Loading data... On slow networks this could take a few minutes.
100%

अद्रिराजतनये तपस्विनः
पावनाम्बुविहिताञ्जलिक्रियाः ।
ब्रह्म गूढमभिसंध्यमादृताः
शुद्धये विधिविदो गृणन्त्यमी ॥

अन्वयः AI अद्रिराजतनये! अमी विधिविदः तपस्विनः पावनाम्बुविहिताञ्जलिक्रियाः सन्तः, आदृताः सन्तः, शुद्धये अभिसंध्यम् गूढम् ब्रह्म गृणन्ति।
सञ्जीविनीटीका (मल्लिनाथः) पार्ष्णीति । पार्ष्णयो गृल्फाधोभागास्तैर्मुक्तवसुधास्त्यक्तभूतलाः । पादाग्रस्थिता इत्यर्थः । `गोशृङ्गमात्रमुद्धृत्य मुक्तपार्ष्णः क्षिपेज्जलम्` । इति स्मरणात् । पावनैरम्बुभी रचिताऽञ्जलिक्रियाः । विहितार्घ्यप्रक्षेपा इत्यर्थः । विधिविदः । शास्त्रज्ञा इत्यर्थः । अमी तपस्विन आदरवन्तः । श्रद्दधाना इत्यर्थः । कर्तरि क्तः । अभिसंध्य संध्यामभि । `लक्षणेनाभिप्रतीं आभिमुख्ये` इत्यव्ययीभावः । शुद्ध्यर्थं ब्रह्म गायत्रीं गूढमुपांशु गृणन्ति । `प्रत्यगा तारकोदयात्` इति स्मरणात्
Summary AI 'O daughter of the mountain king! These ascetics, who know the proper rituals, having performed their water offerings, now respectfully chant the profound Gayatri mantra at twilight for their purification.'
सारांश AI हे पार्वती, संध्या के समय विधि जानने वाले ये तपस्वी पवित्र जल से तर्पण कर शुद्धि के लिए गुप्त ब्रह्म-मंत्र का पाठ कर रहे हैं।
पदच्छेदः AI
अद्रिराजतनयेअद्रिराजतनया (८.१) O daughter of the mountain king!
तपस्विनःतपस्विन् (१.३) ascetics,
पावनाम्बुविहिताञ्जलिक्रियाःपावनअम्बुविहित (वि√धा+क्त)अञ्जलिक्रिया (१.३) having performed their water offerings in purifying water,
ब्रह्मब्रह्मन् (२.१) the Brahman (sacred prayer)
गूढम्गूढ (√गुह्+क्त, २.१) profound,
अभिसंध्यम्अभिसंध्यम् at twilight,
आदृताःआदृत (आ√दृ+क्त, १.३) respectfully,
शुद्धयेशुद्धि (४.१) for purification,
विधिविदःविधिविद् (१.३) who know the rituals,
गृणन्तिगृणन्ति (√गृ कर्तरि लट् (परस्मै.) प्र.पु. बहु.) chant.
अमीअदस् (१.३) These
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
द्रि रा ये स्वि नः
पा ना म्बु वि हि ता ञ्ज लि क्रि याः
ब्र ह्म गू भि सं ध्य मा दृ ताः
शु द्ध ये वि धि वि दो गृ न्त्य मी
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.