जनमेजय उवाच ।
१.६१.२
श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम् ।
जन्म कर्म च भूतानामेतेषामनुपूर्वशः ॥
जन्म कर्म च भूतानामेतेषामनुपूर्वशः ॥
M N Dutt
Janamejaya said : Worshipful Sir, I desire to hear from you in detail the accounts of the births and deeds and achievements among men, of the Devas, the Danavas, the Rakshasas, the Gandharvas, the lions, the tigers, the snakes, the birds and other animals and in short of all creatures, that became incarnate in human forms.
वैशंपायन उवाच ।
१.६१.३
मानुषेषु मनुष्येन्द्र संभूता ये दिवौकसः ।
प्रथमं दानवांश्चैव तांस्ते वक्ष्यामि सर्वशः ॥
प्रथमं दानवांश्चैव तांस्ते वक्ष्यामि सर्वशः ॥
M N Dutt
Vaishampayana said : O king of men, I shall first tell you all about those Devas and the Danavas who were born amongst men.
१.६१.४
विप्रचित्तिरिति ख्यातो य आसीद्दानवर्षभः ।
जरासंध इति ख्यातः स आसीन्मनुजर्षभः ॥
जरासंध इति ख्यातः स आसीन्मनुजर्षभः ॥
M N Dutt
The best of the Danavas, who was known by the name of Viprachitti, became that best of men who is known as Jarasandha.
१.६१.५
दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुः स्मृतः ।
स जज्ञे मानुषे लोके शिशुपालो नरर्षभः ॥
स जज्ञे मानुषे लोके शिशुपालो नरर्षभः ॥
M N Dutt
O king, that son of Diti, who was known by the name of Hiranyakashipu, became (that king) who was known in this world by the name of powerful Shishupala.
१.६१.६
संह्राद इति विख्यातः प्रह्रादस्यानुजस्तु यः ।
स शल्य इति विख्यातो जज्ञे बाह्लीकपुंगवः ॥
स शल्य इति विख्यातो जज्ञे बाह्लीकपुंगवः ॥
M N Dutt
The younger brother of Prahlada who was known as Sanhlada, became among men that best of Balhikas, known as famous Shalya.
१.६१.७
अनुह्रादस्तु तेजस्वी योऽभूत्ख्यातो जघन्यजः ।
धृष्टकेतुरिति ख्यातः स आसीन्मनुजेश्वरः ॥
धृष्टकेतुरिति ख्यातः स आसीन्मनुजेश्वरः ॥
M N Dutt
The youngest (brother of Prahlada) known as Anuhrada, became famous in this world as Dhristaketu.
१.६१.८
यस्तु राजञ्शिबिर्नाम दैतेयः परिकीर्तितः ।
द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः ॥
द्रुम इत्यभिविख्यातः स आसीद्भुवि पार्थिवः ॥
M N Dutt
O king, that son of Diti who was known as Shibi, became the famous monarch Druma on earth.
१.६१.९
बाष्कलो नाम यस्तेषामासीदसुरसत्तमः ।
भगदत्त इति ख्यातः स आसीन्मनुजेश्वरः ॥
भगदत्त इति ख्यातः स आसीन्मनुजेश्वरः ॥
M N Dutt
O best of men, that best of Asuras, who was known as Bashkala, became the great Bhagadatta on earth.
१.६१.१०
अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान् ।
तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः ॥
तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः ॥
M N Dutt
The five powerful and swift Asuras, namely Ayahshira, Ashvashira, Ayahshanku, Gaganmurdha and Vegavan,
१.६१.११
पञ्चैते जज्ञिरे राजन्वीर्यवन्तो महासुराः ।
केकयेषु महात्मानः पार्थिवर्षभसत्तमाः ॥
केकयेषु महात्मानः पार्थिवर्षभसत्तमाः ॥
M N Dutt
O king, these powerful great Asuras were all born in the illustrious dynasty of Kekaya and became great kings.
