Loading data... On slow networks this could take a few minutes.
100%

परस्परेण स्पृहणीयशोभं
न चेदिदं द्वन्द्वमयोजयिष्यत् ।
अस्मिन्द्वये रूपविधानयत्नः
पत्युः प्रजानां विफलोऽभविश्यत् ॥

अन्वयः AI प्रजापतिः परस्परेण स्पृहणीय-शोभम् इदम् द्वन्द्वम् न अयोजयिष्यत् चेत्, अस्मिन् द्वये प्रजानाम् पत्युः रूप-विधान-यत्नः विफलः अभविष्यत्।
सञ्जीविनीटीका (मल्लिनाथः) परस्परेणेति । स्पृहणीयशोभं सर्वैराशास्यमानसौन्दर्यंमिदं द्वन्द्वं मिथुनम् । `द्वन्द्वं रहस्ये-` ति निपातः । परस्परेण नायोजयिष्यद्यदि प्रजानां पत्युर्विधातुरस्मिन्द्वये द्वन्द्वे रुपविधाने सौन्दर्यनिर्माणे यत्नः प्रयासो विफलोऽभविष्यद्भवेत् । एतदनुरुपस्त्रीपुंसान्तराभावादिति भावः । `लिङ्निमित्ते लृङक्रियातिपत्तौ` इति लृङ्
Summary AI "If the Creator had not united this pair, whose beauty is mutually desirable, then his entire effort in fashioning the beauty in these two would have been fruitless."
सारांश AI यदि विधाता इस सुंदर जोड़ी को एक न करता, तो इन दोनों के रूप को गढ़ने में किया गया उनका सारा परिश्रम व्यर्थ ही जाता।
पदच्छेदः AI
परस्परेणपरस्पर (३.१) mutually
स्पृहणीय-शोभम्स्पृहणीयशोभ (२.१) whose beauty is desirable
not
चेत्चेत् if
इदम्इदम् (२.१) this
द्वन्द्वम्द्वन्द्व (२.१) pair
अयोजयिष्यत्अयोजयिष्यत् (√युज् +णिच् कर्तरि लृङ् (परस्मै.) प्र.पु. एक.) had united
अस्मिन्इदम् (७.१) in this
द्वयेद्वय (७.१) pair
रूप-विधान-यत्नःरूपविधानयत्न (१.१) the effort in fashioning beauty
पत्युःपति (६.१) of the lord
प्रजानाम्प्रजा (६.३) of creatures (the Creator)
विफलःविफल (१.१) fruitless
अभविष्यत्अभविष्यत् (√भू कर्तरि लृङ् (परस्मै.) प्र.पु. एक.) would have been
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
स्प रे स्पृ णी शो भं
चे दि दं द्व न्द्व यो यि ष्यत्
स्मि न्द्व ये रू वि धा त्नः
त्युः प्र जा नां वि लो ऽभ वि श्यत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.