Loading data... On slow networks this could take a few minutes.
100%

तमेकदृश्यं नयनैः पिबन्त्यो
नार्यो न जग्मुर्विषयान्तराणि ।
तथा हि शेषेन्द्रियवृत्तिरासां
सर्वात्मना चक्षुरिव प्रविष्टा ॥

अन्वयः AI नार्यः नयनैः एक-दृश्यम् तम् पिबन्त्यः सत्यः विषय-अन्तराणि न जग्मुः। हि तथा आसाम् शेष-इन्द्रिय-वृत्तिः सर्व-आत्मना चक्षुः प्रविष्टा इव आसीत्।
सञ्जीविनीटीका (मल्लिनाथः) तमिति । एक एव दृश्यो दर्शनीयस्तमेकदृश्यं तमीश्वरं नयनैः पिबन्त्यः । अतितृष्णया पश्यन्त इत्यर्थः । `ताः शंकरं दृष्टिभिरापिबन्त्यः` इति वा पाठः । नार्यो विषान्तराणि ततोऽन्यान्विषयान् । शब्दादीनित्यर्थः । न जग्मुः । न विदुरित्यर्थः । तथाहि । आसां नारीणां शेषेन्द्रियवृत्तिः श्रोत्रादिप्रवृत्तिः सर्वात्मना स्वरूपकार्त्स्न्येन चक्षुः प्रिविष्टेव । श्रोत्रादीनीन्द्रियाणि स्वातन्त्र्येण ग्रहणाशक्तेश्चक्षुरेव प्रविश्य कौतुकात्स्वयमप्येनमुपलभन्ते किमु । अन्यथा स्वस्वविषयाधिगमः किं न स्यादिति भावः ।
Summary AI The women, drinking him in with their eyes as the sole object of sight, did not perceive any other sensory objects. For it was as if the functions of all their other senses had completely entered their eyes.
सारांश AI शिव को एकटक देखती स्त्रियों की अन्य इंद्रियों की वृत्तियाँ जैसे उनकी आँखों में ही समा गई थीं; वे केवल नेत्रों से ही उस सौंदर्य का पान कर रही थीं।
पदच्छेदः AI
तम्तद् (२.१) him
एक-दृश्यम्एकदृश्य (२.१) the sole object of sight
नयनैःनयन (३.३) with their eyes
पिबन्त्यःपिबन्ती (√पा+शतृ, १.३) drinking
नार्यःनारी (१.३) the women
not
जग्मुःजग्मुः (√गम् कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) did perceive
विषय-अन्तराणिविषयअन्तर (२.३) any other sensory objects
तथातथा for
हिहि indeed
शेष-इन्द्रिय-वृत्तिःशेषइन्द्रियवृत्ति (१.१) the function of the other senses
आसाम्इदम् (६.३) of them
सर्व-आत्मनासर्वआत्मन् (३.१) completely
चक्षुःचक्षुस् (२.१) the eye
इवइव as if
प्रविष्टाप्रविष्टा (प्र√विश्+क्त, १.१) had entered
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
मे दृ श्यं नैः पि न्त्यो
ना र्यो ग्मु र्वि या न्त रा णि
था हि शे षे न्द्रि वृ त्ति रा सां
र्वा त्म ना क्षु रि प्र वि ष्टा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.