Loading data... On slow networks this could take a few minutes.
100%

अङ्काद्ययावङ्कमुदीरिताशीः
सा मण्डनान्मण्डनमन्वभुङ्क्त ।
संबन्धिभिन्नोऽपि गिरेः कुलस्य
स्नेहस्तदेकायतनं जगाम ॥

अन्वयः AI उदीरिताशीः सा अङ्कात् अङ्कम् ययौ, मण्डनात् मण्डनम् अन्वभुङ्क्त । गिरेः कुलस्य संबन्धिभिन्नः अपि स्नेहः तत्-एक-आयतनम् जगाम ।
सञ्जीविनीटीका (मल्लिनाथः) अङ्कादिति । सा पार्वत्युदीरिताशीः प्रयुक्ताशीर्वादा सत्यङ्कादङ्कमुत्सङ्ग ययौ । मण्डनान्मण्डनान्तरमन्यन्मण्डनमन्वभुङ्क्त । तदा सर्वे बन्धवः प्रत्येकमेव तामङ्कमारोप्य मण्डनं प्रायच्छन्नित्यर्थः । तच्च स्नेहनिबन्धनमेवेत्याह-संबन्धिभिन्नः स्वपुत्रादिभिर्भिन्नो विभक्तोऽपि गिरेः कुलस्य वंशस्य स्नेहस्तदेकायतनं सैवैकमायतनं स्थानं तज्जगाम । तदिति छेदेऽप्ययमेवार्थः । विधेयप्राधान्यान्नपुंसकत्वमिति । सर्वे बन्धवः स्वापत्येभ्योऽपि तस्यामधिकं स्निह्यन्तीति तात्पर्यार्थः
Summary AI Blessed by all, she went from lap to lap and enjoyed one adornment after another. The affection of the mountain's clan, though divided among many relatives, found its single focus in her.
सारांश AI लाड़-प्यार और आशीर्वादों के बीच पार्वती एक गोद से दूसरी गोद में जाती हुई श्रृंगार का आनंद ले रही थीं। हिमालय के कुल का सारा स्नेह मानो उन्हीं में सिमट गया था।
पदच्छेदः AI
अङ्कात्अङ्क (५.१) from lap
ययौययौ (√या कर्तरि लिट् (परस्मै.) प्र.पु. एक.) she went
अङ्कम्अङ्क (२.१) to lap
उदीरिताशीःउदीरित (उद्√ईर्+क्त)आशिस् (१.१) being blessed
सातद् (१.१) she
मण्डनात्मण्डन (५.१) from adornment
मण्डनम्मण्डन (२.१) to adornment
अन्वभुङ्क्तअन्वभुङ्क्त (अनु√भुज् कर्तरि लङ् (आत्मने.) प्र.पु. एक.) enjoyed
संबन्धिभिन्नःसंबन्धिन्भिन्न (√भिद्+क्त, १.१) divided among relatives
अपिअपि though
गिरेःगिरि (६.१) of the mountain's
कुलस्यकुल (६.१) of the clan
स्नेहःस्नेह (१.१) the affection
तदेकायतनम्तद्एकआयतन (२.१) its single focus
जगामजगाम (√गम् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) went to
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
ङ्का द्य या ङ्क मु दी रि ता शीः
सा ण्ड ना न्म ण्ड न्व भु ङ्क्त
सं न्धि भि न्नो ऽपि गि रेः कु स्य
स्ने स्त दे का नं गा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.