सूत उवाच ।
१.२६.१
स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा ।
अभज्यत तरोः शाखा भग्नां चैनामधारयत् ॥
अभज्यत तरोः शाखा भग्नां चैनामधारयत् ॥
M N Dutt
Sauti said: The moment the branch of the tree was touched by the greatly powerful Garuda with his feet, it broke down. As it was about to fall, it was caught by him.
१.२६.२
तां भग्नां स महाशाखां स्मयन्समवलोकयन् ।
अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान् ॥
अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान् ॥
M N Dutt
As he cast his eyes in wonder on the broken branch of the tree, he saw that the Valakhilya Rishis were hanging form it, with their heads downwards.
१.२६.३
स तद्विनाशसंत्रासादनुपत्य खगाधिपः ।
शाखामास्येन जग्राह तेषामेवान्ववेक्षया ।
शनैः पर्यपतत्पक्षी पर्वतान्प्रविशातयन् ॥
शाखामास्येन जग्राह तेषामेवान्ववेक्षया ।
शनैः पर्यपतत्पक्षी पर्वतान्प्रविशातयन् ॥
M N Dutt
The king of birds, from the fear of killing the Rishis and from the desire of saving them held the bough in his beaks and rose on his wings.
१.२६.१०
तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा ।
विदित्वा चास्य संकल्पमिदं वचनमब्रवीत् ॥
विदित्वा चास्य संकल्पमिदं वचनमब्रवीत् ॥
M N Dutt
Capable of destroying the three worlds and as fierce-looking as Yama himself. The greatly illustrious Kashyapa, seeing him approach and knowing his intention, thus addressed him,
१.२६.११
पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम् ।
मा त्वा दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः ॥
मा त्वा दहेयुः संक्रुद्धा वालखिल्या मरीचिपाः ॥
M N Dutt
Kashyapa said : My son, do not commit a rash act, for you will then have to suffer pain. The Valakhilyas, that support on the rays of the sun, if angry, can blast you.
१.२६.१२
प्रसादयामास स तान्कश्यपः पुत्रकारणात् ।
वालखिल्यांस्तपःसिद्धानिदमुद्दिश्य कारणम् ॥
वालखिल्यांस्तपःसिद्धानिदमुद्दिश्य कारणम् ॥
M N Dutt
Sauti said: Therefore, Kashyapa for the snake of his son, propitiated the very glorious, exceedingly ascetic and sinless Valakhilyas.
१.२६.१३
प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः ।
चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ ॥
चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ ॥
M N Dutt
Kashyapa said : O great Rishis, the action of Garuda is for the good of all creatures. He is trying to accomplish a great act and therefore, you should give him permission.
१.२६.१४
एवमुक्ता भगवता मुनयस्ते समभ्ययुः ।
मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोर्थिनः ॥
मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोर्थिनः ॥
M N Dutt
Sauti said: The great ascetics, having been thus addressed by the illustrious Kashyapa, quitting the bough, went to the sacred Himalayas to observe ascetic penances.
१.२६.१५
ततस्तेष्वपयातेषु पितरं विनतात्मजः ।
शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम् ॥
शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम् ॥
M N Dutt
When the Rishis went away, the son of Vinata, his voice choked by the bough in his beaks, asked his father Kashyapa,
१.२६.१६
भगवन्क्व विमुञ्चामि तरुशाखामिमामहम् ।
वर्जितं ब्राह्मणैर्देशमाख्यातु भगवान्मम ॥
वर्जितं ब्राह्मणैर्देशमाख्यातु भगवान्मम ॥
M N Dutt
"O illustrious one, where stall I throw this great bough of the tree? O illustrious one, point me a place free from men."
१.२६.१७
ततो निष्पुरुषं शैलं हिमसंरुद्धकन्दरम् ।
अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः ॥
अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः ॥
M N Dutt
Kashyapa told him of a mountain without human beings, with caves and dales, always covered with snow and inaccessible by ordinary men even in thought.
१.२६.१८
तं पर्वतमहाकुक्षिमाविश्य मनसा खगः ।
जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः ॥
जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः ॥
M N Dutt
The great bird, carrying the bough, the elephant and the tortoise, proceeded in great speed towards that mountain of broad waist.
