Loading data... On slow networks this could take a few minutes.
100%

निर्मितेषु पितृषु स्वयंभुवा
या तनुः सुतनु पूर्वमुज्झिता ।
सेयमस्तमुदयं च सेवते
तेन मानिनि ममात्र गौरवम् ॥

अन्वयः AI सुतनु! स्वयंभुवा पितृषु निर्मितेषु या तनुः पूर्वम् उज्झिता, सा इयम् अस्तम् उदयम् च सेवते। मानिनि! तेन अत्र मम गौरवम्।
सञ्जीविनीटीका (मल्लिनाथः) निर्मितेष्विति । हे सुतनु सुगात्रि ! पूर्वं स्वयं भवतीति स्वयंभूश्चतुराननः । `भूवः संज्ञान्तरयोः` इति क्विप् । मयूरव्यंसकादित्वात्समासः । तेन पितॄष्वग्निष्वात्तादिषु निर्मितेषु सत्सु या तनुरुज्झिता सेयं तनुरस्तमस्तमयकालमुदयमुपयकालम् । अव्ययमेतत् । सेव्यते पूज्यते च । संध्यारूपेणेति शेषः । हे मानिनि ! अविमृश्यकारिणीति भावः । तेन ब्रह्मतनुत्वेन हेतुना ममात्र संध्यायां गौरवमादरः । तदेतद्क्तं भविष्यपुराणे- (पितामहः पितॄन्सृष्ट्वा मूर्तिं तामुत्ससर्ज ह । प्रातः सायं समागत्य संध्यारुपेण पूज्यते । एतां संध्यां यतात्मानो ये तु दीर्धामुपासते । दीर्धायुषो भविष्यन्ति नीरुजः पाण्डुनन्दन ।) इति
Summary AI "O beautiful one, that very form (Sandhya) which was previously cast off by Brahma when he created the Pitris, now attends to the sunset and sunrise. Therefore, O proud one, there is dignity for me in this act, not disgrace."
सारांश AI हे सुतनु, पितरों की रचना के बाद ब्रह्मा ने जिस शरीर को त्यागा था, वही यह संध्या है। हे मानिनी, इसीलिए मैं इसका आदर करता हूँ।
पदच्छेदः AI
निर्मितेषुनिर्मित (निर्√मा+क्त, ७.३) having been created
पितृषुपितृ (७.३) the Pitris
स्वयंभुवास्वयंभु (३.१) by Brahma
यायद् (१.१) which
तनुःतनु (१.१) body (Sandhya)
सुतनुसुतनु (८.१) O beautiful-bodied one
पूर्वम्पूर्वम् previously
उज्झिताउज्झित (√उझ्+क्त, १.१) was abandoned
सातद् (१.१) that
इयम्इदम् (१.१) this very one
अस्तम्अस्त (२.१) the setting
उदयम्उदय (२.१) and the rising
and
सेवतेसेवते (√सेव् कर्तरि लट् (आत्मने.) प्र.पु. एक.) attends to
तेनतद् (३.१) Therefore
मानिनिमानिनी (८.१) O proud one
ममअस्मद् (६.१) my
अत्रअत्र in this
गौरवम्गौरव (१.१) dignity
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
नि र्मि ते षु पि तृ षु स्व यं भु वा
या नुः सु नु पू र्व मु ज्झि ता
से स्त मु यं से ते
ते मा नि नि मा त्र गौ वम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.