Loading data... On slow networks this could take a few minutes.
100%

मैत्रे मुहूर्ते शशलाञ्छनेन
योगं गतासूत्तरफल्गुनीषु ।
तस्याः शरीरे प्रतिकर्म चक्रु-
र्बन्धुस्त्रियो याः पतिपुत्रवत्यः ॥

अन्वयः AI मैत्रे मुहूर्ते, शशलाञ्छनेन योगम् गतासु उत्तरफल्गुनीषु (सतीषु), याः पतिपुत्रवत्यः बन्धुस्त्रियः (सन्ति), (ताः) तस्याः शरीरे प्रतिकर्म चक्रुः ।
सञ्जीविनीटीका (मल्लिनाथः) मैत्र इति । अथ मैत्रे मित्रदैवत्ये मुहूर्ते । उदयमुहूर्तात्तृतीयमुहूर्त इत्यर्थः । `आर्द्रः सार्द्रस्तथा मैत्रः शुभो वासव एव च` । इति वृहस्पतिस्मरणात् । उत्तरफल्गुनीषु फल्गुनीनक्षत्रे । `फल्गुनी प्रोष्ठपदानां च नक्षत्रे` इत्येकस्मिन्नपि बहृवचनम् । शशलाञ्छनेन चन्द्रेण योगं गतासु सतीषु तस्याः पार्वत्याः शरीरे बन्धुस्त्रियः प्रतिकर्म प्रसाधनम् । `प्रतिकर्म प्रसाधनम्` इत्यमरः (अमरकोशः २.६.१०० ) । चक्रुः । कीदृश्यः । याः पतिपुत्रवत्यः । जीवद्भर्तृका जीवदपत्याश्चेत्यर्थः
Summary AI At the Maitra muhurta, when the moon was in conjunction with the Uttara Phalguni constellation, the female relatives who were blessed with husbands and sons performed the ceremonial decoration on her body.
सारांश AI चन्द्रमा और उत्तर-फाल्गुनी नक्षत्र के योग वाले शुभ मैत्र मुहूर्त में, सौभाग्यवती स्त्रियों ने पार्वती के शरीर पर उबटन आदि मांगलिक संस्कार किए।
पदच्छेदः AI
मैत्रेमैत्र (७.१) at the Maitra
मुहूर्तेमुहूर्त (७.१) muhurta (auspicious time)
शशलाञ्छनेनशशलाञ्छन (३.१) with the moon
योगम्योग (२.१) conjunction
गतासुगत (√गम्+क्त, ७.३) having gone into
उत्तरफल्गुनीषुउत्तरफल्गुनी (७.३) the Uttara Phalguni constellation
तस्याःतद् (६.१) on her
शरीरेशरीर (७.१) body
प्रतिकर्मप्रतिकर्मन् (२.१) the ceremonial decoration
चक्रुःचक्रुः (√कृ कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) performed
बन्धुस्त्रियःबन्धुस्त्री (१.३) the female relatives
याःयद् (१.३) who
पतिपुत्रवत्यःपतिपुत्रवत् (१.३) were blessed with husbands and sons
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
मै त्रे मु हू र्ते ला ञ्छ ने
यो गं ता सू त्त ल्गु नी षु
स्याः री रे प्र ति र्म क्रु
र्ब न्धु स्त्रि यो याः ति पु त्र त्यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.