एकैव मूर्तिर्बिभिदे त्रिधा सा
सामान्यमेषां प्रथमावरत्वम् ।
विष्णोर्हरस्तस्य हरिः कदाचि-
द्वेधास्तयोस्तावपि धातुराद्यौ ॥

अन्वयः AI सा एका एव मूर्तिः त्रिधा बिभिदे। एषाम् प्रथम-अवरत्वम् सामान्यम्। कदाचित् विष्णोः हरः (आद्यः), तस्य हरिः (आद्यः), तयोः वेधाः (आद्यः), तौ अपि धातुः आद्यौ (भवतः)।
सञ्जीविनीटीका (मल्लिनाथः) एकैवेति । सैकैव मूर्तिस्त्रिघा ब्रह्मविष्णुशिवात्मकत्वेन बिभिदे । औपाधिकोऽयं भेदो न वास्तविक इत्यर्थः । अत एवैषां त्रयाणां प्रथमावरयोर्भावः प्रथमावरत्वं ज्येष्ठकनिष्ठभावः । सामान्यं साधारणम् । इच्छया सर्वे ज्येष्ठा भवन्ति कनिष्ठाश्चेत्यर्थः । एतदेव विवृणोति-कदाचिद्धरो विष्णोराद्यः । कदाचिद्धरिस्तस्याद्यः । कदाचिद्वेधास्तथोर्हरिहरयोराद्यः । कदाचित्तौ हरिहरावपि धातुः स्त्रष्टुराद्यौ । एवमेतेषां पौर्वापर्यमनियतमिति दर्शितम्
Summary AI That one and the same form divided itself into three: Brahma, Vishnu, and Shiva. The state of being first or last among them is interchangeable. Sometimes Shiva is prior to Vishnu, sometimes Vishnu is prior to him; sometimes Brahma is prior to them both, and at other times, they are both prior to Shiva.
सारांश AI एक ही शक्ति तीन रूपों में विभाजित है, जिनमें श्रेष्ठता का कोई स्थायी क्रम नहीं है; कभी विष्णु श्रेष्ठ हैं तो कभी शिव या ब्रह्मा। वे एक-दूसरे के पूरक और आदि कारण हैं।
पदच्छेदः AI
एकाएक (१.१) one
एवएव only
मूर्तिःमूर्ति (१.१) form
बिभिदेबिभिदे (√भिद् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) was divided
त्रिधात्रिधा in three ways
सातद् (१.१) that
सामान्यम्सामान्य (१.१) is common
एषाम्एतद् (६.३) among these
प्रथम-अवरत्वम्प्रथम–अवरत्व (१.१) the state of being first or last
विष्णोःविष्णु (६.१) than Vishnu
हरःहर (१.१) Shiva (is first)
तस्यतद् (६.१) than him (Shiva)
हरिःहरि (१.१) Vishnu (is first)
कदाचित्कदाचित् sometimes
वेधाःवेधस् (१.१) Brahma (is first)
तयोःतद् (६.२) than those two
तौतद् (१.२) those two (Vishnu and Brahma)
अपिअपि also
धातुःधातृ (६.१) than the Creator (Shiva)
आद्यौआद्य (१.२) are first
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
कै मू र्ति र्बि भि दे त्रि धा सा
सा मा न्य मे षां प्र मा त्वम्
वि ष्णो र्ह स्त स्य रिः दा चि
द्वे धा स्त यो स्ता पि धा तु रा द्यौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.