Loading data... On slow networks this could take a few minutes.
100%

विन्यस्तशुक्लागुरु चक्रुरस्या
गोरोचनापत्रविभङ्गमङ्गम् ।
सा चक्रवाकाङ्कितसैकताया-
स्त्रिस्रोतसः कान्तिमतीत्य तस्थौ ॥

अन्वयः AI (नार्यः) अस्याः अङ्गम् विन्यस्त-शुक्ल-अगुरु, गोरोचना-पत्र-विभङ्गम् चक्रुः । सा चक्रवाक-अङ्कित-सैकतायाः त्रिस्रोतसः कान्तिम् अतीत्य तस्थौ ।
सञ्जीविनीटीका (मल्लिनाथः) विन्यस्तेति । अस्या गौर्या अङ्गं गात्रं विन्यस्तं विरचितं शुक्लागुरु यस्मिस्तद् गोरोचनायाः पत्त्रैः पत्ररचनाभिर्विभक्तं विशेषितं चक्रुः । सा तथाभूता गौरी चक्रवाकैरङ्कितं सैकतं यस्यास्तस्यास्त्रिस्त्रोतसो गङ्गायाः । कान्तिं शोभामतीत्यातिक्रम्य तस्थौ । अत्र गोरोचनाचक्रवाकयोः पीतत्वेन साम्यं, त्रिस्रोतसो धावल्यं तु प्रसिद्धत्वान्न स्वपदेनोपात्तम्
Summary AI They decorated her limbs with white aloe-wood paste and drew leaf-patterns with Gorochana pigment. She then surpassed the beauty of the Ganga, whose sandbanks are marked by Chakravaka birds.
सारांश AI उनके शरीर पर श्वेत अगरु और गोरोचन से पत्र-रचना की गई। इस वेश में वे चकवा-चकवी के जोड़ों से युक्त गंगा नदी के तट से भी अधिक सुंदर लग रही थीं।
पदच्छेदः AI
विन्यस्तशुक्लागुरुविन्यस्त (वि+नि√अस्+क्त)शुक्लअगुरु (२.१) with white aloe-wood paste applied
चक्रुःचक्रुः (√कृ कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) they made
अस्याःइदम् (६.१) her
गोरोचनापत्रविभङ्गम्गोरोचना–पत्रविभङ्ग (२.१) with leaf-patterns of Gorochana
अङ्गम्अङ्ग (२.१) limbs
सातद् (१.१) she
चक्रवाकाङ्कितसैकतायाःचक्रवाकअङ्कित (√अङ्क्+क्त)सैकत (६.१) of that which has sandbanks marked by Chakravaka birds
त्रिस्रोतसःत्रिस्रोतस् (६.१) of the Ganga
कान्तिम्कान्ति (२.१) the beauty
अतीत्यअतीत्य (अति√इ+ल्यप्) having surpassed
तस्थौतस्थौ (√स्था कर्तरि लिट् (परस्मै.) प्र.पु. एक.) stood
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
वि न्य स्त शु क्ला गु रु क्रु स्या
गो रो ना त्र वि ङ्ग ङ्गम्
सा क्र वा का ङ्कि सै ता या
स्त्रि स्रो सः का न्ति ती त्य स्थौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.