तं लोकपालाः पुरुहूतमुख्याः
श्रीलक्षणोत्सर्गविनीतवेषाः ।
दृष्टिप्रदाने कृतनन्दिसंज्ञा-
स्तद्दर्शिताः प्राञ्जलयः प्रणेमुः ॥

अन्वयः AI पुरुहूत-मुख्याः लोकपालाः श्री-लक्षण-उत्सर्ग-विनीत-वेषाः दृष्टि-प्रदाने कृत-नन्दि-संज्ञाः तत्-दर्शिताः सन्तः प्राञ्जलयः भूत्वा तम् प्रणेमुः।
सञ्जीविनीटीका (मल्लिनाथः) तमिति । पुरुहूतमुख्या इन्द्रादयो लोकपालाः श्रीलक्षणानामैश्वर्यचिह्नानां छत्त्रचामरवाहनानामुत्सर्गेण त्यागेन विनीतवेषा अनुनीतवेषाः सन्तः । तथा दृष्टिप्रदाने दर्शननिमित्ते । दर्शनप्रदानार्थमित्यर्थः । कृता नन्दिनः प्रतिहारस्य संज्ञा संकेतो यैस्तादृशाः । मम दर्शनं दापयेति नन्दिनं प्रति कृतहस्तादिसूचना इत्यर्थः । `संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना` इत्यमरः (अमरकोशः ३.३.४० ) । तद्दर्शितास्तेन नन्दिना दर्शिता अयमिन्द्रः प्रणमत्ययं चन्द्र इत्याद्युक्तिपूर्वकं निवेदिताः प्राञ्जलयः कृताञ्जलयः सन्तः तं भवं प्रणेमुः प्रणताः
Summary AI The guardians of the worlds, led by Indra, their attire made humble by setting aside their royal insignia, bowed down to him (Shiva) with folded hands. They had been signaled by Nandi for the audience and were shown the way by him.
सारांश AI इंद्र आदि लोकपालों ने अपने ऐश्वर्य के चिन्हों को त्यागकर विनम्र वेश में नंदी के संकेत पर हाथ जोड़कर शिव को प्रणाम किया।
पदच्छेदः AI
तम्तद् (२.१) to him
लोकपालाःलोकपाल (१.३) the guardians of the worlds
पुरुहूत-मुख्याःपुरुहूतमुख्य (१.३) led by Indra
श्री-लक्षण-उत्सर्ग-विनीत-वेषाःश्रीलक्षणउत्सर्गविनीतवेष (१.३) whose attire was made humble by setting aside their royal insignia
दृष्टि-प्रदानेदृष्टिप्रदान (७.१) for the granting of an audience
कृत-नन्दि-संज्ञाःकृतनन्दिसंज्ञा (१.३) having been signaled by Nandi
तत्-दर्शिताःतद्दर्शित (√दृश्+णिच्+क्त, १.३) shown the way by him
प्राञ्जलयःप्राञ्जलि (१.३) with folded hands
प्रणेमुःप्रणेमुः (प्र√नम् कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) bowed down
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
तं लो पा लाः पु रु हू मु ख्याः
श्री क्ष णो त्स र्ग वि नी वे षाः
दृ ष्टि प्र दा ने कृ न्दि सं ज्ञा
स्त द्द र्शि ताः प्रा ञ्ज यः प्र णे मुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.