तत्रेश्वरो विष्टरभाग्यथाव-
त्सरत्नमर्घ्यं मधुमच्च गव्यम् ।
नवे दुकूले च नगोपनीतं
प्रत्यग्रहीत्सर्वममन्त्रवर्जम् ॥

अन्वयः AI तत्र ईश्वरः विष्टरभाक् यथावत् नगेन उपनीतम् सरत्नम् अर्घ्यम्, मधुमत् गव्यम् च, नवे दुकूले च, सर्वम् अमन्त्रवर्जम् प्रत्यग्रहीत्।
सञ्जीविनीटीका (मल्लिनाथः) तत्रेति । तत्र हिमवदालय ईश्वरो विष्टरभागासनगतः । उपविष्ट इत्यर्थः । यथावद्यथार्हम् । विधिवदित्यर्थः । सरत्नंरत्नसहितमर्ध्यमर्घार्यं जलम् । मधु क्षौद्रमस्मिन्नस्तीति मधुमत् । गवि भवं गव्यं दधि च । मधुपर्कमित्यर्थः । `दधिमधुनी सर्पिर्वा मध्वलाभे` इत्याश्वलायनगृह्यसूत्रात् नवे दुकूले चेति सर्वं नगोपनीतं हिमवदानीतमर्घ्यादिकं मन्त्रान्वर्जयित्वा मन्त्रवर्जम् । ततो नञ्समासः । अमन्त्रवर्जम् । मन्त्रान्न वर्जयित्वेत्यर्थः । `द्वितीयायां च` (अष्टाध्यायी ३.४.५३ ) इति णमुल्प्रत्यय इत्याह न्यासकारः `अनुदात्तं पदमेकवर्जम्` (अष्टाध्यायी ६.१.१५८ ) इत्यत्र । प्रत्यग्रहीत्स्वीकृतवान्
Summary AI There, Lord Shiva, having taken his seat, duly accepted everything offered by the Mountain (Himalaya)—the respectful offering (arghya) with jewels, the madhuparka, and two new silk garments—all without the recitation of mantras.
सारांश AI शिव ने हिमालय द्वारा दिए गए आसन, रत्न, अर्घ्य, मधुपर्क और नवीन वस्त्रों को वेदोक्त विधि और मंत्रों के साथ स्वीकार किया।
पदच्छेदः AI
तत्रतत्र There
ईश्वरःईश्वर (१.१) the Lord (Shiva)
विष्टरभाक्विष्टरविष्टरभाज् (√भज्, १.१) taking a seat
यथावत्यथावत् duly
सरत्नम्रत्न (२.१) with jewels
अर्घ्यम्अर्घ्य (२.१) the respectful offering
मधुमत्मधुमत् (२.१) containing honey
and
गव्यम्गव्य (२.१) the product of a cow (madhuparka)
नवेनव (२.२) two new
दुकूलेदुकूल (२.२) silk garments
and
नगोपनीतम्नगउपनीत (उप√नी+क्त, २.१) offered by the mountain
प्रत्यग्रहीत्प्रत्यग्रहीत् (प्रति√ग्रह् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) accepted
सर्वम्सर्व (२.१) everything
अमन्त्रवर्जम्मन्त्रवर्जम् (२.१) without mantras
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
त्रे श्व रो वि ष्ट भा ग्य था
त्स त्न र्घ्यं धु च्च व्यम्
वे दु कू ले गो नी तं
प्र त्य ग्र ही त्स र्व न्त्र र्जम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.