रोमोद्गमः प्रादुरभूदुमायाः
स्विन्नाङ्गुलिः पुङ्गवकेतुरासीत् ।
वृत्तिस्तयोः पाणिसमागमेन
समं विभक्तेव मनोभवस्य ॥

अन्वयः AI उमायाः रोमोद्गमः प्रादुः अभूत्। पुङ्गवकेतुः स्विन्नाङ्गुलिः आसीत्। तयोः पाणिसमागमेन मनोभवस्य वृत्तिः समम् विभक्ता इव (आसीत्)।
सञ्जीविनीटीका (मल्लिनाथः) रोमोद्गम इति । उमाया रोमोद्गमो रोमाञ्चः प्रादुरभूत् । पुमान्गौः पुंगवो वृषभः । `गोरतद्धितलुकि` (अष्टाध्यायी ५.४.९२ ) इति टच् । स केतुश्चिह्नं यस्य स पुंगवकेतुः शिवः स्विन्नाङ्गुलिरासीत् । अत्रोत्प्रेक्षते-पाणिसमागमेन पाण्योः संस्पर्शेन कर्त्रा । तयोर्वधूवरयोर्मनोभवस्य वृत्तिरवस्थितिः समं विभक्तेव । समीकृतेवेत्यर्थः । प्राक्सिद्धस्याप्यनुरागसाम्यस्य संप्रति तत्कार्यदर्शनात्पाणिसंस्पर्शकृतत्वमुत्प्रेक्षते । ननु कन्या तु प्रथमसंगमे स्विन्नकरचरणा भवति पुमांस्तु रोमाञ्चितो भवतीति बात्स्यायनेन विपरीतमुक्तमिति चेन्नैष दोषः । एभिरनयोर्भावं परीक्षेतेति वाक्यशेष एभिरिति बहुवचनेन स्वेदरोमाञ्चग्रहणस्य सकलसात्त्विकोपलक्षणत्वावगमेनानियमावधारणात् । अतएव रघुवंशेऽन्यथाभिधानात्स्वोक्तिविरोध इत्यपास्तम् । तदेतद्रघुवंशसंजीविन्यां (७/२२) सुव्यक्तमवोचम् । सात्त्विकास्तु `स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवर्ण्यवेपथू । अश्रुवैस्वर्यमित्यष्टौ सात्त्विकाः परिकीर्तिताः ।` इति
Summary AI On Uma, horripilation appeared. The bull-bannered one (Shiva) had perspiring fingers. Through the union of their hands, the influence of the mind-born Kama seemed to be equally divided between them.
सारांश AI पार्वती के शरीर में रोमांच हो आया और शिव की उंगलियां पसीने से भीग गईं। कामदेव का प्रभाव दोनों में समान रूप से बँटा हुआ दिखाई दिया।
पदच्छेदः AI
रोमोद्गमःरोमन्उद्गम (१.१) Horripilation
प्रादुरभूत्प्रादुरभूत् (प्रादुस्√भू कर्तरि लुङ् (परस्मै.) प्र.पु. एक.) appeared
उमायाःउमा (६.१) on Uma
स्विन्नाङ्गुलिःस्विन्न (√स्विद्+क्त)अङ्गुलि (१.१) one with perspiring fingers
पुङ्गवकेतुःपुङ्गवकेतु (१.१) the bull-bannered one (Shiva)
आसीत्आसीत् (√अस् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) was
वृत्तिःवृत्ति (१.१) The state/influence
तयोःतद् (६.२) of the two
पाणिसमागमेनपाणिसमागम (३.१) by the union of hands
समम्समम् equally
विभक्ताविभक्त (वि√भज्+क्त, १.१) divided
इवइव as if
मनोभवस्यमनस्भव (६.१) of the mind-born one (Kama)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
रो मो द्ग मः प्रा दु भू दु मा याः
स्वि न्ना ङ्गु लिः पु ङ्ग के तु रा सीत्
वृ त्ति स्त योः पा णि मा मे
मं वि क्ते नो स्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.