Loading data... On slow networks this could take a few minutes.
100%

नवपरिणयलज्जाभूषणां तत्र गौरीं
वदनमपहरन्तीं तत्कृतोत्क्षेपमीशः ।
अपि शयनसखीभ्यो दत्तवाचं कथंचि-
त्प्रमथमुखविकारैर्हासयामास गूढम् ॥

अन्वयः AI तत्र ईशः नवपरिणयलज्जाभूषणां वदनम् अपहरन्तीं तत्कृतोत्क्षेपम् अपि शयनसखीभ्यः दत्तवाचं गौरीं कथंचित् प्रमथमुखविकारैः गूढम् हासयामास।
सञ्जीविनीटीका (मल्लिनाथः) नवेति । तत्र कौतुकागार ईश ईश्वरो नवपरिणयेन नवोद्वाहेन या लज्जा सा भूषणं यस्यास्तामत एव तेनेश्वरेण कृताक्षेपं कृताकर्षणम् । उन्नमितमिति यावत् । वदनमपहरन्तीं साचीकुर्वन्तीम् । अयं लज्जाभावः । अनुभावान्तरमाह-शयनसखीभ्योऽपि शयने सहशायिनीभ्योऽपीत्यर्थः । कथंचित्कृच्छ्रेण दत्तवाचं दतोत्तरां गौरीं प्रमथा भृङ्गिरिटिप्रभृतयो हास्यरसाधिदेवताः पशुपतेः पारिषदाः । यथाह भरतः-`श्रृङ्गारो विष्णुदैवत्यो हास्यः प्रमथदैवतः` इति । `प्रमथाः स्युः पारिषदाः` इत्यमरः । तेषां मुखविकारैर्मुखविकृतचेष्टितैर्गूढप्रकाशं हासयामास । हासाद्युपायैर्लज्जामपाकर्तुं प्रवृत्तं इत्यर्थः । यथाह गोनर्दः-`हासेन मधुना नम्रवचसा लज्जितां प्रियाम् । विलुप्तलज्जां कुर्वित निपुणैश्च सखीजनैः ।` इति
Summary AI There, Lord Shiva secretly made Gauri laugh with the distorted faces of his Pramathas. She was adorned with the shyness of a new bride, turning her face away when he tried to lift it, and was somehow still speaking to her chambermaids.
सारांश AI लज्जावश पार्वती अपना मुख छिपा रही थीं। शिव ने प्रमथगणों की विचित्र आकृतियों और चेष्टाओं के माध्यम से अपनी मौन वधू को मंद-मंद हँसा दिया।
पदच्छेदः AI
नवपरिणयलज्जाभूषणांनवपरिणयलज्जाभूषण (२.१) her who was adorned with the shyness of a new bride
तत्रतत्र There
गौरींगौरी (२.१) Gauri
वदनम्वदन (२.१) her face
अपहरन्तींअपहरन्ती (अप√हृ+शतृ+ङीप्, २.१) who was turning away
तत्कृतोत्क्षेपम्तत्कृत (√कृ+क्त)उत्क्षेप (२.१) when he tried to lift it
ईशःईश (१.१) the Lord (Shiva)
अपिअपि even
शयनसखीभ्यःशयनसखी (५.३) from her chambermaids
दत्तवाचम्दत्त (√दा+क्त)वाच् (२.१) who was speaking
कथंचित्कथंचित् somehow
प्रमथमुखविकारैःप्रमथमुखविकार (३.३) with the distorted faces of the Pramathas
हासयामासहासयामास (√हस् +णिच् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) made to laugh
गूढम्गूढ (२.१) secretly
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
रि ज्जा भू णां त्र गौ रीं
न्तीं त्कृ तो त्क्षे मी शः
पि खी भ्यो त्त वा चं थं चि
त्प्र मु वि का रै र्हा या मा गू ढम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.