१.६१.१२
केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान् ।
अमितौजा इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥
अमितौजा इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥
M N Dutt
The mighty Asura, who was known as Ketuman, became the king Amitauja of terrible deeds.
१.६१.१३
स्वर्भानुरिति विख्यातः श्रीमान्यस्तु महासुरः ।
उग्रसेन इति ख्यात उग्रकर्मा नराधिपः ॥
उग्रसेन इति ख्यात उग्रकर्मा नराधिपः ॥
M N Dutt
The great and fortunate Asura, who was known as Svarbhanu, became the king Ugrasena of fearful deeds.
१.६१.१४
यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः ।
अशोको नाम राजासीन्महावीर्यपराक्रमः ॥
अशोको नाम राजासीन्महावीर्यपराक्रमः ॥
M N Dutt
The great and fortunate Asura who was known as Ashva, became the invincible king Ashoka of great prowess.
१.६१.१५
तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः ।
दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः ॥
दैतेयः सोऽभवद्राजा हार्दिक्यो मनुजर्षभः ॥
M N Dutt
O king, that son of Diti, the younger brother of Ashva, who was known as Ashvapati, became the mighty king Hardikya.
१.६१.१६
वृषपर्वेति विख्यातः श्रीमान्यस्तु महासुरः ।
दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥
दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥
M N Dutt
The great and fortunate Asura who was known as Vishaparva, became king Dhirghaprajna on earth.
१.६१.१७
अजकस्त्वनुजो राजन्य आसीद्वृषपर्वणः ।
स मल्ल इति विख्यातः पृथिव्यामभवन्नृपः ॥
स मल्ल इति विख्यातः पृथिव्यामभवन्नृपः ॥
M N Dutt
O king, the younger brother of Vrishaparva, who was known as Ajaka, became Shalva on earth.
१.६१.१८
अश्वग्रीव इति ख्यातः सत्त्ववान्यो महासुरः ।
रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥
रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥
M N Dutt
The great Asura who was known as Ashvagriva, became king Rochamana on earth.
१.६१.१९
सूक्ष्मस्तु मतिमान्राजन्कीर्तिमान्यः प्रकीर्तितः ।
बृहन्त इति विख्यातः क्षितावासीत्स पार्थिवः ॥
बृहन्त इति विख्यातः क्षितावासीत्स पार्थिवः ॥
M N Dutt
O king, the intelligent and illustrious Asura who was known as Sukshma, became the illustrious king Brihadratha on earth.
१.६१.२०
तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः ।
सेनाबिन्दुरिति ख्यातः स बभूव नराधिपः ॥
सेनाबिन्दुरिति ख्यातः स बभूव नराधिपः ॥
M N Dutt
That best of Asuras, who was known as Tuhunda, became the king Senabindu on earth.
१.६१.२१
इसृपा नाम यस्तेषामसुराणां बलाधिकः ।
पापजिन्नाम राजासीद्भुवि विख्यातविक्रमः ॥
पापजिन्नाम राजासीद्भुवि विख्यातविक्रमः ॥
M N Dutt
That great strong Asura, who was known as Ishupada, became king Nagnajita of worldknown prowess.
१.६१.२२
एकचक्र इति ख्यात आसीद्यस्तु महासुरः ।
प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ ॥
प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ ॥
M N Dutt
The great Asura who was known as Ekachakra, became known on earth as Prativindhya.
१.६१.२३
विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः ।
चित्रवर्मेति विख्यातः क्षितावासीत्स पार्थिवः ॥
चित्रवर्मेति विख्यातः क्षितावासीत्स पार्थिवः ॥
M N Dutt
The great Asura, capable of displaying various modes of fight and known as Virupaksha, became known as king Chitradharman on earth.
