Loading data... On slow networks this could take a few minutes.
100%

उपाददे तस्य सहस्ररश्मि-
स्त्वष्ट्रा नवं निर्मितमातपत्रम् ।
स तद्दुकूलादविदूरमौलि-
र्बभौ पतद्गङ्ग इवोत्तमाङ्गे ॥

अन्वयः AI सहस्र-रश्मिः त्वष्ट्रा निर्मितम् नवम् आतपत्रम् तस्य (शिरसि) उपाददे। तत्-दुकूलात् अविदूर-मौलिः सः उत्तमाङ्गे पतत्-गङ्गः इव बभौ।
सञ्जीविनीटीका (मल्लिनाथः) उपादद इति । तस्य हरस्य सहस्ररश्मिः सूर्यस्त्वष्ट्रा विश्वकर्मणा निर्मितं नवमातपत्रमुपाददे । धृतवानित्यर्थः । उत्प्रेक्षते- तद्दुकूलात्तस्यातपत्रस्य प्रान्तलम्बिनो दुकूलादविदूरमौलिः । तद्दुकूलस्यासन्नमौलिरित्यर्थः । स हर उत्तमाङ्गे शिरसि । `उत्तमाङ्गं शिरः शीर्षम्` इत्यमरः (अमरकोशः २.६.९६ ) । पतन्ती गङ्गा यस्य स पतद्गङ्ग इव बभौ । तद्दुकूलादित्यत्र `दूरान्तिकार्थैः षष्ट्यन्यतरस्याम्` इति दूरार्थयोगे विकल्पेन पञ्चमी । नाथेनोक्तम् `अन्यारात्-` इत्यत्राराच्छब्दस्यार्थग्रहणार्थत्वात् पञ्चमीति तदनाकरम् । किंचास्य शास्त्रोक्तविकल्पापवादत्वात् `दूरं ग्रामस्य` इत्यादि षष्ठीप्रयोगो दूरापास्तः स्यादित्युपेक्षणीयमेव
Summary AI The Sun held over Shiva a new parasol crafted by Tvashtri. With his crest close to the parasol's silk canopy, Shiva shone as if the celestial Ganga was once again descending upon his head.
सारांश AI सूर्य द्वारा प्रदत्त और विश्वकर्मा द्वारा निर्मित नवीन छत्र शिव के मस्तक पर सुशोभित हुआ, जिससे उनके सिर पर गंगा के गिरने जैसा आभास हो रहा था।
पदच्छेदः AI
उपाददेउपाददे (उप+आ√दा कर्तरि लिट् (आत्मने.) प्र.पु. एक.) held
तस्यतद् (६.१) over him
सहस्र-रश्मिःसहस्ररश्मि (१.१) the thousand-rayed one (Sun)
त्वष्ट्रात्वष्टृ (३.१) by Tvashtri
नवम्नव (२.१) newly
निर्मितम्निर्मित (निर्√मा+क्त, २.१) made
आतपत्रम्आतपत्र (२.१) a parasol
सःतद् (१.१) he
तत्-दुकूलात्तत्दुकूल (५.१) from the silk cloth of that (parasol)
अविदूर-मौलिःअविदूरमौलि (१.१) whose crest was not far
बभौबभौ (√भा कर्तरि लिट् (परस्मै.) प्र.पु. एक.) shone
पतत्-गङ्गःपतत्गङ्गा (१.१) with the Ganga falling
इवइव as if
उत्तमाङ्गेउत्तमाङ्ग (७.१) on his head
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
पा दे स्य स्र श्मि
स्त्व ष्ट्रा वं नि र्मि मा त्रम्
द्दु कू ला वि दू मौ लि
र्ब भौ द्ग ङ्ग वो त्त मा ङ्गे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.