शौनक उवाच ।
१.३२.१
जाता वै भुजगास्तात वीर्यवन्तो दुरासदाः ।
शापं तं त्वथ विज्ञाय कृतवन्तो नु किं परम् ॥
शापं तं त्वथ विज्ञाय कृतवन्तो नु किं परम् ॥
M N Dutt
Shaunaka said: O child, you have told us of many greatly powerful and unconquerable serpents. What did they do after hearing of the curse?
सूत उवाच ।
१.३२.२
तेषां तु भगवाञ्शेषस्त्यक्त्वा कद्रूं महायशाः ।
तपो विपुलमातस्थे वायुभक्षो यतव्रतः ॥
तपो विपुलमातस्थे वायुभक्षो यतव्रतः ॥
M N Dutt
Sauti said: Illustrious and famous Shesha, having left (his mother) Kadru, practised austere penances, living on air and rigidly observing vows.
१.३२.३
गन्धमादनमासाद्य बदर्यां च तपोरतः ।
गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे ॥
गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे ॥
M N Dutt
He practised his penances, going to Gandhamadana, Badari, Gokarna, the forest of Pushkara and the foot of the Himalayas.
१.३२.४
तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च ।
एकान्तशीली नियतः सततं विजितेन्द्रियः ॥
एकान्तशीली नियतः सततं विजितेन्द्रियः ॥
M N Dutt
He passed his days in these sacred places, rigidly observing his vows, completely controlling his passions and concentrating his mind.
१.३२.५
तप्यमानं तपो घोरं तं ददर्श पितामहः ।
परिशुष्कमांसत्वक्स्नायुं जटाचीरधरं प्रभुम् ॥
परिशुष्कमांसत्वक्स्नायुं जटाचीरधरं प्रभुम् ॥
M N Dutt
The Grandsire saw him with knotted hair, clad in rags, his flesh, skin and sinews dried up owing to the austere penances he was practising.
१.३२.६
तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः ।
किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु ॥
किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु ॥
M N Dutt
The Grandsire, addressing that penancepractising ascetic, said, “O Shesha, what are you doing? let the welfare of the worlds also engage your thoughts.
१.३२.७
त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ ।
ब्रूहि कामं च मे शेष यत्ते हृदि चिरं स्थितम् ॥
ब्रूहि कामं च मे शेष यत्ते हृदि चिरं स्थितम् ॥
M N Dutt
O sinless one, you are giving pain to all creatures by your austere penances. O Shesha, tell me the desire of your mind."
शेष उवाच ।
१.३२.८
सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः ।
सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम् ॥
सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम् ॥
M N Dutt
Shesha said: My brothers are all of wicked hearts. I do not wish to live with them. Kindly sanction this.
१.३२.९
अभ्यसूयन्ति सततं परस्परममित्रवत् ।
ततोऽहं तप आतिष्ठे नैतान्पश्येयमित्युत ॥
ततोऽहं तप आतिष्ठे नैतान्पश्येयमित्युत ॥
M N Dutt
They are jealous of one another like great enemies. I am, therefore, engaged in penances. I shall not even see them.
१.३२.१०
न मर्षयन्ति सततं विनतां ससुतां च ते ।
अस्माकं चापरो भ्राता वैनतेयः पितामह ॥
अस्माकं चापरो भ्राता वैनतेयः पितामह ॥
M N Dutt
They never show any kindness for Vinata and her son, who is our other brother, the bird of the air.
१.३२.११
तं च द्विषन्ति तेऽत्यर्थं स चापि सुमहाबलः ।
वरप्रदानात्स पितुः कश्यपस्य महात्मनः ॥
वरप्रदानात्स पितुः कश्यपस्य महात्मनः ॥
M N Dutt
They always envy him. He too is much stronger than (all of us), owing to the boon granted by our father, the illustrious and noble Kashyapa.
१.३२.१२
सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम् ।
कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह संगमः ॥
कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह संगमः ॥
M N Dutt
Therefore, I am practising penances and I shall cast off this body of mine, so that I may not any association with them even after death.
ब्रह्मोवाच ।
१.३२.१६
दिष्ट्या च बुद्धिर्धर्मे ते निविष्टा पन्नगोत्तम ।
अतो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा ॥
अतो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा ॥
M N Dutt
I am highly pleased with you and I shall grant you a boon today. O best of snakes, it is very good that your heart has been set on virtue. Let your heart be more and more firmly set on virtue."
