Loading data... On slow networks this could take a few minutes.
100%

यन्मुखग्रहणमक्षताधरं
दत्तमव्रणपदं नखं च यत्
यद्रतं च सदयं प्रियस्य
तत्पार्वती विषहते स्म नेतर्-
अत्

अन्वयः AI प्रियस्य यत् अक्षताधरं मुखग्रहणं, यत् च अव्रणपदं नखं दत्तं, यत् च सदयं रतं, पार्वती तत् विषहते स्म, न इतरत्।
सञ्जीविनीटीका (मल्लिनाथः) यदिति । पार्वती प्रियस्य संबन्ध्यक्षतोऽखण्टितोऽधरो यस्मिंस्तत्तथोक्तं यन्मुखग्रहणं मुखचुम्बनम् । अव्रणपदं लक्ष्मरहितम् । `पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु` इत्यमरः (अमरकोशः ३.३.१०१ ) । दत्तं यच्च नखं नखकर्म । यत्सदयं रतं तत्सर्वं विषहते सहते स्म । नेतरद्विपरीतम् । प्रचण्डमिति यावत् । तच्चुम्बनं नखं सुरतं वा न सहते स्म । नवोढात्वादिति हृदयम् । तदुक्तं रतिरहस्ये-(नात्यन्तमानुलोम्येन न चातिप्रतिलोमतः । सिद्धिं गच्छन्ति वा तस्मान्मध्येन साधयेदिति । नवोढाम्) इति
Summary AI Parvati could only endure her beloved's actions that were gentle: the seizing of her face that left her lips unbitten, the nail marks that left no wound, and the love-making that was compassionate. She could not bear anything else.
सारांश AI पार्वती केवल प्रिय की वैसी ही रति सहन कर पाती थीं जो अत्यंत कोमल हो, जिसमें न अधरों पर दंत-क्षत हो और न शरीर पर नख-क्षत।
पदच्छेदः AI
यत्यद् (१.१) Whatever
मुखग्रहणम्मुखग्रहण (१.१) seizing of the face
अक्षताधरम्अक्षतअधर (१.१) that left the lips unbitten
दत्तम्दत्त (√दा+क्त, १.१) given
अव्रणपदम्अव्रणपद (१.१) that left no wound-mark
नखम्नख (१.१) nail-mark
and
यत्यद् (१.१) whatever
रतम्रत (√रम्+क्त, १.१) love-making
and
सदयंसदयं was gentle
प्रियस्यप्रिय (६.१) of her beloved
तत्तद् (२.१) that
पार्वतीपार्वती (१.१) Parvati
विषहतेविषहते (वि√सह् कर्तरि लट् (आत्मने.) प्र.पु. एक.) could endure
स्मस्म (makes it past tense)
not
इतरत्इतर (२.१) the other
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
न्मु ग्र क्ष ता रं
त्त व्र दं खं यत्
द्र तं यं प्रि स्य
त्पा र्व ती वि ते स्म ने रत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.