Loading data... On slow networks this could take a few minutes.
100%

तस्याः करं शैलगुरूपनीतं
जग्राह ताम्राङ्गुलिमष्टमूर्त्तिः ।
उमातनौ गूढतनोः स्मरस्य
तच्छङ्किनः पूर्वमिव प्ररोहम् ॥

अन्वयः AI अष्टमूर्त्तिः शैलगुरूपनीतम् ताम्राङ्गुलिम् तस्याः करम् जग्राह, (यथा) उमातनौ गूढतनोः तत्-शङ्किनः स्मरस्य पूर्वम् प्ररोहम् इव।
सञ्जीविनीटीका (मल्लिनाथः) तस्या इति । अष्टमूर्तिः शिवः । तस्मादीश्वराच्छङ्कत इति तच्छङ्किनः । तद्भीतस्येत्यर्थः । अतएवोमातनावुमाशरीरे गूढतनोर्गुप्तशरीरस्य स्मरस्य पूर्व प्ररोहमिव प्रथमाङ्कुरमिव स्थितं शैलगुरूपनीतं शैलगुरुणा हिमवतोपनीतं प्रापितम् । अथवा शैलगुरुणा हिमवत्पुरोधसोपनीतं ताम्राङ्गुलिं रक्ताङ्गुलिं तस्याः पार्वत्याः करं जग्राह
Summary AI The eight-formed Shiva took her red-fingered hand, offered by her father, the great mountain, as if it were the first sprout of the bodiless Kama, who, suspecting this union, was secretly hiding in Uma's body.
सारांश AI हिमालय द्वारा सौंपी गई पार्वती के लाल उंगलियों वाले हाथ को शिव ने थाम लिया; वह हाथ पार्वती के शरीर में छिपे कामदेव के अंकुर जैसा प्रतीत हुआ।
पदच्छेदः AI
तस्याःतद् (६.१) her
करम्कर (२.१) hand
शैलगुरूपनीतंशैलगुरुउपनीत (उप√नी+क्त, २.१) offered by the great mountain
जग्राहजग्राह (√ग्रह् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) took
ताम्राङ्गुलिम्ताम्रअङ्गुलि (२.१) red-fingered
अष्टमूर्त्तिःअष्टन्मूर्ति (१.१) the eight-formed one (Shiva)
उमातनौउमातनु (७.१) in Uma's body
गूढतनोःगूढ (√गुह्+क्त)तनु (६.१) of the one with a hidden body
स्मरस्यस्मर (६.१) of Kama
तच्छङ्किनःतद्शङ्किन् (६.१) of one who suspects that
पूर्वम्पूर्वम् first
इवइव as if
प्ररोहम्प्ररोह (प्र√रुह्, २.१) the sprout
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
स्याः रं शै गु रू नी तं
ग्रा ता म्रा ङ्गु लि ष्ट मू र्त्तिः
मा नौ गू नोः स्म स्य
च्छ ङ्कि नः पू र्व मि प्र रो हम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.