स्थाने तपो दुश्चरमेतदर्थ-
मपर्णया पेलवयापि तप्तम् ।
या दास्यमप्यस्य लभेत नारी
सा स्यात्कृतार्था किमुताङ्कशय्याम् ॥

अन्वयः AI पेलवया अपि अपर्णया एतत्-अर्थम् दुश्चरम् तपः तप्तम् इति स्थाने। या नारी अस्य दास्यम् अपि लभेत, सा कृत-अर्था स्यात्, अङ्क-शय्याम् लभेत इति किम् उत?
सञ्जीविनीटीका (मल्लिनाथः) स्थान इति । पेलवया कोमलयाप्यपर्णया पार्वत्या तस्मै शिवायैतदर्थम् । `अर्थेन सह नित्यसमासः सर्वलिङ्गता च` इति विशेष्यनिघ्नत्वम् । दुश्चरं तपस्तप्तं स्थाने युक्तम् । कुतः ? या नार्यस्येश्वरस्य दास्यं दासीत्वमपि लभेत, सा कृतार्था स्यात् । या अङ्क एव शय्या तामङ्कशय्यां लभेत सा किमुत । कृतार्थेति किमु वक्तव्यमित्यर्थः ?
Summary AI "It is fitting that even the delicate Aparna (Parvati) performed severe penance for him. Any woman who could attain even servitude to him would be fulfilled; what then to say of one who attains a place on his lap?"
सारांश AI सुकोमल पार्वती का कठिन तप सफल हुआ। जो स्त्री इनका दासत्व भी पा ले वह धन्य है, फिर इनकी पत्नी बनने वाली के सौभाग्य का क्या कहना!
पदच्छेदः AI
स्थानेस्थान (७.१) it is fitting
तपःतपस् (१.१) penance
दुश्चरम्दुश्चर (१.१) severe
एतत्-अर्थम्एतद्अर्थ (२.१) for this purpose
अपर्णयाअपर्णा (३.१) by Aparna (Parvati)
पेलवयापेलव (३.१) delicate
अपिअपि even
तप्तम्तप्त (√तप्+क्त, १.१) was performed
यायद् (१.१) which
दास्यम्दास्य (२.१) servitude
अपिअपि even
अस्यइदम् (६.१) of him
लभेतलभेत (√लभ् कर्तरि विधिलिङ् (आत्मने.) प्र.पु. एक.) could attain
नारीनारी (१.१) woman
सातद् (१.१) she
स्यात्स्यात् (√अस् कर्तरि विधिलिङ् (परस्मै.) प्र.पु. एक.) would be
कृत-अर्थाकृतअर्थ (१.१) fulfilled
किम्किम् what
उतउत then to say
अङ्क-शय्याम्अङ्कशय्या (२.१) of a place on his lap
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
स्था ने पो दु श्च मे र्थ
र्ण या पे या पि प्तम्
या दा स्य प्य स्य भे ना री
सा स्या त्कृ ता र्था कि मु ता ङ्क य्याम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.