Loading data... On slow networks this could take a few minutes.
100%

तद्गौरवान्मङ्गलमण्डनश्रीः
सा पस्पृशे केवलमीश्वरेण ।
स्व एव वेषः परिणेतुरिष्टं
भावान्तरं तस्य विभोः प्रपेदे ॥

अन्वयः AI सा मङ्गल-मण्डन-श्रीः तत्-गौरवात् ईश्वरेण केवलम् पस्पृशे। तस्य विभोः स्वः वेषः एव परिणेतुः इष्टम् भाव-अन्तरम् प्रपेदे।
सञ्जीविनीटीका (मल्लिनाथः) तदिति । ईश्वरेण शिवेन सा मङ्गलमण्डनश्रीः शुभप्रसाधनसंपत्तद्गौरवात्तासु मातृष्वादरात्केवलं पस्पृशे स्पृष्टैव, न तु दध्रे इत्यवधारणार्थः केवलशब्दः । `केवलं चावधारणे` इति शाश्वतः । किंतु तस्य विभोर्देवस्य स एव वेषः स्वाभाविको भस्मकपालादिवेष एव परिणेतुर्लोकरुद्वोढुरिष्टमपेक्षितं भावान्तरं रुपान्तरं प्रपेदे । अङ्गरागादिरुपतां प्रापेत्यर्थः
Summary AI Out of respect for the divine Mothers, the Lord Shiva merely touched the splendid auspicious ornaments they offered. His own inherent attire itself, befitting the groom, attained a new and desired state of beauty.
सारांश AI शिव ने उन देवियों के सम्मान में मंगल-आभूषणों का केवल स्पर्श किया और उनका स्वाभाविक वेष ही स्वयं अद्भुत विवाह-वेष में परिवर्तित हो गया।
पदच्छेदः AI
तत्-गौरवात्तत्गौरव (५.१) out of respect for them
मङ्गल-मण्डन-श्रीःमङ्गलमण्डनश्री (१.१) the splendor of the auspicious ornaments
सातद् (१.१) that
पस्पृशेपस्पृशे (√स्पृश् भावकर्मणोः लिट् (आत्मने.) प्र.पु. एक.) was touched
केवलम्केवलम् only
ईश्वरेणईश्वर (३.१) by the Lord (Shiva)
स्वःस्व (१.१) his own
एवएव itself
वेषःवेष (१.१) attire
परिणेतुःपरिणेतृ (६.१) of the groom
इष्टम्इष्ट (√इष्+क्त, २.१) desired
भाव-अन्तरम्भावअन्तर (२.१) a new beauty
तस्यतद् (६.१) his
विभोःविभु (६.१) of the omnipresent Lord
प्रपेदेप्रपेदे (प्र√पद् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) attained
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
द्गौ वा न्म ङ्ग ण्ड श्रीः
सा स्पृ शे के मी श्व रे
स्व वे षः रि णे तु रि ष्टं
भा वा न्त रं स्य वि भोः प्र पे दे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.