Loading data... On slow networks this could take a few minutes.
100%

तस्य जातु मलयस्थलीरते
धूतचन्दनलतः प्रियाक्लमम् ।
आचचाम सलवङ्गकेसर-
श्चाटुकार इव दक्षिणानिलः ॥

अन्वयः AI जातु मलयस्थलीरतेः तस्य प्रियाक्लमम्, धूतचन्दनलतः सलवङ्गकेसरः दक्षिणानिलः चाटुकारः इव आचचाम।
सञ्जीविनीटीका (मल्लिनाथः) तस्येति । जातु कदाचिद् धूतचन्दनलतः कम्पितपटीरशाखः । `समे शखालते` इत्यमरः । सह लवङ्गस्य केसरैः सलवङ्गकेसरः । `लवङ्गदेवकुसुमम्` इत्यमरः । विशेषणाभ्यां शैत्यसौरभ्ये दर्शिते । दक्षिणानिलो मलयमारुतः । चाटुकारश्चाटुप्रयोगः । प्रियवाद इति यावत् । भावे घञ् । स इव मलयस्थलीषु मलयाचलप्रदेशेषु रतिः सुरतं यस्य तथोक्तस्य तत्र रममाणस्येत्यर्थः । तस्य शिवस्य प्रियाक्लमं प्रियायाः सुरतश्रममाचचाम जहार । यथा लोके महानपि श्रम एकेन प्रियवादेनापैति तद्वद्दक्षिणमारुतेनाप्यस्य सकलोऽपि सुरतक्लमो हृत इत्यर्थः
Summary AI Once, while Shiva was enjoying himself in the Malaya region, the southern wind, like a flatterer, removed his beloved's fatigue. This wind, which had shaken the sandalwood creepers, was fragrant with cloves and kesara flowers.
सारांश AI मलय पर्वत की कुंजों में विहार करते समय, चंदन की लताओं को झकझोरने वाली और लौंग के केसर से युक्त दक्षिणी हवा ने चाटुकार के समान पार्वती की थकान दूर कर दी।
पदच्छेदः AI
तस्यतद् (६.१) his
जातुजातु once,
मलयस्थलीरतेःमलयस्थलीरत (√रम्+क्त, ६.१) of him who was dallying in the Malaya region,
धूतचन्दनलतःधूत (√धू+क्त)चन्दनलता (१.१) which had shaken the sandalwood creepers,
प्रियाक्लमम्प्रियाक्लम (२.१) the fatigue of his beloved,
आचचामआचचाम (आ√चम् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) removed
सलवङ्गकेसरःलवङ्गकेसर (१.१) fragrant with cloves and kesara flowers,
चाटुकारःचाटुकार (१.१) a flatterer
इवइव like,
दक्षिणानिलःदक्षिणअनिल (१.१) the southern wind.
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
स्य जा तु स्थ ली ते
धू न्द तः प्रि या क्ल मम्
चा ङ्ग के
श्चा टु का क्षि णा नि लः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.