भावसूचितमदृष्टविप्रियं
चाटुमत्क्षणवियोगकातरम् ।
कैश्चिदेव दिवसैस्तदा तयोः
प्रेम रूढमितरेतराश्रयम् ॥

अन्वयः AI तदा कैश्चित् एव दिवसैः तयोः भावसूचितम् अदृष्टविप्रियं चाटुमत् क्षणवियोगकातरम् इतरेतराश्रयं प्रेम रूढम् अभवत्।
सञ्जीविनीटीका (मल्लिनाथः) भावेति । तयोः शिवयोः कैश्चित्कतिभिश्चिदेव दिवसैः । भावसूचितं भावैश्चेष्टाभिः कटाक्षनिक्षेपादिभिः सूचितं ज्ञापितं विप्रियमप्रियाचरणं यत्र तत्तथोक्तम् । चाटूनि प्रियोक्तयो यस्मिन्सन्ति तच्चाटुमत् भूतार्थे मतुप् । क्षणवियोगात्क्षणमात्रविरहादपि कातरं भीरुत्वम् । इतरेतराश्रयमन्योन्यविषयं प्रेम । प्रेमपदाभिलष्याऽङ्कुरावस्था भवतीत्यर्थः । गूढमभूत् । क्रमेणानुरागपदाभिलष्यां प्राप्तमित्यर्थः । तदेतत्सर्वं स्फुटीकृतं भूपालेन- (अङ्कुरपल्लवकलिकाप्रसूनफलभागियम्) इत्यादिना । एका रतिरेव स्थायीभूता रसो भवति तस्याश्चाङ्कुरावस्थाभेदोपपत्तौ सा प्रेमादिपदैरभिलष्यत इत्यर्थः । `सप्रेमभेदरहितं यूनोर्यद्भावबन्धनम् । भावो रती राग एव स्वसंवेद्यदशाप्राप्तयावदाश्रयवृत्तिश्चेदनुरागः` इति मानादिलक्षणं विस्तरभयान्न लिख्यत इत्याकर एव द्रष्टव्यम्
Summary AI Then, in just a few days, their love grew deep and mutual. It was indicated by gestures, saw no displeasure, was full of sweet words, and was anxious at even a moment's separation.
सारांश AI कुछ ही दिनों में उन दोनों के बीच ऐसा गहरा प्रेम हो गया जो भावों से प्रकट होता था, जिसमें कोई अप्रियता नहीं थी और जो क्षण भर के वियोग से भी व्याकुल हो उठता था।
पदच्छेदः AI
भावसूचितम्भावसूचित (√सूच्+क्त, १.१) indicated by gestures
अदृष्टविप्रियम्अदृष्टविप्रिय (१.१) in which no displeasure was seen
चाटुमत्चाटुमत् (१.१) full of sweet words
क्षणवियोगकातरम्क्षणवियोगकातर (१.१) anxious at a moment's separation
कैश्चित्कश्चित् (३.३) by some
एवएव just
दिवसैःदिवस (३.३) days
तदातदा Then
तयोःतद् (६.२) their
प्रेमप्रेमन् (१.१) love
रूढम्रूढ (√रुह्+क्त, १.१) grew deep
इतरेतराश्रयम्इतरेतरआश्रय (१.१) and mutual
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
भा सू चि दृ ष्ट वि प्रि यं
चा टु त्क्ष वि यो का रम्
कै श्चि दे दि सै स्त दा योः
प्रे रू मि रे रा श्र यम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.