातपा महातेजा बाल एव गुणैर्युतः ॥
और्वस्तस्यां समभवदूरुं भित्त्वा महायशाः ।
महातपा महातेजा बाल एव गुणैर्युतः ॥
M N Dutt
Arushi, the daughter of Manu, became the wife of the wise Chyavana and the greatly illustrious Aurva was born in her, ripping open her thighs.
१.६०.४९
द्वौ पुत्रौ ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम् ।
लोके धाता विधाता च यौ स्थितौ मनुना सह ॥
लोके धाता विधाता च यौ स्थितौ मनुना सह ॥
M N Dutt
These hundred sons begot offspring by thousands and filled the whole world. Brahma had two other sons, who had victory as their signification.
॥ इति १.६० ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.