शक्यमङ्गुलिभिरुद्धृतैरधः
शाखिनां पतितपुष्पपेशलैः ।
पत्रजर्जरशशिप्रभालवै-
रेभिरुत्कचयितुं तवालकान् ॥

अन्वयः AI अधः शाखिनाम् पतितपुष्पपेशलैः, पत्रजर्जरशशिप्रभालवैः, उद्धृतैः एभिः (रश्मिभिः) तव अलकान् अङ्गुलिभिः इव उत्कचयितुम् शक्यम्।
सञ्जीविनीटीका (मल्लिनाथः) शक्यमिति । अङ्गुलिभिर्धृतैरुत्थितैः शाखिनामधः पतितपुष्पवत्पेशलैः कोमलैः । तथा भ्रमकरैरित्यर्थः । एभिः पत्रैर्जर्जरा शकलिता शशिप्रभा चन्दिका तस्या लवैः खण्डैः । तरुतलेषु पत्रान्तराललक्ष्यज्योत्स्नामण्डलैरित्यर्थः । तवालकानुत्कचयितुं बद्‌धुम् । `कच दीप्तिबन्धनयोः` इति धातोस्तुमुन्प्रत्ययः । शक्यम् शक्या इत्यर्थः । शक्यमिति लिङ्गवचनस्य सामान्योपक्रमादित्याद्यनुपदमेवोक्तम्
Summary AI "It is possible to arrange your locks of hair with these moonbeams—which are lifted up from below, are as delicate as fallen flowers from the trees, and are fragmented by leaves—as if with fingers."
सारांश AI वृक्षों के नीचे गिरे फूलों के साथ मिली, पत्तों के बीच से छनकर आई चंद्रमा की किरणों के इन टुकड़ों से तुम्हारे केशों को सजाया जा सकता है।
पदच्छेदः AI
शक्यम्शक्य (√शक्+यत्, १.१) It is possible
अङ्गुलिभिःअङ्गुली (३.३) with fingers
उद्धृतैःउद्धृत (उद्√हृ+क्त, ३.३) lifted up
अधःअधस् below
शाखिनाम्शाखिन् (६.३) of the trees
पतितपुष्पपेशलैःपतितपुष्पपेशल (३.३) as delicate as fallen flowers
पत्रजर्जरशशिप्रभालवैःपत्रजर्जरशशिप्रभालव (३.३) by fragments of moonlight broken by leaves
एभिःइदम् (३.३) by these (rays)
उत्कचयितुम्उत्कचयितुम् (उद्√कच+णिच्+तुमुन्) to arrange
तवयुष्मद् (६.१) your
अलकान्अलक (२.३) locks of hair
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
क्य ङ्गु लि भि रु द्धृ तै धः
शा खि नां ति पु ष्प पे लैः
त्र र्ज शि प्र भा वै
रे भि रु त्क यि तुं वा कान्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.