सूत उवाच ।
१.१६.१
ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलंकृतम् ।
मन्दरं पर्वतवरं लताजालसमावृतम् ॥
मन्दरं पर्वतवरं लताजालसमावृतम् ॥
M N Dutt
Sauti said: There is a mountain called Mandara with peaks like the clouds. It is the best of mountains and adorned with innumerable creepers.
१.१६.२
नानाविहगसंघुष्टं नानादंष्ट्रिसमाकुलम् ।
किंनरैरप्सरोभिश्च देवैरपि च सेवितम् ॥
किंनरैरप्सरोभिश्च देवैरपि च सेवितम् ॥
M N Dutt
On it do many birds pour forth their melody and may beasts of prey roam about; it is frequented by the Kinnaras, Apsaras and। celestials.
१.१६.३
एकादश सहस्राणि योजनानां समुच्छ्रितम् ।
अधो भूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम् ॥
अधो भूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम् ॥
M N Dutt
It rises eleven thousand Yojanas upwards and descends eleven thousand Yojanas downwards.
१.१६.४
तमुद्धर्तुं न शक्ता वै सर्वे देवगणास्तदा ।
विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन् ॥
विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन् ॥
M N Dutt
The celestials, having failed to uproot it, came to Vishnu and Brahma who were sitting together and said to them.
१.१६.५
भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम् ।
मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः ॥
मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः ॥
M N Dutt
"Devise some means you yourselves. Do try to uproot Mandara for our good.”
१.१६.६
तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव ।
ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः ।
नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान् ॥
ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः ।
नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान् ॥
M N Dutt
Being directed by both Brahma and Narayana to do it, the mighty Ananta uprooted the mountain with all the woods and the denizens of woods that were on it.
१.१६.७
अथ पर्वतराजानं तमनन्तो महाबलः ।
उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम् ॥
उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम् ॥
M N Dutt
Being directed by both Brahma and Narayana to do it, the mighty Ananta uprooted the mountain with all the woods and the denizens of woods that were on it.
१.१६.८
ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे ।
तमूचुरमृतार्थाय निर्मथिष्यामहे जलम् ॥
तमूचुरमृतार्थाय निर्मथिष्यामहे जलम् ॥
M N Dutt
Then came all the celestial with Ananta to the shores of the ocean, Addressing it they said, “O Ocean, we have come to churn you for the Ambrosia.
१.१६.९
अपांपतिरथोवाच ममाप्यंशो भवेत्ततः ।
सोढास्मि विपुलं मर्दं मन्दरभ्रमणादिति ॥
सोढास्मि विपुलं मर्दं मन्दरभ्रमणादिति ॥
M N Dutt
The ocean replied, “Be it so, as I shall get a share of it. I am quite able to bear the great agitation arising out of the churning of my water by Mandara.
१.१६.१०
ऊचुश्च कूर्मराजानमकूपारं सुरासुराः ।
गिरेरधिष्ठानमस्य भवान्भवितुमर्हति ॥
गिरेरधिष्ठानमस्य भवान्भवितुमर्हति ॥
M N Dutt
The Devas and the Danavas then went to the Tortoise king and said, “You will have to support the mountain on your back.”
१.१६.११
कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम् ।
तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रोऽभ्यपीडयत् ॥
तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रोऽभ्यपीडयत् ॥
M N Dutt
The Tortoise king having agreed, Indra pressed that mountain on its back by means of his thunderbolt.
१.१६.१२
मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम् ।
देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम् ।
अमृतार्थिनस्ततो ब्रह्मन्सहिता दैत्यदानवाः ॥
देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम् ।
अमृतार्थिनस्ततो ब्रह्मन्सहिता दैत्यदानवाः ॥
M N Dutt
The Devas and the Danavas having made Mandara the churning staff and Vasuki the rope. O Brahmana, in days of yore, began to churn the ocean for the Ambrosia. The Asuras held him by the head and the Devas by the tail.
१.१६.१३
एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः ।
विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः ॥
विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः ॥
M N Dutt
The Devas and the Danavas having made Mandara the churning staff and Vasuki the rope. O Brahmana, in days of yore, began to churn the ocean for the Ambrosia. The Asuras held him by the head and the Devas by the tail.
