Loading data... On slow networks this could take a few minutes.
100%

तयोः समापत्तिषु कातराणि
किंचिद्व्यवस्थापितसंहृतानि ।
ह्रीयन्त्रणां तत्क्षणमन्वभूव-
न्नन्योन्यलोलानि विलोचनानि ॥

अन्वयः AI तयोः समापत्तिषु कातराणि, किञ्चित् व्यवस्थापितसंहृतानि, अन्योन्यलोलानि विलोचनानि तत्क्षणम् ह्रीयन्त्रणाम् अन्वभूवन्।
सञ्जीविनीटीका (मल्लिनाथः) तयोरिति । तयोर्वधूवरयोः समापत्तिषु यदृच्छया संगतिषु कातराणि चकितानि । `अधीरे कातरः` इत्यमरः (अमरकोशः ३.१.२६ ) । द्रष्टुमसमर्थांनीति भावः । किंचिदीषद् व्यवस्थापितानि स्थिरीकृतानि पश्चात्संहृतानि निवर्तितानि चेति व्यवस्थापितसंहृतानि । `पूर्वकाले-` त्यादिना तत्पुरुषः । अन्योन्यस्मिंल्लोलानि सतृष्णानि । `लोलश्चलसतृष्णयोः` इत्यमरः (अमरकोशः ३.१.२६ ) । विलोचनानि दृष्टयस्तत्क्षणं तस्मिन्क्षणे ह्रीयन्त्रणां ह्रिया निमित्तेन संकोचमन्वभूवन्
Summary AI At that moment, as their gazes met, their eyes—timid, flickering towards each other, slightly fixed and then withdrawn—experienced the constraint of shyness.
सारांश AI एक-दूसरे को देखने के लिए लालायित उन दोनों के नेत्र लज्जा के कारण कभी मिलते तो कभी झिझक कर हट जाते थे।
पदच्छेदः AI
तयोःतद् (६.२) Of the two
समापत्तिषुसमापत्ति (सम्+आ√पत्, ७.३) in the meetings
कातराणिकातर (१.३) timid
किञ्चित्किञ्चित् somewhat
व्यवस्थापितसंहृतानिव्यवस्थापित (वि+अव√स्था+णिच्+क्त)संहृत (सम्√हृ+क्त, १.३) fixed and withdrawn
ह्रीयन्त्रणाम्ह्री–यन्त्रणा (२.१) the constraint of shyness
तत्क्षणम्तत्क्षणम् at that moment
अन्वभूवन्अन्वभूवन् (अनु√भू कर्तरि लङ् (परस्मै.) प्र.पु. बहु.) experienced
अन्योन्यलोलानिअन्योन्यलोल (१.३) flickering towards each other
विलोचनानिविलोचन (१.३) the eyes
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
योः मा त्ति षु का रा णि
किं चि द्व्य स्था पि सं हृ ता नि
ह्री न्त्र णां त्क्ष न्व भू
न्न न्यो न्य लो ला नि वि लो ना नि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.