Loading data... On slow networks this could take a few minutes.
100%

रक्तभावमपहाय चन्द्रमा
जात एष परिशुद्धमण्डलः ।
विक्रिया न खलु कालदोषजा
निर्मलप्रकृतिषु स्थिरोदया ॥

अन्वयः AI एषः चन्द्रमाः रक्तभावम् अपहाय परिशुद्धमण्डलः जातः। खलु निर्मलप्रकृतिषु कालदोषजा विक्रिया स्थिरोदया न भवति।
सञ्जीविनीटीका (मल्लिनाथः) रक्तभावमिति । एष चन्द्रमा रक्तभावं रक्तत्वमुदयरागमपहाय परिशुद्धमण्डलः शुद्धबिम्बो निष्कण्टको जातः । तथाहि । निर्मलप्रकृतिषु स्वच्छभावेषु शुद्धसचिवसंपन्नेषु च कालदोषेण जाता कालदोषजा विक्रिया विकारः स्थिरोदया स्थायिनी न भवति खलु । चन्द्रोऽपि स्वभावनिर्मल इति । यथा कश्चिद्राजा कुतश्चिन्निमित्ताद्विरक्तमण्डलः पश्चात्प्रतिकृतशुद्ध्या स्वस्थमण्डलो भवति तद्वदिति भावः । तत्र प्रथमार्थे समासोक्तिरलङ्कारस्तस्यार्थान्तरन्यासेनाङ्गाङ्गिभावेन सङ्करः
Summary AI This moon, having abandoned its reddish hue, has become perfectly white-orbed. Indeed, in those of pure nature, any change caused by a fault of time is not long-lasting.
सारांश AI चंद्रमा लालिमा त्यागकर अब पूर्णतः निर्मल हो गया है। वास्तव में, समय के प्रभाव से उत्पन्न विकार शुद्ध स्वभाव वालों में अधिक समय तक नहीं टिकते।
पदच्छेदः AI
रक्तभावम्रक्तभाव (२.१) its reddish hue
अपहायअपहाय (अप√हा+ल्यप्) having abandoned
चन्द्रमाःचन्द्रमस् (१.१) the moon
जातःजात (√जन्+क्त, १.१) has become
एषःएतद् (१.१) this
परिशुद्धमण्डलःपरिशुद्धमण्डल (१.१) perfectly white-orbed
विक्रियाविक्रिया (१.१) A change
not
खलुखलु indeed
कालदोषजाकालदोषजा (१.१) caused by a fault of time
निर्मलप्रकृतिषुनिर्मलप्रकृति (७.३) in those of pure nature
स्थिरोदयास्थिर–उदया (१.१) is long-lasting
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
क्त भा हा न्द्र मा
जा रि शु द्ध ण्ड लः
वि क्रि या लु का दो जा
नि र्म प्र कृ ति षु स्थि रो या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.