१.२६.१९
न तां वध्रः परिणहेच्छतचर्मा महानणुः ।
शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः ॥
शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः ॥
M N Dutt
The great bough with which the huge bird flew away could be girt round with a cord made of a hundred hides.
१.२६.२०
ततः स शतसाहस्रं योजनान्तरमागतः ।
कालेन नातिमहता गरुडः पततां वरः ॥
कालेन नातिमहता गरुडः पततां वरः ॥
M N Dutt
The king of the birds, Garuda, flew away one hundred thousand Yojanas in the shortest time.
१.२६.२१
स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः ।
अमुञ्चन्महतीं शाखां सस्वनां तत्र खेचरः ॥
अमुञ्चन्महतीं शाखां सस्वनां तत्र खेचरः ॥
M N Dutt
Going almost within a moment to the mountains as directed by his father, the bird let fall the great bough. And it fell with a great noise.
१.२६.२२
पक्षानिलहतश्चास्य प्राकम्पत स शैलराट् ।
मुमोच पुष्पवर्षं च समागलितपादपः ॥
मुमोच पुष्पवर्षं च समागलितपादपः ॥
M N Dutt
That king of the mountains trembled, having been struck with the storm, raised by Garuda's wings. The trees thereon dropped showers of flowers.
१.२६.२३
शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः ।
मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् ॥
मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् ॥
M N Dutt
And the peaks of that great mountain, decked with gems and gold, were loosened and fell down on all sides.
१.२६.२४
शाखिनो बहवश्चापि शाखयाभिहतास्तया ।
काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः ॥
काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः ॥
M N Dutt
The falling bough struck down many trees, which, with golden flowers amid their dark leaves, looked like clouds charged with lightning.
१.२६.२५
ते हेमविकचा भूयो युक्ताः पर्वतधातुभिः ।
व्यराजञ्शाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः ॥
व्यराजञ्शाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः ॥
M N Dutt
And these trees, bright as gold, falling down upon the ground and dyed with the mountain metals, looked as if they were bathed in the rays of the sun.
१.२६.२६
ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः ।
भक्षयामास गरुडस्तावुभौ गजकच्छपौ ॥
भक्षयामास गरुडस्तावुभौ गजकच्छपौ ॥
M N Dutt
Then the best of birds sat on the summit of that mountain and ate both the elephant and the tortoise.
१.२६.२९
तथा वसूनां रुद्राणामादित्यानां च सर्वशः ।
साध्यानां मरुतां चैव ये चान्ये देवतागणाः ।
स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत् ॥
साध्यानां मरुतां चैव ये चान्ये देवतागणाः ।
स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत् ॥
M N Dutt
Meteors with flames and smoke, loosened from the welkin, shot down during the day; and the weapons of the Vasus, the Rudras, la Adityas, the Sadhyas, the Maruts and of all other classes of celestials began to fight among one another.
१.२६.३०
अभूतपूर्वं संग्रामे तदा देवासुरेऽपि च ।
ववुर्वाताः सनिर्घाताः पेतुरुल्काः समन्ततः ॥
ववुर्वाताः सनिर्घाताः पेतुरुल्काः समन्ततः ॥
M N Dutt
Such things had never happened, not even during the war between the Devas and the Danavas. The winds blew with thunder; meteors fell in thousands;
१.२६.३१
निरभ्रमपि चाकाशं प्रजगर्ज महास्वनम् ।
देवानामपि यो देवः सोऽप्यवर्षदसृक्तदा ॥
देवानामपि यो देवः सोऽप्यवर्षदसृक्तदा ॥
M N Dutt
The cloudless sky made a tremendous roar. Even he who was the god of the gods, dropped blood,
१.२६.३२
मम्लुर्माल्यानि देवानां शेमुस्तेजांसि चैव हि ।
उत्पातमेघा रौद्राश्च ववर्षुः शोणितं बहु ।
रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन् ॥
उत्पातमेघा रौद्राश्च ववर्षुः शोणितं बहु ।
रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन् ॥
M N Dutt
The garlands in the necks of the celestials grew pale and dim and their splendour was lost. And terrible masses of clouds vomited thick showers of blood.
