वैवाहिकैः कौतुकसंविधानै-
र्गृहे गृहे व्यग्रपुरंध्रिवर्गम् ।
आसीत्पुरं सानुमतोऽनुरागा-
दन्तःपुरं चैककुलोपमेयम् ॥

अन्वयः AI सानुमतः पुरम् गृहे गृहे वैवाहिकैः कौतुकसंविधानैः व्यग्रपुरंध्रिवर्गम् (आसीत्), अनुरागात् अन्तःपुरम् च एककुलोपमेयम् आसीत् ।
सञ्जीविनीटीका (मल्लिनाथः) वैवाहिकैरिति । अनुरागात्प्रीतिवशात् । गृहे गृहे प्रतिगृहम् । वीप्सायां द्विर्भावः । विवाहः प्रयोजनमेषामिति वैवाहिकानि तैः । `प्रयोजनम्` (अष्टाध्यायी ५.१.१०९ ) इति ठक् । कौतुकसंविधानैर्मङ्गलार्थसंपादनैर्व्यग्रो व्याकुलः पुरन्ध्रिवर्गः कुटुम्बिनीसंघो यस्मिंस्तत्तथोक्तं सानुमतोऽद्रेः पुरं बाह्यमोषधिप्रस्थमन्तःपुरमवरोधनं चैककुलेनैकगृहेण वोपमेयमासीत् `सजातीयगणे गोत्रे गृहेऽपि कथितं कुलम्` । इति विश्वः । सर्वेषामपि स्वगृह एवेदं शोभनं वर्तत इत्यभिमानोऽभूदित्यर्थः । एतेन हिमार्दैः प्रजाराग उक्तः । अत्र सर्व संपन्नमेवेत्यर्थः
Summary AI In every house of the mountain's city, the groups of housewives were busy with auspicious wedding preparations. Due to the affection, the entire city and the inner palace seemed comparable to a single family.
सारांश AI विवाह की मंगलमय तैयारियों के कारण हिमालय के नगर का प्रत्येक घर और अन्तःपुर अनुरागवश एक ही बड़े परिवार के समान एकाकार दिखाई दे रहा था।
पदच्छेदः AI
वैवाहिकैःवैवाहिक (३.३) with wedding
कौतुकसंविधानैःकौतुकसंविधान (३.३) auspicious preparations
गृहेगृह (७.१) in house
गृहेगृह (७.१) after house
व्यग्रपुरंध्रिवर्गम्व्यग्रपुरंध्रीवर्ग (१.१) with its groups of housewives busy
आसीत्आसीत् (√अस् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) was
पुरम्पुर (१.१) the city
सानुमतःसानुमत् (६.१) of the mountain
अनुरागात्अनुराग (५.१) due to affection
अन्तःपुरम्अन्तःपुर (१.१) the inner palace
and
एककुलोपमेयम्एककुलउपमेय (१.१) comparable to a single family
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
वै वा हि कैः कौ तु सं वि धा नै
र्गृ हे गृ हे व्य ग्र पु रं ध्रि र्गम्
सी त्पु रं सा नु तो ऽनु रा गा
न्तः पु रं चै कु लो मे यम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.