Loading data... On slow networks this could take a few minutes.
100%

सामभिः सहचराः सहस्रशः
स्यन्दनाश्वहृदयङ्गमस्वरैः ।
भानुमग्निपरिकीर्णतेजसं
संस्तुवन्ति किरणोष्मपायिनः ॥

अन्वयः AI किरणोष्मपायिनः सहचराः सहस्रशः स्यन्दनाश्वहृदयङ्गमस्वरैः सामभिः अग्निपरिकीर्णतेजसम् भानुम् संस्तुवन्ति।
सञ्जीविनीटीका (मल्लिनाथः) सामभिरिति । किरणोष्मपायिनः किरणोष्माणं पिबन्तीति तथोक्ताः । तथाहारा इत्यर्थः । चरन्तीति चराः । पचाद्यच् । सहभूताश्चराः सहचरा बालखिल्यप्रभृतयो महर्षयोऽग्नौ परिकीर्ण तेजोस्य तत्तथोक्तम् ।[अग्निर्वादित्यः सायं प्रसवति] इति श्रुतेः । भानुम् । हृदयं गच्छन्तीति हृदयंगमा मनोरमाः । गमेः सुपीति वक्तव्यात्खच् । स्यन्दनाश्वानां हृदयंगमाः स्वना येषां तैः सामभिः सामवेदैः सहस्रशः संस्तुवन्ति । [सामवेदेनास्तमये गीयते] इति श्रुतेः
Summary AI 'His companions, the Valakhilya sages who subsist on the sun's heat, praise the sun in their thousands with Sama hymns. Their voices are as pleasing as the neighing of his chariot-horses, and they praise the sun whose splendor is now infused with the glow of fire.'
सारांश AI सामवेद गाने वाले सहचर, जो किरणों की ऊष्मा पीते हैं, घोड़ों को प्रिय लगने वाले स्वरों में अग्नि के समान तेजस्वी सूर्य की स्तुति कर रहे हैं।
पदच्छेदः AI
सामभिःसामन् (३.३) with Sama hymns,
सहचराःसहचर (१.३) the companions (Valakhilyas),
सहस्रशःसहस्रशः by the thousands,
स्यन्दनाश्वहृदयङ्गमस्वरैःस्यन्दनअश्वहृदयङ्गमस्वर (३.३) with voices as pleasing as the neighing of the chariot-horses,
भानुम्भानु (२.१) the sun,
अग्निपरिकीर्णतेजसम्अग्निपरिकीर्ण (परि√कॄ+क्त)तेजस् (२.१) whose splendor is infused with fire,
संस्तुवन्तिसंस्तुवन्ति (सम्√स्तु कर्तरि लट् (परस्मै.) प्र.पु. बहु.) praise
किरणोष्मपायिनःकिरणऊष्मन्पायिन् (√पा+णिनि, १.३) who subsist on the sun's heat.
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
सा भिः राः स्र शः
स्य न्द ना श्व हृ ङ्ग स्व रैः
भा नु ग्नि रि की र्ण ते सं
सं स्तु न्ति कि णो ष्म पा यि नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.