Loading data... On slow networks this could take a few minutes.
100%

तमन्वगिन्द्रप्रमुखाश्च देवाः
सप्तर्षिपूर्वाः परमर्षयश्च ।
गणाश्च गिर्यालयमभ्यगच्छ-
न्प्रशस्तमारम्भमिवोत्तमार्थाः ॥

अन्वयः AI इन्द्रप्रमुखाः देवाः च, सप्तर्षिपूर्वाः परमर्षयः च, गणाः च तम् अन्वक् गिरि-आलयम् अभ्यगच्छन्, उत्तमार्थाः प्रशस्तम् आरम्भम् इव।
सञ्जीविनीटीका (मल्लिनाथः) तमिति । तमीश्वरमन्वगनुपदम् । अव्ययमेतत् । `अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्` इत्यमरः (अमरकोशः ३.१.७७ ) । इन्द्रप्रमुखा देवाश्च सप्तर्षयः पूर्वे येषां ते सप्तर्षिपूर्वाः । `न बहुव्रीहो` इति सर्वनामसंज्ञाप्रतिषेधः । परमर्षयः सनकादिमहर्षयश्च । `सन्महत्परमेत्तमोत्कृष्टाः पूज्यमानैः` इति तत्पुरुषः । गणाः प्रमथाश्चोत्तमार्था महाप्रयोजनाः आचाराः प्रशस्तं प्रकृष्टम् । अमोधमित्यर्थः । आरभ्यत इत्यारम्भ उपायस्तमिव गिर्यालयं हिमवन्मन्दिरमभ्यगच्छन् । प्राविशन्नित्यर्थः
Summary AI The gods led by Indra, the great sages preceded by the Saptarshis, and Shiva's attendants all followed him and entered the mountain's abode, just as those with a noble purpose follow a laudable beginning.
सारांश AI इंद्र आदि देवताओं, सप्तऋषियों और गणों ने शिव का वैसे ही अनुसरण किया जैसे महान कार्यों के पीछे उनकी सिद्धियाँ चलती हैं।
पदच्छेदः AI
तम्तद् (२.१) him
अन्वक्अन्वक् following
इन्द्रप्रमुखाःइन्द्रप्रमुख (१.३) led by Indra
and
देवाःदेव (१.३) the gods
सप्तर्षिपूर्वाःसप्तर्षिपूर्व (१.३) preceded by the Saptarshis
परमर्षयःपरमऋषि (१.३) the great sages
and
गणाःगण (१.३) the Ganas (attendants)
and
गिर्यालयम्गिरिआलय (२.१) the mountain's abode
अभ्यगच्छन्अभ्यगच्छन् (अभि√गम् कर्तरि लङ् (परस्मै.) प्र.पु. बहु.) approached
प्रशस्तम्प्रशस्त (प्र√शंस+क्त, २.१) a laudable
आरम्भम्आरम्भ (आ√रभ्, २.१) beginning
इवइव like
उत्तमार्थाःउत्तमअर्थ (१.३) those with a noble purpose
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
न्व गि न्द्र प्र मु खा श्च दे वाः
प्त र्षि पू र्वाः र्ष श्च
णा श्च गि र्या भ्य च्छ
न्प्र स्त मा म्भ मि वो त्त मा र्थाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.