शौनक उवाच ।
१.३१.१
भुजंगमानां शापस्य मात्रा चैव सुतेन च ।
विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन ॥
विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन ॥
M N Dutt
Shaunaka said : O son of Suta, you have told us why the snakes were cursed by their mother; and why Vinata also cursed her son.
१.३१.२
वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा ।
नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः ॥
नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः ॥
M N Dutt
You have told us the bestowal of boons on Kadru and Vinata by their husband; you have also told us the names of the two sons of Vinata.
१.३१.३
पन्नगानां तु नामानि न कीर्तयसि सूतज ।
प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम् ॥
प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम् ॥
M N Dutt
O son of Suta, you have not told us the names of the snakes (the sons of Kadru). We are anxious to know at least the names of the chief ones.
सूत उवाच ।
१.३१.४
बहुत्वान्नामधेयानि भुजगानां तपोधन ।
न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु ॥
न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु ॥
M N Dutt
Sauti said: O Rishi, for fear of being lengthy, I shall not mention the names of all the snakes. But hear, I shall only mention the names of the chief ones.
१.३१.१६
एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम ।
बहुत्वान्नामधेयानामितरे न प्रकीर्तिताः ॥
बहुत्वान्नामधेयानामितरे न प्रकीर्तिताः ॥
M N Dutt
O best of the twice-born, I have told you the names of the chief snakes. For fear of being tedious, I have not told you the names of the rest.
१.३१.१७
एतेषां प्रसवो यश्च प्रसवस्य च संततिः ।
असंख्येयेति मत्वा तान्न ब्रवीमि द्विजोत्तम ॥
असंख्येयेति मत्वा तान्न ब्रवीमि द्विजोत्तम ॥
M N Dutt
O Rishi, the sons and the grandsons of the snakes were innumerable, therefore, I shall not mention their names to you.
१.३१.१८
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च ।
अशक्यान्येव संख्यातुं भुजगानां तपोधन ॥
अशक्यान्येव संख्यातुं भुजगानां तपोधन ॥
M N Dutt
O Rishi, the number of snakes defies calculation in this world. There are many thousands and millions of the snakes.
॥ इति १.३१ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.