Loading data... On slow networks this could take a few minutes.
100%

इच्छाविभूत्योरनुरूपमद्रि-
स्तस्याः कृती कृत्यमशेषयित्वा ।
सभ्यः सभायां सुहृदास्थितायां
तस्थौ वृषाङ्कागमनप्रतीक्षः ॥

अन्वयः AI कृती सभ्यः अद्रिः तस्याः इच्छा-विभूत्योः अनुरूपम् कृत्यम् अशेषयित्वा, सुहृद्-आस्थितायाम् सभायाम् वृष-अङ्क-आगमन-प्रतीक्षः तस्थौ।
सञ्जीविनीटीका (मल्लिनाथः) इच्छेति । कृती कुशलः । सभायां साधुः सभ्यः । `सभाया यः` (अष्टाध्यायी ४.४.१०५ ) इति यप्रत्ययः । अद्रिर्हिमवानिच्छाविभूत्योरुत्साहैश्वर्ययोरनुरुपं सदृशं यथा तथा तस्याः पार्वत्याः कृत्यं कर्तव्यमशेषं निःशेषं कृत्वा । समाप्येत्यर्थः । अशेषशब्दात् `तत्करोति` इति ण्यन्तात्क्त्वाप्रत्ययः । सुहृदास्थितायां बन्धुजनाक्रान्तायां सभायां संसदि वृषाङ्कस्य हरस्यागमनं प्रतीक्षत इति तथोक्तः सन् `कर्मण्यण्` (अष्टाध्यायी ३.२.१ ) इत्यण् । तस्थौ स्थितः
Summary AI The accomplished and courtly Mountain King, Himalaya, having completed all the preparations for his daughter's wedding in a manner befitting her wishes and his own stature, stood in the assembly hall filled with friends and relatives, awaiting the arrival of Shiva.
सारांश AI विवाह की सभी तैयारियाँ पूर्ण कर पर्वतराज हिमालय अपने मित्रों और सभासदों के साथ भगवान शिव के आगमन की प्रतीक्षा करने लगे।
पदच्छेदः AI
इच्छा-विभूत्योःइच्छाविभूति (६.२) of her desire and his own grandeur
अनुरूपम्अनुरूप (२.१) in a manner befitting
अद्रिःअद्रि (१.१) the mountain (Himalaya)
तस्याःतद् (६.१) her
कृतीकृतिन् (१.१) the accomplished one
कृत्यम्कृत्य (२.१) the duties
अशेषयित्वाअशेषयित्वा (अ√शिष्+णिच्+क्त्वा) having completed without remainder
सभ्यःसभ्य (१.१) fit for an assembly
सभायाम्सभा (७.१) in the assembly hall
सुहृद्-आस्थितायाम्सुहृद्आस्थित (७.१) which was occupied by friends and relatives
तस्थौतस्थौ (√स्था कर्तरि लिट् (परस्मै.) प्र.पु. एक.) stood
वृष-अङ्क-आगमन-प्रतीक्षःवृषअङ्कआगमनप्रतीक्ष (१.१) awaiting the arrival of the one with the bull emblem (Shiva)
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
च्छा वि भू त्यो नु रू द्रि
स्त स्याः कृ ती कृ त्य शे यि त्वा
भ्यः भा यां सु हृ दा स्थि ता यां
स्थौ वृ षा ङ्का प्र ती क्षः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.