शेष उवाच ।
१.३२.१७
एष एव वरो मेऽद्य काङ्क्षितः प्रपितामह ।
धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर ॥
धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर ॥
M N Dutt
Shesha said: Odivine Grandsire, O lord of all, I ask this boon. Let my heart always delight in virtue and in blessed penances.
ब्रह्मोवाच ।
१.३२.१८
प्रीतोऽस्म्यनेन ते शेष दमेन प्रशमेन च ।
त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम् ॥
त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम् ॥
M N Dutt
Brahma said :: O Shesha, I am highly pleased with your self-denial and love of peace. By my command let the following act be done by you for the good of all creatures.
१.३२.१९
इमां महीं शैलवनोपपन्नां
ससागरां साकरपत्तनां च ।
त्वं शेष सम्यक्चलितां यथाव
त्संगृह्य तिष्ठस्व यथाचला स्यात् ॥
ससागरां साकरपत्तनां च ।
त्वं शेष सम्यक्चलितां यथाव
त्संगृह्य तिष्ठस्व यथाचला स्यात् ॥
M N Dutt
Bearing properly and well, this earth which is so very unsteady, towns retreats and seas, with all her mountains and forests with her O Shesha, remain in the way as she may be steady.
शेष उवाच ।
१.३२.२०
यथाह देवो वरदः प्रजापति
र्महीपतिर्भूतपतिर्जगत्पतिः ।
तथा महीं धारयितास्मि निश्चलां
प्रयच्छ तां मे शिरसि प्रजापते ॥
र्महीपतिर्भूतपतिर्जगत्पतिः ।
तथा महीं धारयितास्मि निश्चलां
प्रयच्छ तां मे शिरसि प्रजापते ॥
M N Dutt
Shesha said: O divine lord of all creatures, O granter of boons, O lord of the earth,O the lord of every created thing, O the lord of the universe, I shall hold the earth steady, as you command. O Prajapati, place it upon my head.
ब्रह्मोवाच ।
१.३२.२१
अधो महीं गच्छ भुजंगमोत्तम
स्वयं तवैषा विवरं प्रदास्यति ।
इमां धरां धारयता त्वया हि मे
महत्प्रियं शेष कृतं भविष्यति ॥
स्वयं तवैषा विवरं प्रदास्यति ।
इमां धरां धारयता त्वया हि मे
महत्प्रियं शेष कृतं भविष्यति ॥
M N Dutt
Brahma said: O best of snakes, go underneath the earth. She herself will make a passage for you. O Shesha, you will certainly do what is highly valued by me by holding the earth (on your head.)
सूत उवाच ।
१.३२.२२
तथेति कृत्वा विवरं प्रविश्य स
प्रभुर्भुवो भुजगवराग्रजः स्थितः ।
बिभर्ति देवीं शिरसा महीमिमां
समुद्रनेमिं परिगृह्य सर्वतः ॥
प्रभुर्भुवो भुजगवराग्रजः स्थितः ।
बिभर्ति देवीं शिरसा महीमिमां
समुद्रनेमिं परिगृह्य सर्वतः ॥
M N Dutt
Sauti said: The elder brother of the king of the snakes, entering into a hole, went to the other side of the earth. He held that goddess (earth) with her belt of seas all around her.
ब्रह्मोवाच ।
१.३२.२३
शेषोऽसि नागोत्तम धर्मदेवो
महीमिमां धारयसे यदेकः ।
अनन्तभोगः परिगृह्य सर्वां
यथाहमेवं बलभिद्यथा वा ॥
महीमिमां धारयसे यदेकः ।
अनन्तभोगः परिगृह्य सर्वां
यथाहमेवं बलभिद्यथा वा ॥
M N Dutt
Brahma said: O Shesha, O best of snakes, you are the Dharma, because you hold the earth alone with your infinite hoods, with every thing on her, what I myself and Indra can do.
सूत उवाच ।
१.३२.२४
अधो भूमेर्वसत्येवं नागोऽनन्तः प्रतापवान् ।
धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः ॥
धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः ॥
M N Dutt
Sauti said: Thus does the snake, Shesha, the greatly powerful lord Ananta, lives underneath the earth, alone supporting the world at the command of Brahma.
१.३२.२५
सुपर्णं च सखायं वै भगवानमरोत्तमः ।
प्रादादनन्ताय तदा वैनतेयं पितामहः ॥
प्रादादनन्ताय तदा वैनतेयं पितामहः ॥
M N Dutt
Then the Grandsire, the illustrious lord of the immortals, gave Suparna (Garuda), the son of Vinata as Ananta's help.
॥ इति १.३२ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.