शुद्धमाविलमवस्थितं चलं
वक्रमार्जवगुणान्वितं च यत् ।
सर्वमेव तमसा समीकृतं
धिङ्महत्त्वमसतां हृतान्तरम् ॥

अन्वयः AI यत् शुद्धम्, आविलम्, अवस्थितम्, चलम्, वक्रम्, आर्जवगुणान्वितम् च, तत् सर्वम् एव तमसा समीकृतम्। असताम् हृतान्तरम् महत्त्वम् धिक्।
सञ्जीविनीटीका (मल्लिनाथः) शुद्धमिति । शुद्धं स्वच्छमाविलं मलिनमवस्थितं स्थावरं चलं जंगमं वक्रं कुटिलमृजोर्भाव आर्जवं तदेव गुणस्तेनान्वितं च यद्वस्तुजातम् । तदिति यत्तदोर्नित्यसंबन्धाल्लभ्यते । तत्सर्वमेव तमसा समीकृतं । दुर्लक्ष्यविशेषं कृतम् । तथाहि । हतमन्तरं विशेषो येन तद्धतान्तरमसतामसाधूनां महत्त्वं वृद्धिं धिक् । धिक्शब्दयोगाद् द्वितीया । समत्वेन परगतिविशेषतिरस्करणमसतां स्वभाव इति सुप्रसिद्धम् । तमसोऽपि तथा महत्त्वं धिगित्यर्थः
Summary AI Whatever is pure or impure, stationary or moving, crooked or endowed with straightness—all is made equal by darkness. Fie upon the greatness of the wicked, which similarly obliterates all distinctions.
सारांश AI अंधकार ने शुद्ध-अशुद्ध, जड़-चेतन और सरल-कुटिल सबको एक समान कर दिया है। दुष्टों की उस महत्ता को धिक्कार है जो सभी भेदों को मिटा देती है।
पदच्छेदः AI
शुद्धम्शुद्ध (√शुध्+क्त, १.१) the pure
आविलम्आविल (१.१) the impure
अवस्थितम्अवस्थित (अव√स्था+क्त, १.१) the stationary
चलम्चल (√चल्+अच्, १.१) the moving
वक्रम्वक्र (१.१) the crooked
आर्जवगुणान्वितम्आर्जवगुणअन्वित (१.१) and that endowed with straightness
and
यत्यद् (१.१) whatever
सर्वम्सर्व (१.१) all
एवएव indeed
तमसातमस् (३.१) by darkness
समीकृतम्समीकृत (सम्√कृ+च्िव+क्त, १.१) is made equal
धिक्धिक् Fie upon
महत्त्वम्महत्त्व (२.१) the greatness
असताम्असत् (६.३) of the wicked
हृतान्तरम्हृतअन्तर (२.१) which obliterates distinctions
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
शु द्ध मा वि स्थि तं लं
क्र मा र्ज गु णा न्वि तं यत्
र्व मे सा मी कृ तं
धि ङ्म त्त्व तां हृ ता न्त रम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.