Loading data... On slow networks this could take a few minutes.
100%

पाणिपीडनविधेरनन्तरं
शैलराजदुहितुर्हरं प्रति ।
भावसाध्वसपरिग्रहादभू-
त्कामदोहदमनोहरं वपुः ॥

अन्वयः AI पाणिपीडनविधेः अनन्तरं शैलराजदुहितुः वपुः हरं प्रति भावसाध्वसपरिग्रहात् कामदोहदमनोहरम् अभूत्।
सञ्जीविनीटीका (मल्लिनाथः) पाणीति । पाणिपीडनविधेरनन्तरं पाणिग्रहणानन्तरम् । विधेरिति पञ्चमी षष्ठी च । उभयथाप्यनुशासनसंभवादित्युक्तं प्राक् । शैलराजदुहितुः पार्वत्याः कर्त्र्याः तं हरं प्रति भावसाध्वसपरिग्रहन्मनोहरं चित्ताकर्षकं कामदोहदम् । कामसंवर्धकमित्यर्थः । `तरुगुल्मलतादीनामकाले कुशलैः कृतम् । पुष्पाद्युत्पादकं द्रव्यं दोहदं स्यात्` इति शब्दार्णवे । तच्च तत्सुखं कामदोहदसुखमभूत् । हरस्येति शेषः । नायिकानायकयोरन्योन्यानुभवदर्शनात्सुखमाविर्भवति । तच्च मदनोद्दीपकमिति रसविदां स्थितिः । तथा च हरस्य गौर्या नवोढाया स्वगोचरभावप्रत्युक्तसाध्वसदर्शनात्सुखमाविर्भवति । तच्च मदनाकारं प्रादुर्बभूवेत्यर्थः । तत्र रसभावस्थायिनः कार्यमनुभावः । तदुक्तम्--`रसागच्छन्ति संस्थानं यत्कार्यमुपलक्ष्यते । सोऽनुभावः.......... संस्थासूचकः ।` इति
Summary AI After the wedding ceremony, the body of Parvati, the mountain king's daughter, became charming with the longings of love, which arose from her acceptance of love mixed with apprehension towards Shiva.
सारांश AI विवाह संस्कार के पश्चात, हिमालय की पुत्री पार्वती का शरीर शिव के प्रति लज्जा और कामेच्छा के मिश्रण से अत्यंत मनोहर हो गया।
पदच्छेदः AI
पाणिपीडनविधेःपाणिपीडनविधि (६.१) of the wedding ceremony
अनन्तरम्अनन्तरम् After
शैलराजदुहितुःशैलराजदुहितृ (६.१) of the daughter of the mountain king
हरम्हर (२.१) towards Hara (Shiva)
प्रतिप्रति towards
भावसाध्वसपरिग्रहात्भावसाध्वसपरिग्रह (५.१) from the acceptance of love mixed with apprehension
अभूत्अभूत् (√भू कर्तरि लुङ् (परस्मै.) प्र.पु. एक.) became
कामदोहदमनोहरम्कामदोहदमनोहर (१.१) charming with the longings of love
वपुःवपुस् (१.१) the body
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१० ११
पा णि पी वि धे न्त रं
शै रा दु हि तु र्ह रं प्र ति
भा सा ध्व रि ग्र हा भू
त्का दो नो रं पुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.