मान्यभक्तिरथवा सखीजनः
सेव्यतामिदमनङ्गदीपनम् ।
इत्युदारमभिधाय शङ्कर-
स्तामपाययत पानमम्बिकाम् ॥

अन्वयः AI अथवा मान्यभक्तिः सखीजनः (अस्ति), इदम् अनङ्गदीपनं सेव्यताम्। इति उदारम् अभिधाय शङ्करः ताम् अम्बिकां पानम् अपाययत।
सञ्जीविनीटीका (मल्लिनाथः) मान्यभक्तिरिति । अथवा सखीजनो मान्या भक्तिर्यस्य स तथोक्तः । सखीजनः स्वीकार्य इत्यर्थः । ततोऽनङ्गदीपनमिदं वक्ष्यमाणं पानं संव्यतामित्युदारं चतुरमभिधाय शंकरस्तामम्बिकां पीयत इति पानं मद्यमपाययत पाययामास । पिबतेर्ण्यन्ताल्लुङि तङ् । पिबतः प्रत्यवसानार्थादणि कर्तुः कर्मत्वम् । पिबतेर्निगरणार्थत्वेऽपि `नपादभ्याo` इति परस्मैपदप्रतिषेधः । ननु मान्यभक्तिरित्यत्र कथं पुंवद्भावः । `अप्रियादिषु` इति निषेधाद्भक्तिशब्दस्य प्रियादिपाठान्नैष दोषो नपुंसकपूर्वपदत्वात् । यथाह वृत्तिकारः- `दृढभक्तिरित्येवमादिषु स्त्रीपूर्वपदस्याविवक्षितत्वात्सिद्धम्` इति । भोजराजस्तु- `भज्यत इति कर्मसाधनस्यैव प्रियादिपाठतया दृढभक्तिरिति न तु भजनं भक्तिरिति भावसाधनस्य । अतोऽत्र स्त्रीपूर्वपदत्वेऽपि न दोषः` इत्याह
Summary AI "Or, if your friends are worthy of your respect, let this love-kindling drink be partaken." Having spoken these noble words, Shankara made Ambika drink the beverage.
सारांश AI इसे देवी की भक्ति या सखियों का आग्रह मानकर ग्रहण करें - ऐसा कहकर शिव ने कामदेव को जगाने वाली वह मदिरा पार्वती को पिलाई।
पदच्छेदः AI
मान्यभक्तिःमान्यभक्ति (१.१) whose devotion is to be respected
अथवाअथवा or
सखीजनःसखीजन (१.१) the group of friends
सेव्यताम्सेव्यताम् (√सेव् भावकर्मणोः लोट् (आत्मने.) प्र.पु. एक.) let it be partaken
इदम्इदम् (२.१) this
अनङ्गदीपनम्अनङ्गदीपन (२.१) love-kindling (drink)
इतिइति thus
उदारम्उदार (२.१) nobly
अभिधायअभिधाय (अभि√धा+ल्यप्) having said
शङ्करःशङ्कर (१.१) Shankara
ताम्तद् (२.१) her
अपाययतअपाययत (√पा +णिच् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) made to drink
पानम्पान (२.१) the drink
अम्बिकाम्अम्बिका (२.१) Ambika
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
मा न्य क्ति वा खी नः
से व्य ता मि ङ्ग दी नम्
त्यु दा भि धा ङ्क
स्ता पा पा म्बि काम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.