Loading data... On slow networks this could take a few minutes.
100%

शङ्खान्तरद्योति विलोचनं
यदन्तर्निविष्टामलपिङ्गतार्-
अम् सान्निध्यपक्षे हरितालमय्-
यास्तदेव जातं तिलकक्रियाय्-
आः

अन्वयः AI यत् अन्तः-निविष्ट-अमल-पिङ्ग-तारम् शङ्ख-अन्तर-द्योति विलोचनम् (आसीत्), तत् एव हरितालमय्याः तिलक-क्रियायाः सान्निध्य-पक्षे जातम्।
सञ्जीविनीटीका (मल्लिनाथः) शङ्खेति । शङ्खान्तरे ललाटास्थिमध्ये द्योतत इति तथोक्तम् । `श्ङ्खो निधौ ललाटास्थ्नि` इत्यमरः (अमरकोशः २.६.९३ ) । अन्तर्निविष्टा मध्यगतामला पिङ्गा तारा कनीनिका यस्य तत्तथोक्तम् । `तारकाक्ष्णः कनीनिका` इत्यमरः (अमरकोशः २.६.९३ ) । यद्विलोचनं तद्विलोचनमेव हरितालमय्या वर्णद्रव्यविशेषविकारस्य तिलकक्रिययास्तिलकरचनायाः संनिधिरेव सांनिध्यं तदेव पक्षः साध्यम् । `पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु` इति यादवः । तस्मिन् सांनिध्यपक्षे जातम्, प्रविष्टमित्यर्थः । अनेन ललाटलोचनमेव तस्य हरितालतिलकमभूदित्युक्तम्
Summary AI His third eye, shining on his forehead with its pure, tawny pupil, itself served the purpose of the auspicious tilaka mark, which is typically made of yellow orpiment.
सारांश AI भगवान शिव के ललाट पर स्थित तीसरा नेत्र, जिसमें स्वच्छ भूरी पुतली चमक रही थी, तिलक के स्थान पर स्वतः ही सुशोभित हो गया।
पदच्छेदः AI
शङ्ख-अन्तर-द्योतिशङ्खअन्तरद्योतिन् (१.१) shining within the temple bone
विलोचनम्विलोचन (१.१) the eye (third eye)
यत्यद् (१.१) which
अन्तः-निविष्ट-अमल-पिङ्ग-तारम्अन्तस्निविष्टअमलपिङ्गतार (१.१) which had a pure, tawny pupil set within
सान्निध्य-पक्षेसान्निध्यपक्ष (७.१) by serving the purpose
हरितालमय्याःहरितालमयी (६.१) of (one) made of yellow orpiment
तत्तद् (१.१) that
एवएव itself
जातम्जात (√जन्+क्त, १.१) became
तिलक-क्रियायाःतिलकक्रिया (६.१) of the act of applying a tilaka
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
ङ्खा न्त द्यो ति वि लो नं
न्त र्नि वि ष्टा पि ङ्ग ता रम्
सा न्नि ध्य क्षे रि ता य्या
स्त दे जा तं ति क्रि या याः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.