१.२६.३३
ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः ।
उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम् ॥
उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम् ॥
M N Dutt
The dust, raised by the winds, darkened the splendour of the coronets worn by the celestial. Thereupon, Indra with the other celestials, perplexed with fear on account of these evil omens, addressed Brihaspati thus.
१.२६.३४
किमर्थं भगवन्घोरा महोत्पाताः समुत्थिताः ।
न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत् ॥
न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत् ॥
M N Dutt
Indra said : O illustrious one, why have these great disasters suddenly arisen? I do not see any enemy who will oppress us in a war.
बृहस्पतिरुवाच ।
१.२६.३५
तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो ।
तपसा वालखिल्यानां भूतमुत्पन्नमद्भुतम् ॥
तपसा वालखिल्यानां भूतमुत्पन्नमद्भुतम् ॥
M N Dutt
Brihaspati said : O king of the celestials, O Shatakratu, it is from your carelessness and from your fault and owing to the penances of the illustrious Rishi Valakhilyas,
१.२६.३६
कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः ।
हर्तुं सोममनुप्राप्तो बलवान्कामरूपवान् ॥
हर्तुं सोममनुप्राप्तो बलवान्कामरूपवान् ॥
M N Dutt
That the son of the Rishi Kashyapa and Vinata, the great bird, capable of assuming any form at will, is coming to take away the Soma.
१.२६.३७
समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहंगमः ।
सर्वं संभावयाम्यस्मिन्नसाध्यमपि साधयेत् ॥
सर्वं संभावयाम्यस्मिन्नसाध्यमपि साधयेत् ॥
M N Dutt
And the strongest of all the strong, that bird is capable of taking away the Soma. Everything is possible in him. He can achieve even the unachievable.
सूत उवाच ।
१.२६.३८
श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः ।
महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः ॥
महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः ॥
M N Dutt
Sauti said : Having heard this, Indra spoke to those that guarded the Ambrosia, "A greatly powerful bird has determined to take away the Soma;
१.२६.३९
युष्मान्संबोधयाम्येष यथा स न हरेद्बलात् ।
अतुलं हि बलं तस्य बृहस्पतिरुवाच मे ॥
अतुलं हि बलं तस्य बृहस्पतिरुवाच मे ॥
M N Dutt
I warn you beforehand, so that he may not succeed in taking it by force. Brihaspati has told me that his strength is matchless."
१.२६.४०
तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः ।
परिवार्यामृतं तस्थुर्वज्री चेन्द्रः शतक्रतुः ॥
परिवार्यामृतं तस्थुर्वज्री चेन्द्रः शतक्रतुः ॥
M N Dutt
The celestials, when they heard it, were astonished and they took precautions. They stood surrounding the Ambrosia and the greatly powerful Indra stood with them, thunder-bolt in hand.
१.२६.४४
शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान् ।
स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः ॥
स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः ॥
M N Dutt
They were armed with many discusses, iron maces, spikes, lances, tridents, battle-axes and various other sharp-pointed missiles, polished swords and maces of terrible forms, all suited to their respective bodies.
१.२६.४५
तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः ।
भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः ॥
भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः ॥
M N Dutt
Armed with these bright weapons and adorned with all celestial ornaments, the celestials, having their fear allayed, waited there (ready to meet Garuda).
१.२६.४६
अनुपमबलवीर्यतेजसो; धृतमनसः परिरक्षणेऽमृतस्य । असुरपुरविदारणाः सुरा; ज्वलनसमिद्धवपुःप्रकाशिनः ॥
M N Dutt
The celestials of matchless strength, energy and splendour, capable of splitting the cities of the Asuras, displayed themselves in forms resplendent as the blazing fire; they all resolved to protect the Ambrosia (at all hazard).
१.२६.४७
इति समरवरं सुरास्थितं
परिघसहस्रशतैः समाकुलम् ।
विगलितमिव चाम्बरान्तरे
तपनमरीचिविभासितं बभौ ॥
परिघसहस्रशतैः समाकुलम् ।
विगलितमिव चाम्बरान्तरे
तपनमरीचिविभासितं बभौ ॥
M N Dutt
And in consequence of the celestials standing there and owing to hundreds of thousands of maces furnished with iron spokes, that battle-field looked like another firmament illuminated by the rays of the sun.
॥ इति १.२६ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.