Loading data... On slow networks this could take a few minutes.
100%

सस्वजे प्रियमुरोनिपीडिता
प्रार्थितं मुखमनेन नाहरत् ।
मेखलापणयलोलतां गतं
हस्तमस्य शिथिलं रुरोध सा ॥

अन्वयः AI उरोनिपीडिता सती प्रियं सस्वजे। अनेन प्रार्थितं मुखं न अहरत्। सा अस्य मेखलाप्रणयलोलतां गतं हस्तं शिथिलं रुरोध।
सञ्जीविनीटीका (मल्लिनाथः) सस्वज इति । सा पार्वत्युरसोनिपीडनं यस्मिन्कर्मणि यथा स्तात्तथा प्रियं सस्वजे आलिङ्गितवती । न तु निष्पन्दमास्तेत्यर्थः । अनेन स्मरातिशयः सूचितः । तथाऽनेन प्रियेण प्रार्थितं चुम्बनार्थं याचितम् । `याच्ञायामभियाने च प्रार्थना कथ्यते बुधैः` इति केशवः । मुखं नाहरत् नाऽवक्रयत् । मेखलायां प्रणयः परिचयः । `प्रणयः स्यात्परिचये याच्ञायां सुहृदेऽपि च` इति यादवः । तत्र लोलतां चञ्चलतां गतमस्य हस्तं शिथिलं मन्दं रुरोध न्यवारयत् । न तु निर्भरमिति भावः । अत्र सहनप्रतीकाराभ्यां तुल्यलज्जास्मरत्वं व्यज्यते
Summary AI Pressed to his chest, she embraced her beloved. She did not turn away her face when he sought it for a kiss. She loosely restrained his hand when it moved with longing towards her girdle.
सारांश AI अब वे प्रिय का प्रगाढ़ आलिंगन करती थीं, प्रार्थना करने पर मुख नहीं हटाती थीं और करधनी की ओर बढ़ते उनके हाथ को केवल शिथिलता से रोकती थीं।
पदच्छेदः AI
सस्वजेसस्वजे (√स्वञ्ज् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) she embraced
प्रियम्प्रिय (२.१) her beloved
उरोनिपीडिताउरस्निपीडित (नि√पीड्+क्त, १.१) Pressed to his chest
प्रार्थितम्प्रार्थित (प्र√अर्थ्+क्त, २.१) sought
मुखम्मुख (२.१) her face
अनेनइदम् (३.१) by him
not
अहरत्अहरत् (√हृ कर्तरि लङ् (परस्मै.) प्र.पु. एक.) did she turn away
मेखलाप्रणयलोलताम्मेखलाप्रणयलोलता (२.१) longing for her girdle
गतम्गत (√गम्+क्त, २.१) which had gone with
हस्तम्हस्त (२.१) the hand
अस्यइदम् (६.१) his
शिथिलम्शिथिलम् loosely
रुरोधरुरोध (√रुध् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) she restrained
सातद् (१.१) She
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
स्व जे प्रि मु रो नि पी डि ता
प्रा र्थि तं मु ने ना रत्
मे ला लो तां तं
स्त स्य शि थि लं रु रो सा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.