१.६१.२४
हरस्त्वरिहरो वीर आसीद्यो दानवोत्तमः ।
सुवास्तुरिति विख्यातः स जज्ञे मनुजर्षभः ॥
सुवास्तुरिति विख्यातः स जज्ञे मनुजर्षभः ॥
M N Dutt
That best of Danavas, known as the heroic Hara, became the famous and fortunate king Subahu on earth.
१.६१.२५
अहरस्तु महातेजाः शत्रुपक्षक्षयंकरः ।
बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ ॥
बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ ॥
M N Dutt
That Asura of great prowess, the chastiser of his foes, known as Ahara, became king Bahlika on earth.
१.६१.२६
निचन्द्रश्चन्द्रवक्त्रश्च य आसीदसुरोत्तमः ।
मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः ॥
मुञ्जकेश इति ख्यातः श्रीमानासीत्स पार्थिवः ॥
M N Dutt
That best of Asuras, who was known as Nichandra and whose face was as beautiful as the moon, became the fortunate king Munjakesha on earth.
१.६१.२७
निकुम्भस्त्वजितः संख्ये महामतिरजायत ।
भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः ॥
भूमौ भूमिपतिः श्रेष्ठो देवाधिप इति स्मृतः ॥
M N Dutt
That great intelligent and invincible Asura, who was known as Nikumbha, became the best of kings Devadhipa on earth.
१.६१.२८
शरभो नाम यस्तेषां दैतेयानां महासुरः ।
पौरवो नाम राजर्षिः स बभूव नरेष्विह ॥
पौरवो नाम राजर्षिः स बभूव नरेष्विह ॥
M N Dutt
That Asura who was known as Sarabha amongst the sons of Diti, became the royal sage Pourava on earth.
१.६१.२९
द्वितीयः शलभस्तेषामसुराणां बभूव यः ।
प्रह्रादो नाम बाह्लीकः स बभूव नराधिपः ॥
प्रह्रादो नाम बाह्लीकः स बभूव नराधिपः ॥
M N Dutt
That Asura, who was known as Shalabha the second, became king Prahlada in the land of the Bahlikas on earth. was as
१.६१.३०
चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः ।
ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः ॥
ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः ॥
M N Dutt
That best of the Diti's sons, who was known as Chandra and who was as handsome as the lord of the stars (moon), became Chandravarman, the king of Kambojas on earth.
१.६१.३१
मृतपा इति विख्यातो य आसीदसुरोत्तमः ।
पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम ॥
पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम ॥
M N Dutt
O best of kings, that best of Asuras, who known Mritapa, became king Paschimanupaka on earth.
१.६१.३२
गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः ।
द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥
द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥
M N Dutt
That greatly powerful Asura, known as Gavishtha, became king Drumasena on earth.
१.६१.३३
मयूर इति विख्यातः श्रीमान्यस्तु महासुरः ।
स विश्व इति विख्यातो बभूव पृथिवीपतिः ॥
स विश्व इति विख्यातो बभूव पृथिवीपतिः ॥
M N Dutt
That great and fortunate Asura, who was known as Mayura, became king Vishva on earth.
१.६१.३४
सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः ।
कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥
कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः ॥
M N Dutt
That Asura who was the younger brother of Mayura and who was known as Suparna, became king Kalakirti on earth.
१.६१.३५
चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः ।
शुनको नाम राजर्षिः स बभूव नराधिपः ॥
शुनको नाम राजर्षिः स बभूव नराधिपः ॥
M N Dutt
The greatly powerful, Asura, who was known as Chandrahanta, became king Sunaka on earth.
१.६१.३६
विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः ।
जानकिर्नाम राजर्षिः स बभूव नराधिपः ॥
जानकिर्नाम राजर्षिः स बभूव नराधिपः ॥
M N Dutt
The great Asura, who was known as Chandravinashana, became king Janaki on earth.
१.६१.३७
दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः ।
काशिराज इति ख्यातः पृथिव्यां पृथिवीपतिः ॥
काशिराज इति ख्यातः पृथिव्यां पृथिवीपतिः ॥
M N Dutt
O king of the Kuru race, that best of the Danayas who was known as Dirgajihva, became king Kashiraja on earth.