१.१६.१४
अनन्तो भगवान्देवो यतो नारायणस्ततः ।
शिर उद्यम्य नागस्य पुनः पुनरवाक्षिपत् ॥
शिर उद्यम्य नागस्य पुनः पुनरवाक्षिपत् ॥
M N Dutt
And Ananta, who was a manifested form of Narayana, again and again raised and lowered the hood of the Naga.
१.१६.१५
वासुकेरथ नागस्य सहसाक्षिप्यतः सुरैः ।
सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् ॥
सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् ॥
M N Dutt
On account of the great agitation, received at the hands of the celestials, black vapours with flames issued from the mouth of the Naga Vasuki.
१.१६.१६
ते धूमसंघाः संभूता मेघसंघाः सविद्युतः ।
अभ्यवर्षन्सुरगणाञ्श्रमसंतापकर्शितान् ॥
अभ्यवर्षन्सुरगणाञ्श्रमसंतापकर्शितान् ॥
M N Dutt
From these vapours were created clouds with lightning; and they poured showers on the tired celestials who were thus refreshed.
१.१६.१७
तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः ।
सुरासुरगणान्माल्यैः सर्वतः समवाकिरन् ॥
सुरासुरगणान्माल्यैः सर्वतः समवाकिरन् ॥
M N Dutt
The flowers that fell from the trees on the mountain-sides on the Devas and the Danavas also refreshed them.
१.१६.१८
बभूवात्र महाघोषो महामेघरवोपमः ।
उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः ॥
उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः ॥
M N Dutt
There rose from Mandara being dragged by the Devas and the Danavas, a terrible roar like the roar of the clouds (at the Universal dissolution).
१.१६.१९
तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा ।
विलयं समुपाजग्मुः शतशो लवणाम्भसि ॥
विलयं समुपाजग्मुः शतशो लवणाम्भसि ॥
M N Dutt
Various aquatic animals were crushed by the great mountain and gave up their lives in the salt sea.
१.१६.२०
वारुणानि च भूतानि विविधानि महीधरः ।
पातालतलवासीनि विलयं समुपानयत् ॥
पातालतलवासीनि विलयं समुपानयत् ॥
M N Dutt
Many denizens of the lower region and those of the land of Varuna were killed by the mountain.
१.१६.२१
तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम् ।
न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः ॥
न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः ॥
M N Dutt
From the whirling Mandara large trees, being struck at one another, were torn from their roots and fell into the ocean with all the birds (that roosted on their branches).
१.१६.२२
तेषां संघर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः ।
विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम् ॥
विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम् ॥
M N Dutt
And great fires were produced from the mutual friction of the trees that frequently blazed up and the Mandara mountain looked like black clouds charged with lightning,
१.१६.२३
ददाह कुञ्जरांश्चैव सिंहांश्चैव विनिःसृतान् ।
विगतासूनि सर्वाणि सत्त्वानि विविधानि च ॥
विगतासूनि सर्वाणि सत्त्वानि विविधानि च ॥
M N Dutt
It burnt the lions, elephants and other various creatures that were on the mountain and killed them (on the spot).
१.१६.२४
तमग्निममरश्रेष्ठः प्रदहन्तं ततस्ततः ।
वारिणा मेघजेनेन्द्रः शमयामास सर्वतः ॥
वारिणा मेघजेनेन्द्रः शमयामास सर्वतः ॥
M N Dutt
Then the best of the celestials, Indra began to extinguish the blazing fire by pouring heavy showers.
१.१६.२५
ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि ।
महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ॥
महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ॥
M N Dutt
Then the gums of various great trees and juices from herbs mingled with the waters of the ocean.
१.१६.२६
तेषाममृतवीर्याणां रसानां पयसैव च ।
अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् ॥
अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् ॥
M N Dutt
The celestials became immortal by drinking the water mixed with the liquid extract of gold and those gums which had the quality of the Ambrosia.
१.१६.२७
अथ तस्य समुद्रस्य तज्जातमुदकं पयः ।
रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्घृतम् ॥
रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्घृतम् ॥
M N Dutt
The milky water of the churned ocean by degrees produced clarified butter by virtue of those gums and juices.
