Loading data... On slow networks this could take a few minutes.
100%

आर्द्रकेसरसुगन्धि ते मुखं
मत्तरक्तनयनं स्वभावतः ।
अत्र लब्धवसतिर्गुणान्तरं
किं विलासिनि मदः करिष्यति ॥

अन्वयः AI विलासिनि, ते मुखम् आर्द्रकेसरसुगन्धि (अस्ति), स्वभावतः च मत्तरक्तनयनम् (अस्ति)। अत्र लब्धवसतिः मदः किं गुणान्तरं करिष्यति?
सञ्जीविनीटीका (मल्लिनाथः) आर्द्रेति । हे विलासिनि ! अत्र लब्धवसतिः मधु इदं ते स्वभावत आर्द्रकेसरसुगन्धि सरसकेसरसुगन्धि । `गन्धस्येदुत्पूतिससुरभिभ्यः` इत्यनेनेकारः । मुखम् । मत्तं रक्तमेव नयनं यस्य तत् । हे विलासिनि विलसनशीले ! अत्र तन्मुखे लब्धवसतिर्लब्धानुप्रवेशो मधुमद्यं कं गुणान्तरं गुणविशेषं करिष्यति । न कंचिदित्यर्थः । केसरसौगन्ध्यादिगुणानां त्वन्मुखे स्वभावसिद्धत्वान्मधुनः फलं न पश्यामीत्यर्थः । `अर्धर्चाः पुंसि च` (अष्टाध्यायी २.४.३१ ) इति पुंलिङ्गत्वम् । यदाहुः- `मकरन्दस्य मद्यस्य माक्षिकस्य च वाचकः । अर्धर्चादिगणे पाठात्पुंनपुंसकयोर्मधुः ॥` इति
Summary AI "O playful one, your face is fragrant with moist saffron, and your eyes are naturally red as if intoxicated. What other quality can wine, finding a home here, possibly add?"
सारांश AI हे विलासिनी! तुम्हारा मुख पहले ही सुगंधित और नेत्र स्वाभाविक रूप से लाल हैं। ऐसे में मदिरा का मद तुम्हारे सौंदर्य में और क्या नया जोड़ पाएगा?
पदच्छेदः AI
आर्द्रकेसरसुगन्धिआर्द्रकेसरसुगन्धिन् (१.१) fragrant with moist saffron
तेयुष्मद् (६.१) your
मुखम्मुख (१.१) face
मत्तरक्तनयनम्मत्तरक्तनयन (१.१) has eyes red as if intoxicated
स्वभावतःस्वभावतः by nature
अत्रअत्र here
लब्धवसतिःलब्ध (√लभ्+क्त)वसति (१.१) having found a residence
गुणान्तरम्गुणान्तर (२.१) another quality
किम्किम् what
विलासिनिविलासिनी (८.१) O playful one
मदःमद (१.१) intoxication
करिष्यतिकरिष्यति (√कृ कर्तरि लृट् (परस्मै.) प्र.पु. एक.) will do
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
र्द्र के सु न्धि ते मु खं
त्त क्त नं स्व भा तः
त्र ब्ध ति र्गु णा न्त रं
किं वि ला सि नि दः रि ष्य ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.