१.६१.३८
ग्रहं तु सुषुवे यं तं सिंही चन्द्रार्कमर्दनम् ।
क्राथ इत्यभिविख्यातः सोऽभवन्मनुजाधिपः ॥
क्राथ इत्यभिविख्यातः सोऽभवन्मनुजाधिपः ॥
M N Dutt
That Asura (Rahu) who was born of Singhika and who persecuted the sun and the moon, became king Kratha on earth.
१.६१.३९
अनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः ।
विक्षरो नाम तेजस्वी वसुमित्रोऽभवन्नृपः ॥
विक्षरो नाम तेजस्वी वसुमित्रोऽभवन्नृपः ॥
M N Dutt
The eldest of the four sons of Danayu, who was known as Vikshara, became the powerful king Vasumitra of earth.
१.६१.४०
द्वितीयो विक्षराद्यस्तु नराधिप महासुरः ।
पांसुराष्ट्राधिप इति विश्रुतः सोऽभवन्नृपः ॥
पांसुराष्ट्राधिप इति विश्रुतः सोऽभवन्नृपः ॥
M N Dutt
The second brother of Vikshara, the great Asura, became the king of the country called Pandya.
१.६१.४१
बलवीर इति ख्यातो यस्त्वासीदसुरोत्तमः ।
पौण्ड्रमत्स्यक इत्येव स बभूव नराधिपः ॥
पौण्ड्रमत्स्यक इत्येव स बभूव नराधिपः ॥
M N Dutt
That best of Asuras, who was known by the name of Vira, became king Paundramatsyaka on earth.
१.६१.४२
वृत्र इत्यभिविख्यातो यस्तु राजन्महासुरः ।
मणिमान्नाम राजर्षिः स बभूव नराधिपः ॥
मणिमान्नाम राजर्षिः स बभूव नराधिपः ॥
M N Dutt
O king, that great Asura who was known as Vritra became the royal sage Manimala on earth.
१.६१.४३
क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः ।
दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ ॥
दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ ॥
M N Dutt
That Asura, who was the younger brother of Vritra and was known as Krodhahanta, became king Danda on earth.
१.६१.४४
क्रोधवर्धन इत्येव यस्त्वन्यः परिकीर्तितः ।
दण्डधार इति ख्यातः सोऽभवन्मनुजेश्वरः ॥
दण्डधार इति ख्यातः सोऽभवन्मनुजेश्वरः ॥
M N Dutt
That Asura who was known as Krodhavardhana became king Dandadhara on earth.
१.६१.४५
कालकायास्तु ये पुत्रास्तेषामष्टौ नराधिपाः ।
जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः ॥
जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः ॥
M N Dutt
O best of kings, the eight sons of the Asura Kaleyas were all born on earth and they all became great kings as powerful as tigers.
१.६१.४६
मगधेषु जयत्सेनः श्रीमानासीत्स पार्थिवः ।
अष्टानां प्रवरस्तेषां कालेयानां महासुरः ॥
अष्टानां प्रवरस्तेषां कालेयानां महासुरः ॥
M N Dutt
Of the eight great Kaleya Asuras, the eldest Jayatsena became the king of Magadha.
१.६१.४७
द्वितीयस्तु ततस्तेषां श्रीमान्हरिहयोपमः ।
अपराजित इत्येव स बभूव नराधिपः ॥
अपराजित इत्येव स बभूव नराधिपः ॥
M N Dutt
The second, as powerful as Indra, became king Aparajita on earth.
१.६१.४८
तृतीयस्तु महाराज महाबाहुर्महासुरः ।
निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः ॥
निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः ॥
M N Dutt
The third was a great Asura, endued with great prowess and power of deception, (Magical powers) and he became the greatly powerful king of the Nishadas.
॥ इति १.६१ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.