Loading data... On slow networks this could take a few minutes.
100%

ह्रीमानभूद्भूमिधरो हरेण
त्रैलोक्यवन्द्येन कृतप्रणामः ।
पूर्वं महिम्ना स हि तस्य दूर-
मावर्जितं नात्मशिरो विवेद ॥

अन्वयः AI त्रैलोक्य-वन्द्येन हरेण कृत-प्रणामः भूमिधरः ह्रीमान् अभूत्। हि सः पूर्वम् तस्य महिम्ना दूरम् आवर्जितम् आत्म-शिरः न विवेद।
सञ्जीविनीटीका (मल्लिनाथः) ह्रिमानिति । भूमिधरो हिमवान् । त्रयो लोकास्त्रैलोक्यम् । चातुर्वर्ण्यादित्वात्ष्यञ्प्रत्ययः । तस्य वन्द्येन नमस्कार्येण कृतप्रणामः सन् । `ऋत्विक्पितृव्यश्वशुरमातुलानां यवीयसाम् । प्रवयाः प्रथमं कुर्यात्प्रयुत्थायाभिवादनम् ॥` इति स्मरणात् । ह्रीमानभूत् । महादेवं प्रति स्वयमल्पत्वात्संकोचं प्रापेत्यर्थः । ननु विदितेश्वरमहिम्नः स्वयं प्रागेव प्रणतस्य जामातुराचारमात्रस्वीकारे कः संकोच इति शङ्कां निरस्यति-पूर्वमिति । हि यस्मात्स हिमवान्पूर्वं प्रागेव तस्येश्वरस्य महिम्ना सामर्थ्येन दूरमत्यन्तमावर्जितं नमितमात्मशिरो न विवेद । सत्यं स्वयं प्रणतत्वानुसंधानेन संकोचः । तदनुसंधानं त्वौत्सुक्यान्नास्तीति भावः
Summary AI The mountain lord (Himalaya) felt shy when Shiva, who is revered by the three worlds, bowed to him. Indeed, previously, overwhelmed by Shiva's greatness, he had not even been aware of his own head bowing low before him.
सारांश AI त्रैलोक्य पूज्य शिव द्वारा प्रणाम किए जाने पर हिमालय लज्जित हो गए; शिव की महिमा के कारण उन्हें आभास ही नहीं हुआ कि उनका मस्तक भक्ति में पहले ही झुक चुका था।
पदच्छेदः AI
ह्रीमान्ह्रीमत् (१.१) shy
अभूत्अभूत् (√भू कर्तरि लङ् (परस्मै.) प्र.पु. एक.) became
भूमिधरःभूमिधर (१.१) the mountain lord (Himalaya)
हरेणहर (३.१) by Hara (Shiva)
त्रैलोक्य-वन्द्येनत्रैलोक्यवन्द्य (३.१) who is revered by the three worlds
कृत-प्रणामःकृतप्रणाम (१.१) to whom a bow was made
पूर्वम्पूर्वम् previously
महिम्नामहिमन् (३.१) by the greatness
सःतद् (१.१) he
हिहि indeed
तस्यतद् (६.१) of him (Shiva)
दूरम्दूरम् low
आवर्जितम्आवर्जित (आ√वृत्+णिच्+क्त, २.१) bowed
not
आत्म-शिरःआत्मन्शिरस् (२.१) his own head
विवेदविवेद (√विद् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) did notice
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
ह्री मा भू द्भू मि रो रे
त्रै लो क्य न्द्ये कृ प्र णा मः
पू र्वं हि म्ना हि स्य दू
मा र्जि तं ना त्म शि रो वि वे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.