अर्धाचिता सत्वरमुत्थितायाः
पदे पदे दुर्निमिते गलन्ती ।
कस्याश्चिदासीद्रशना तदानी-
मङ्गुष्ठमूलार्पितसूत्रशेषा ॥

अन्वयः AI तदानीम् सत्वरम् उत्थितायाः कस्याश्चित् अर्ध-अचिता रशना दुर्निमिते पदे पदे गलन्ती अङ्गुष्ठ-मूल-अर्पित-सूत्र-शेषा आसीत्।
सञ्जीविनीटीका (मल्लिनाथः) अर्धाचितेति । सत्वरं सवेगमुत्थितायाः कस्याश्चिदर्धाचिता मणिभिर्गुम्फितार्धाचिता दुर्निमिते संभ्रमाद्दुःखेन निक्षिप्ते । `डुमिञ्प्रक्षेपणे` इति धातोः कर्मणि क्तः । पदे पदे प्रतिपदम् । वीप्सायां द्विर्भावः । गलन्ती गलद्रत्ना सती रशना मेखला तदानीं तस्मिन्नवसरेऽङ्गुष्ठमूलऽर्पितं लगितं सूत्रमेव शेषो यस्याः सासीत्
Summary AI At that time, the girdle of a certain woman who had risen in a hurry, being only half-strung, slipped at every unsteady step, until only the thread held by her big toe remained.
सारांश AI जल्दी में उठी किसी स्त्री की करधनी टूटकर गिरने लगी और पैरों में फंसने लगी, अंत में उस करधनी का केवल धागा ही उसके अंगूठे में लिपटा रह गया।
पदच्छेदः AI
अर्ध-अचिताअर्धअचित (१.१) half-strung
सत्वरम्सत्वरम् in a hurry
उत्थितायाःउत्थिता (उद्√स्था+क्त, ६.१) of one who had risen
पदेपद (७.१) at step
पदेपद (७.१) at step
दुर्निमितेदुर्निमित (७.१) unsteady
गलन्तीगलन्ती (√गल्+शतृ, १.१) slipping
कस्याश्चित्किम् (६.१) of a certain woman
आसीत्आसीत् (√अस् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) was
रशनारशना (१.१) the girdle
तदानीम्तदानीम् at that time
अङ्गुष्ठ-मूल-अर्पित-सूत्र-शेषाअङ्गुष्ठमूलअर्पितसूत्रशेष (१.१) with only the thread held by her big toe remaining
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
र्धा चि ता त्व मु त्थि ता याः
दे दे दु र्नि मि ते न्ती
स्या श्चि दा सी द्र ना दा नी
ङ्गु ष्ठ मू ला र्पि सू त्र शे षा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.