Loading data... On slow networks this could take a few minutes.
100%

तामर्चिताभ्यः कुलदेवताभ्यः
कुलप्रतिष्ठां प्रणमय्य माता ।
अकारयत्कारयितव्यदक्षा
क्रमेण पादग्रहणं सतीनाम् ॥

अन्वयः AI कारयितव्य-दक्षा माता कुल-प्रतिष्ठाम् ताम् अर्चिताभ्यः कुल-देवताभ्यः प्रणमय्य, क्रमेण सतीनाम् पाद-ग्रहणम् अकारयत्।
सञ्जीविनीटीका (मल्लिनाथः) तामिति । कारयितव्येषु दक्षा कारयित्री । कर्मोपदेशकुशलेत्यर्थः । माता मेना प्रतितिष्ठत्यस्यामिति प्रतिष्ठा । `आतश्चोपसर्गे` (अष्टाध्यायी ३.१.१३६ ) इति कः स्त्रियां टाप् । कुलस्य प्रतिष्ठां कुलालम्बनभूताम् । स्थितिकारिणीमित्यर्थः । तां गौरीम् । अर्चिताभ्यः पूजिताभ्यः कुलदेवताभ्यो गृहदेवाभ्यः प्रणमय्य प्रणामं कारयित्वा । `ल्यपि लघुपूर्वात्` (अष्टाध्यायी ६.४.५६ ) इति णेरयादेशः । सतीनां पतिव्रतानां पादग्रहणं पादाभिवन्दनं क्रमेणाकारयत्कारयामास । `हृक्रोरन्यतरस्याम्` (अष्टाध्यायी १.४.५३ ) इत्यणि कर्तुः कर्मत्वम् । अन्यत्र च `गतिबुद्धी` त्यादिना नमेरकर्मकत्वात्
Summary AI The mother, Menā, who was skilled in directing ceremonies, first had Parvati, the family's honor, bow to the worshipped family deities. Then, she had her sequentially touch the feet of the virtuous, married women present.
सारांश AI कुलदेवताओं की पूजा के पश्चात, चतुर माता मेना ने कुल की प्रतिष्ठा स्वरूप पार्वती से सौभाग्यवती स्त्रियों के चरण स्पर्श करवाए।
पदच्छेदः AI
ताम्तद् (२.१) her
अर्चिताभ्यःअर्चित (√अर्च+क्त, ४.३) to the worshipped
कुल-देवताभ्यःकुलदेवता (४.३) to the family deities
कुल-प्रतिष्ठाम्कुलप्रतिष्ठा (२.१) the honor of the family
प्रणमय्यप्रणमय्य (प्र√नम्+णिच्+ल्यप्) having made her bow
मातामातृ (१.१) the mother
अकारयत्अकारयत् (√कृ +णिच् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) caused to do
कारयितव्य-दक्षाकारयितव्य (√कृ+णिच्+तव्यत्)दक्ष (१.१) skilled in directing what ought to be done
क्रमेणक्रम (३.१) in sequence
पाद-ग्रहणम्पादग्रहण (२.१) the touching of feet
सतीनाम्सती (६.३) of the virtuous married women
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
ता र्चि ता भ्यः कु दे ता भ्यः
कु प्र ति ष्ठां प्र य्य मा ता
का त्का यि व्य क्षा
क्र मे पा ग्र णं ती नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.