पत्युः शिरश्चन्द्रकलामनेन
स्पृशेति सख्या परिहासपूर्वम् ।
सा रञ्जयित्वा चरणौ कृताशी-
र्माल्येन तां निर्वचनं जघान ॥

अन्वयः AI सख्या परिहासपूर्वम् 'अनेन (चरणेन) पत्युः शिरः-चन्द्रकलाम् स्पृश' इति (उक्ता) सा (पार्वती) चरणौ रञ्जयित्वा, कृत-आशीः (सती) ताम् माल्येन निर्वचनम् जघान।
सञ्जीविनीटीका (मल्लिनाथः) पत्युरिति । सख्या कर्त्र्या । चरणौ रञ्जयित्वा लाक्षारसाक्तौ कृत्वा । कृताशीरिति करोतिना समानकर्तृकत्वम् । अनेन चरणेन रञ्जने द्वयोरपि नियमाच्चरणावित्युक्त्वाप्यौचित्यात्ताडनविधावेकतरपरामर्श इत्याहुः । पत्युरीश्वरस्य शिरश्चन्द्रकलाम् । सुरतविशेष इति शेषः । स्पृश ताडयेति परिहासपूर्वं कृताशीः प्रयुक्ताशीर्वादा सा पार्वती तां सखीं माल्येन मालया । `माल्यं मालास्रजौ` इत्यमरः (अमरकोशः २.६.१३६ ) । निर्वचनं यथा तथा । तूष्णीमित्यर्थः । जघान ताडयामास । निर्वचनमित्यनेन विहृताख्यः श्रृङ्गारानुभाव उक्तः । तदुक्तम् । `प्राप्तकाले तु यद् ब्रूयात्कुर्याद्वा विहृतं हि तत्` । इति
Summary AI A friend jokingly told Parvati, "Touch your husband's crescent moon on his head with this foot." After her feet were colored and she was blessed, Parvati, without a word, playfully struck that friend with a garland.
सारांश AI सखी ने पैरों में महावर लगाते हुए विनोद में कहा, 'इससे अपने पति के मस्तक के चन्द्रमा को स्पर्श करना'। पार्वती ने लज्जावश मौन रहकर उसे फूलों की माला से मारा।
पदच्छेदः AI
पत्युःपति (६.१) of the husband
शिरः-चन्द्रकलाम्शिरस्चन्द्रकला (२.१) the crescent moon on the head
अनेनइदम् (३.१) with this
स्पृशस्पृश (√स्पृश् कर्तरि लोट् (परस्मै.) म.पु. एक.) touch
इतिइति thus
सख्यासखी (३.१) by a friend
परिहासपूर्वम्परिहासपूर्वम् jokingly
सातद् (१.१) she
रञ्जयित्वारञ्जयित्वा (√रञ्ज्+णिच्+क्त्वा) having colored
चरणौचरण (२.२) her two feet
कृत-आशीःकृत (√कृ+क्त)आशिस् (१.१) she who was blessed
माल्येनमाल्य (३.१) with a garland
ताम्तद् (२.१) her
निर्वचनम्निर्वचनम् without a word
जघानजघान (√हन् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) struck
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
त्युः शि श्च न्द्र ला ने
स्पृ शे ति ख्या रि हा पू र्वम्
सा ञ्ज यि त्वा णौ कृ ता शी
र्मा ल्ये तां नि र्व नं घा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.