१.१६.२८
ततो ब्रह्माणमासीनं देवा वरदमब्रुवन् ।
श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत् ॥
श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत् ॥
M N Dutt
Thereupon the Devas came to the boongranting God who was comfortably seated on his seat and said, “O Brahman, we are spent out but the Ambrosia has not yet arisen."
१.१६.२९
ऋते नारायणं देवं दैत्या नागोत्तमास्तथा ।
चिरारब्धमिदं चापि सागरस्यापि मन्थनम् ॥
चिरारब्धमिदं चापि सागरस्यापि मन्थनम् ॥
M N Dutt
Except Narayana, both the Devas and the Danavas have no strength to churn the ocean (any longer).
१.१६.३०
ततो नारायणं देवं ब्रह्मा वचनमब्रवीत् ।
विधत्स्वैषां बलं विष्णो भवानत्र परायणम् ॥
विधत्स्वैषां बलं विष्णो भवानत्र परायणम् ॥
M N Dutt
Then did Brahma say to Narayana, “Kindly give the celestials strength to churn the Ocean again with Mandara mountain, O Vishnu you are our refuge."
विष्णुरुवाच ।
१.१६.३१
बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः ।
क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम् ॥
क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम् ॥
M N Dutt
Narayana said : I grant all necessary strength for all those who are engaged in this action. Go, insert the mountain and churn the Ocean.
सूत उवाच ।
१.१६.३२
नारायणवचः श्रुत्वा बलिनस्ते महोदधेः ।
तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम् ॥
तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम् ॥
M N Dutt
Thus hearing the words of Narayana and being re-equipped with fresh strength the celestial recommenced churning of the waters.
१.१६.३३
ततः शतसहस्रांशुः समान इव सागरात् ।
प्रसन्नभाः समुत्पन्नः सोमः शीतांशुरुज्ज्वलः ॥
प्रसन्नभाः समुत्पन्नः सोमः शीतांशुरुज्ज्वलः ॥
M N Dutt
Then from churning the ocean rose the amiable and brilliant Moon of thousand rays.
१.१६.३४
श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी ।
सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा ॥
सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा ॥
M N Dutt
Then rose from that ghee, the whiteclothed Lakshmi; then Sura Devi (Wine) then the great white steed.
१.१६.३५
कौस्तुभश्च मणिर्दिव्य उत्पन्नोऽमृतसंभवः ।
मरीचिविकचः श्रीमान्नारायणउरोगतः ॥
मरीचिविकचः श्रीमान्नारायणउरोगतः ॥
M N Dutt
Then from the ghee rose the celestial gem Kaustubha, the splendid by rays, which adorns the breast of Narayana. Then rose, O Brahmana, Parijata tree and Surabhi, all giver of everything.
१.१६.३६
श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः ।
यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः ॥
यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः ॥
M N Dutt
Lakshmi, Wine, Moon, Horse (Uchchaishrava) which is fleet as the mind, all directed by Aditya went to the place where the celestials were.
१.१६.३७
धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत ।
श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति ॥
श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति ॥
M N Dutt
Then rose the divine Dhanvantari with a white vessel in his hand and there in that vessel) was the Ambrosia.
१.१६.३८
एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः ।
अमृतार्थे महान्नादो ममेदमिति जल्पताम् ॥
अमृतार्थे महान्नादो ममेदमिति जल्पताम् ॥
M N Dutt
Seeing this wonderful phenomenon, the Danavas raised a a great uproar for the Ambrosia, saying “It is mine."
१.१६.३९
ततो नारायणो मायामास्थितो मोहिनीं प्रभुः ।
स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः ॥
स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः ॥
M N Dutt
Thereupon Narayana assumed a form of a ravishing beauty by the aid of Maya and he began a flirtation with the Danavas in the form of a female.
१.१६.४०
ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः ।
स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः ॥
स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः ॥
M N Dutt
The foolish Danavas and Daityas becoming fully, enamoured of her, placed the Ambrosia in her hands.
॥ इति १.१६ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.