Loading data... On slow networks this could take a few minutes.
100%

विश्वावसुप्राग्रहरैः प्रवीणैः
संगीयमानत्रिपुरावदानः ।
अध्वानमध्वान्तविकारलङ्घ्य-
स्ततार ताराधिपखण्डधारी ॥

अन्वयः AI विश्वावसु-प्राग्रहरैः प्रवीणैः संगीयमान-त्रिपुर-अवदानः ताराधिप-खण्ड-धारी शिवः अध्वान्त-विकार-लङ्घ्यः सन् अध्वानम् ततार।
सञ्जीविनीटीका (मल्लिनाथः) विश्वावस्विति । विश्वावसुर्नाम कश्चिद् गन्धर्वो देवगायकस्तत्प्राग्रहरैस्तत्प्रमुखैः प्रवीणैः प्रकृष्टवीणैर्निपुणैर्वा । `प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः` इत्यमरः (अमरकोशः ३.१.४ ) । त्रयाणां पुराणां समाहारस्त्रिपुरम् । `तद्धितार्थोत्तरपदे-`त्यादिना समाहारसमासः । `पात्रादिभ्यः प्रतिषेधो वक्तव्यः` इति स्त्रीलिङ्गतानिषेधः । त्रिपुरस्य संबन्ध्यवदानं पूर्ववृत्तं कर्म विजयरुपं त्रिपुरावदानं तत्संगीयमानं स्तूयमानं यस्य स तथोक्तः । `अवदानं कर्म वृत्तम्` इत्यमरः (अमरकोशः ३.१.४ ) । ध्वान्तं तमः । मोह इति यावत् । तद्विकारेण रागादिना लङ्घ्योऽभिभवनीयो न भवतीत्यध्वान्तविकारलङ्घ्यः । विवाहादिकं तु तस्य लीलेत्यर्थः । ताराधिपखण्डधारी चन्द्रशेखरः शंभुरध्वानं मार्गं ततारात्यगच्छत्
Summary AI The wearer of the crescent moon (Shiva), whose heroic deed of destroying the three cities was being sung by skilled Gandharvas led by Vishvavasu, traversed the path, being one who could easily overcome the darkness and other obstacles of the journey.
सारांश AI गंधर्वराज विश्वावसु और अन्य कुशल गायकों द्वारा त्रिपुर विजय के यश का गान किए जाने पर, चंद्रधारी शिव ने अंधकार से रहित मार्ग को पार किया।
पदच्छेदः AI
विश्वावसु-प्राग्रहरैःविश्वावसुप्राग्रहर (३.३) by Gandharvas led by Vishvavasu
प्रवीणैःप्रवीण (३.३) skilled
संगीर्यमान-त्रिपुर-अवदानःसंगीर्यमान (सम्√गॄ+यक्+शानच्)त्रिपुरअवदान (१.१) he whose heroic deed of destroying the three cities was being sung
अध्वानम्अध्वन् (२.१) the path
अध्वान्त-विकार-लङ्घ्यःअध्वान्तविकारलङ्घ्य (१.१) one who could overcome the afflictions of the journey
ततारततार (√तृ कर्तरि लिट् (परस्मै.) प्र.पु. एक.) traversed
ताराधिप-खण्ड-धारीताराधिपखण्डधारिन् (१.१) the wearer of the crescent moon (Shiva)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
वि श्वा सु प्रा ग्र रैः प्र वी णैः
सं गी मा त्रि पु रा दा नः
ध्वा ध्वा न्त वि का ङ्घ्य
स्त ता ता रा धि ण्ड धा री
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.