Loading data... On slow networks this could take a few minutes.
100%

तं यथात्मसदृशं वरं वधू-
रन्वरज्यत वरस्तथैव ताम् ।
सागरादनपगा हि जाह्नवी
सोऽपि तन्मुखरसैकनिर्वृतिः ॥

अन्वयः AI वधूः आत्मसदृशं तं वरं यथा अन्वरज्यत, वरः तथा एव ताम् अन्वरज्यत। हि जाह्नवी सागरात् अनपगा, सः अपि तन्मुखरसैकनिर्वृतिः आसीत्।
सञ्जीविनीटीका (मल्लिनाथः) तामिति । वधूरात्मसदृशं स्वानुरुपं वरं वोढारं प्रति यथान्वरज्यतानुरक्ताभूत् । रञ्जेर्दैवादिकात्कर्तरि लकारः । स्वरितत्वादात्मनेपदम् । तथैव वरोऽपि नवोढोप्यात्मनः सदृक्तामात्मसदृशम् । `त्यदादिषु दृशोऽनालोचने कञ्च` इति चकारात्क्विप्प्रत्ययः । तां वधूं प्रत्यन्वरज्यत वध्वामनुरक्तोऽभूदित्यर्थः । `गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्य` इत्यनेन सकर्मकत्वम् । दृष्टान्तमाह-- जाह्नवी गङ्गा सागरन्नापगच्छतीत्यनपगानपेता हि सोऽपि सागरस्तस्या जाह्नव्या मुखरसेनाग्रसलिलेन वक्त्रास्वादेनैका मुख्या निर्वृतिरानन्दो यस्य स तथोक्तः । अत्र दृष्टान्तालंकारः । लक्षणं तूक्तम् इत्थं समानानुरागकथनाद्रसाभासत्वं निरस्तम् । तदुक्तम्-- (योषितो बहुसक्तिश्चेद्रसाभासः स उच्यते) । कविनाप्युक्तं मालविकायाम्-- (अनातुरोक्तं प्रति विप्रसिद्धता समीपगेनापि रतिर्न मां प्रति । परस्परप्राप्तिनिराशयोर्वा शरीरनाशोऽपि समानरागयोः ।) इति
Summary AI Just as the bride grew fond of her husband who was worthy of her, so did the husband grow fond of her. Indeed, the Ganga never leaves the ocean, and he too found his sole delight in the nectar of her face.
सारांश AI जैसे गंगा सागर के प्रति समर्पित रहती है, वैसे ही पार्वती अपने योग्य वर शिव के प्रति अनुरक्त थीं और शिव भी उनके मुख के माधुर्य में ही परम आनंद पाते थे।
पदच्छेदः AI
तम्तद् (२.१) him
यथायथा Just as
आत्मसदृशम्आत्मन्सदृश (२.१) worthy of herself
वरम्वर (२.१) the husband
वधूःवधू (१.१) the bride
अन्वरज्यतअन्वरज्यत (अनु√रञ्ज् कर्तरि लङ् (आत्मने.) प्र.पु. एक.) grew fond of
वरःवर (१.१) the husband
तथातथा so
एवएव also
ताम्तद् (२.१) her
सागरात्सागर (५.१) from the ocean
अनपगाअनपगा (अन्+अप√गम्+ड, १.१) never leaves
हिहि Indeed
जाह्नवीजाह्नवी (१.१) the Ganga
सःतद् (१.१) he
अपिअपि too
तन्मुखरसैकनिर्वृतिःतत्मुखरसएकनिर्वृति (१.१) found his sole delight in the nectar of her face
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
तं था त्म दृ शं रं धू
न्व ज्य स्त थै ताम्
सा रा गा हि जा ह्न वी
सो ऽपि न्मु सै नि र्वृ तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.