शौनक उवाच ।
१.१४.१
सौते कथय तामेतां विस्तरेण कथां पुनः ।
आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः ॥
आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः ॥
M N Dutt
Shaunaka said: O Sauti, once more relate to us in detail the history of the learned and virtuous Astika. Great is our curiosity to hear it.
१.१४.२
मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया ।
प्रीयामहे भृशं तात पितेवेदं प्रभाषसे ॥
प्रीयामहे भृशं तात पितेवेदं प्रभाषसे ॥
M N Dutt
O gentle one, you speak very sweetly with proper accent and emphasis. We are very much, pleased with your speech. You speak like your (late) father.
१.१४.३
अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव ।
आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद ॥
आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद ॥
M N Dutt
Your father was always ready to please us. Tell us, therefore, the story that your father had related.
सूत उवाच ।
१.१४.४
आयुष्यमिदमाख्यानमास्तीकं कथयामि ते ।
यथा श्रुतं कथयतः सकाशाद्वै पितुर्मया ॥
यथा श्रुतं कथयतः सकाशाद्वै पितुर्मया ॥
M N Dutt
Sauti said: O long-lived ones, I shall narrate this story of Astika as I heard it from my father.
१.१४.५
पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे ।
आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघे ॥
आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघे ॥
M N Dutt
O Brahmana, in the golden age Prajapati had two fair daughters. O sinless one, the two sisters were endued with great beauty.
१.१४.६
ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह ।
प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः ।
कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः ॥
प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः ।
कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः ॥
M N Dutt
They were named Kadru and Vinata and they were the wives of Kashyapa. Their husband, who like Prajapati, having been pleased with them, gave each a boon
१.१४.८
वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यतेजसः ।
द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले ।
ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ ॥
द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले ।
ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ ॥
M N Dutt
Vinata asked for two sons, more in strength, energy, size and prowess than the sons of Kadru.
१.१४.९
तस्यै भर्ता वरं प्रादादध्यर्धं पुत्रमीप्सितम् ।
एवमस्त्विति तं चाह कश्यपं विनता तदा ॥
एवमस्त्विति तं चाह कश्यपं विनता तदा ॥
M N Dutt
On her did her husband bestow the boon of the desired sons; and Vinata said to him, “Be it so."
१.१४.१०
कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ ।
कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम् ॥
कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम् ॥
१.१४.११
धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः ।
ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत् ॥
ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत् ॥
M N Dutt
Kadru also obtained one thousand sons, all of equal spiendour. “Bear the embryos carefully.” So saying the great ascetic Kashyapa went into the forest, leaving his two wives much gratified with his boons.
१.१४.१२
कालेन महता कद्रूरण्डानां दशतीर्दश ।
जनयामास विप्रेन्द्र द्वे अण्डे विनता तदा ॥
जनयामास विप्रेन्द्र द्वे अण्डे विनता तदा ॥
M N Dutt
Sauti said: O best of Brahmanas, after a long time Kadru gave birth to one thousand eggs and Vinata two eggs.
१.१४.१३
तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः ।
सोपस्वेदेषु भाण्डेषु पञ्च वर्षशतानि च ॥
सोपस्वेदेषु भाण्डेषु पञ्च वर्षशतानि च ॥
M N Dutt
Their maid servants kept them separately in warm vessels and thus five hundred years passed away.
१.१४.१४
ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः ।
अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत ॥
अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत ॥
M N Dutt
After five hundred years, the sons of Kadru came out of the eggs, but Vinata's eggs did not produce anything.
१.१४.१५
ततः पुत्रार्थिणी देवी व्रीडिता सा तपस्विनी ।
अण्डं बिभेद विनता तत्र पुत्रमदृक्षत ॥
अण्डं बिभेद विनता तत्र पुत्रमदृक्षत ॥
M N Dutt
Thereupon the ascetic lady desiring the sons, Vinata, feeling shame, broke open one of the eggs and saw her offspring,
१.१४.१६
पूर्वार्धकायसंपन्नमितरेणाप्रकाशता ।
स पुत्रो रोषसंपन्नः शशापैनामिति श्रुतिः ॥
स पुत्रो रोषसंपन्नः शशापैनामिति श्रुतिः ॥
M N Dutt
As an embryo with the upper part developed, but the lower part undeveloped. Thereupon the child grew angry and cursed its mother, saying,
१.१४.१७
योऽहमेवं कृतो मातस्त्वया लोभपरीतया ।
शरीरेणासमग्रोऽद्य तस्माद्दासी भविष्यसि ॥
शरीरेणासमग्रोऽद्य तस्माद्दासी भविष्यसि ॥
M N Dutt
"O mother, as you have prematurely broken this egg and did not allow my body to be fully developed, being jealous (of Kadru), you will have to serve as the slave (of that very Kadru).
१.१४.१८
पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह ।
एष च त्वां सुतो मातर्दास्यत्वान्मोक्षयिष्यति ॥
एष च त्वां सुतो मातर्दास्यत्वान्मोक्षयिष्यति ॥
M N Dutt
O mother, if you wait with patience five hundred years and do not destroy the other egg, the illustrious child within it will deliver you from your slavery.
१.१४.१९
यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात् ।
न करिष्यस्यदेहं वा व्यङ्गं वापि तपस्विनम् ॥
न करिष्यस्यदेहं वा व्यङ्गं वापि तपस्विनम् ॥
M N Dutt
O mother, if you wait with patience five hundred years and do not destroy the other egg, the illustrious child within it will deliver you from your slavery.
१.१४.२०
प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया ।
विशिष्टबलमीप्सन्त्या पञ्चवर्षशतात्परः ॥
विशिष्टबलमीप्सन्त्या पञ्चवर्षशतात्परः ॥
M N Dutt
O mother, if you are desirous of having your son strong, take tender care of the egg for five hundred years.
१.१४.२१
एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः ।
अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा ॥
अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा ॥
M N Dutt
Thus cursing his mother Vinata, the child rose to the sky. O Brahmana, Aruna (this child) became the charioteer of the Sun and he is to be seen in the hour of the morning. At the stipulated time was also born the snake-eater Garuda.
१.१४.२३
आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत् ।
विधात्रा भृगुशार्दूल क्षुधितस्य बुभुक्षतः ॥
विधात्रा भृगुशार्दूल क्षुधितस्य बुभुक्षतः ॥
M N Dutt
As soon as he was born, he left his mother and the king of the birds, being hungry, mounted on his wings to seek for the food assigned to him by the great Ordainer.
॥ इति १.१४ ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.